#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00085 Uniform title: tattvacintāmaṇi chapters 01 thru 05 Author : pūrṇānanda Commentator : bhuvanmohan ṣaṃkhyatirtha Description: Critically edited from original manuscripts with original commentary by bhuvanmohan saṃkhyatirtha and with notes by Chintamani Bhattacharya Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 1: December 11, 2007 Publisher : Publication year : 1936 Publication city : Calcutta Publication country : India #################################################### श्रीतत्त्वचिन्तामणिः प्रथमः प्रकाशः (मङ्गलाचरणम्, ब्रह्मस्वरूपम्, तत्त्वज्ञानप्रतिबन्धकारणानि शब्दब्रह्मस्वरूपम्, तत्त्वज्ञानस्वरूपञ्च) (मङ्गलाचरणम्) ओं नमः परमदेवतायै | ओं नमः परायै | दशशतदलपद्मप्रोल्लसत्पूर्णचन्द्रे हिमरुचिरुचिराङ्गो हंसपीठान्तरस्थः | अभयवरकराब्जो योगपूर्णो द्विनेत्रः कुलकमलविलासी पातु मां देवदेवः || १ || ---------------------------------------------- १| अथ तत्रभवान् पूर्णानन्दपरमहंसः श्रीविद्योपासनारहस्यप्रतिपादकं श्रीतत्त्वचिन्तामणिं चिन्तामणिमिव साधकानां प्रणिनीषुर्ग्रन्थसमाप्तिप्रतिबन्धकी- भूताशेषविघ्ननिवारणाय मङ्गलमाचरति | तत्र च सच्चिदानन्दविभवात् सकलात् परमेश्वरात् | आसीच्छक्तिस्ततो नादो नादाद् बिन्दुसमुद्भवः || (१|७) इत्यादिशारदातिलकप्रथमपटलवचनेन, शिवशक्तिसमायोगादव्यक्तात् परमेश्वरात् | आद्या भगवती देवी सैव त्रिपुरसुन्दरी | आसीच्छक्तिस्ततो नादो नादाद् बिन्दुसमुद्भवः || इति षट्चक्रटीकाधृतपाञ्चरात्रवचनेन च ग्रन्थप्रतिपाद्यायास्त्रिपुरसुन्दरीशक्तेर्बीजरूपतया निरूपितं श्रीगुरुस्वरूपं परमशिवमादौ प्रार्थयते दशेति | दशशतदलं सहस्रारं यत् पद्मं शिरसि स्थितं तस्मिन् प्रोल्लसन् देदीप्यमानः स्फुरज्ज्योत्स्नाजाल इत्यर्थः, यः पूर्णचन्द्रः तस्मिन् स्थित इत्यर्थः | तथाहंसपीठान्तरस्थः हंस-वर्णद्वयरूपपीठाभ्यन्तरवर्त्ती | तदुक्तं महाकालीतन्त्रे प्रथमपटले सहस्रारान्तरे शून्ये दिव्यतोरणशोभिते | चन्द्रमण्डलमध्ये तु हंसवर्णद्वयोपरि | शुद्धस्फटिकसङ्काशं शुद्धक्षौमविराजितम् || इति | अत्र सहस्रारकमलकर्णिकान्तरालस्थ स ह ख फ्रें ह स क्ष म ल व र युम् इति गुरुमन्त्रात्मक-द्वादशवर्णविशिष्ट-द्वादशदलपद्मे परमशिवस्य स्थितिरिति मतान्तरम् | तदुक्तं पादुकापञ्चकटीकायाम् शिरःपद्मे सहस्रारे शुक्लवर्णे त्वधोमुखे | तरुणारुणकिञ्जल्के सर्ववर्णविभूषिते | कर्णिकान्तःपुटे तत्र द्वादशार्णसरोरुहे || इति | तथा सहस्रारं प्रकृत्यैव कर्णिकान्तःपुटे तत्र द्वादशार्णसरोरुहे | तेजोमये कर्णिकान्तश्चन्द्रमण्डलमध्यगे || अकथादित्रिरेखीये ह ल क्ष त्रयभूषिते | हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणम् || इति | पादुकापञ्चकस्तोत्रेऽपि ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् | कुण्डलीविवरकाण्डमण्डितं द्वादशार्णसरसीरुहं भजे || इत्यादिभिस्तद् विशेषेण प्रतिपादितम् | नैतत् पूर्णानन्दसम्मतमिति षष्ठप्रकाशे षट्चक्रविवरणे व्यक्तीकरिष्यामः | एतेन सहस्रारशिरःपद्मकर्णिकान्तरालस्थचन्द्रमण्डलाभ्यन्तरीण-हंसपीठे परमशिवस्य स्थितिरुक्तेति सुव्यक्तम् | हंसस्य पीठत्वञ्च हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणम् | अमुकानन्दनाथान्तं स्मरेत्तन्नामपूर्वकम् || इति प्रपञ्चसारवचनेनोपपादितमेव | अथ कोऽयं हंसो नाम ? उच्यते हंकारो बिन्दुरित्युक्तो विसर्गः स इति स्मृतः | बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृतः | पुंप्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् || इति प्रपञ्चसारवचनेन हं इति पदेन पुरुषः, सः इति पदेन च प्रकृतिर्लभ्यते, ततश्च हंस इति पदेन पुंप्रकृत्यात्मकोऽन्तरात्मेत्यवगम्यते | सहस्रदलमध्यस्थमन्तरात्मानमुत्तमम् | इत्यादिकङ्कालमालिनीतन्त्रवचनेन पुंप्रकृत्यात्मकान्तरात्मनोऽन्तः परमशिवस्य स्थितिरभिहिता | ततश्च हंसोऽन्तरात्मा स एव पीठः तस्यान्तः अभ्यन्तरे तिष्ठतीति हंसपीठान्तरस्थो देवदेव इत्यस्य विशेषणम् | हिमरुचिरुचिराङ्ग इति हिमरुचिश्चन्द्रः तद्वद् रुचिरमङ्गं यस्य सः | महानिर्वाणतन्त्रे प्रथमपटले सदासिवं सदानन्दं करुणामृतसागरम् | कर्पूरकुन्दधवलं शुद्धसत्त्वमयं विभुम् || (१|६) इत्यादिना तस्य शुभ्रवर्णतायाः प्रतिपादनात् | तस्यैव च श्रीगुरुस्वरूपत्वसूचनाय अभयवरकराब्जः, योगपूर्णः, द्विनेत्र इति विशेषणत्रयम् | तथाहि गन्धानुलेपनं शान्तं वराभयकराम्बुजम् | स्ववामस्थितया शक्त्या धृतचारुकलेवरम् | पूर्णानन्तरसोल्लासं लोचनद्वयपङ्कजम् || इति पूजाक्रमेऽभिहितेन प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् | इति प्रातःकृत्योक्तेन च ध्यानेन तस्य वराभयकरत्वं योगपूर्णत्वं द्विनेत्रत्वञ्च प्रतिपादितानि | तत एव कुलार्णवे त्रयोदशोल्लासे यः शिवः सर्वगः सूक्ष्मश्चोन्मना निष्कलोऽव्ययः | व्योमाकारो ह्यजोऽनन्तः स कथं पूज्यते प्रिये || (१३|५१) इति प्रश्नमुद्भाव्य तत्रैव अत एव शिवः साक्षाद् गुरुरूपं समाश्रितः | भक्त्या संपूजितो देवि भुक्तिं मुक्तिं प्रयच्छति || शिवोऽहं नाकृतिर्देवि नरदृग्गोचरो न हि | तस्माच्छ्रीगुरुरूपेण शिष्यान् रक्षति धार्मिकान् || मनुष्यचर्मणा नद्धः साक्षात् परशिवः स्वयम् | सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ || (१३|१३-५२-५४) इत्यादिना परमशिव एव सच्छिष्याणां त्राणार्थं श्रीगुरुरूपमास्थाय धरायां गूढं विहरतीति प्रतिपाद्य, तत्रैव सदाशिवस्य देवस्य श्रीगुरोरपि पार्वति | उभयोरन्तरं नास्ति यः करोति स पातकी || (१३|६१) इत्यादिना परमशिवस्यैव श्रीगुरुत्वमुपदिष्टम् | अस्यैवार्थस्य प्रतिपादनाय श्रीमत्पूर्णानन्दपरमहंसेन अभयवरकराब्ज इत्यादि विशेषणत्रयमुपात्तमिति निष्कर्षः | कुलकमलविलासीति | कुलशब्दार्थमाह महानिर्वाणतन्त्रे सप्तमोल्लासे जीवः प्रकृतितत्वञ्च दिक्कालाकाशमेव च | क्षित्यप्तेजोवायवश्च कुलमित्यभिधीयते || इति (७|९७) ततः कुलाचारमप्याह तत्रैव ब्रह्मबुद्ध्या निर्विकल्पमेतेष्वाचरणञ्च यत् | कुलाचारः स एवाद्ये धर्मकामार्थमोक्षदः || इति (७|९८) ततश्च वचनाभ्यामाभ्यां जीवादिवायवन्तेषु पदार्थेषु जीवत्व-प्रकृतित्व-दिक्त्वादि- प्रकारकज्ञानपरिहारपुरःसर-ब्रह्मत्वप्रकारकज्ञानसहकृताचारविशेष एव कुलाचारः, स च धर्मार्थकाममोक्षरुपं पुरुषार्थचतुष्टयं निर्वर्तयतीत्युक्तं भवति | ततश्च कुलं जीवादि वायवन्ततत्वजातमेव कमलं तत्र विलसति स्वभावेन परमार्थसत्तया क्रीडतीति कुलकमलविलासीत्यस्यार्थः | एतेनास्य पुरुषार्थचतुष्टयसाधकत्वं वर्तत इति ततः प्रार्थना समुचितैवेति सूचितम् | अत्र कुले कमलत्वारोपेण यथा सूर्यः स्वप्रभासम्पर्केण कमलानां विकाशस्वरूपतामुद्भावयति, तथा परमेश्वरोऽपि कुलशब्दप्रतिपाद्येषु जीवादिवायवन्तेषु ब्रह्मबुद्धिमुत्पादयतीति सूचितम् | अत एव नराकृतिपरब्रह्मरूपायाज्ञानहारिणे | कुलधर्मप्रकाशाय तस्मै श्रीगुरवे नमः || (५|३२) इति महानिर्वाणपञ्चमोल्लासवचनेन कुलाचारप्रकाशकत्वमभिहितम् | अथवा कुलपथस्थानि कमलानि कुलकमलानि तेषु विलसतीति कुलकमलविलासी | तदुक्तं षट्चक्रविवृतौ विश्वनाथेन तत्रैतद्दक्षिणं षट्कमाज्ञापूर्वं कुलोद्भवम् | इति | ननु नमस्योऽयमीश्वरः सकलो वा निष्कलो वेत्याशङ्कायामाह देवदेव इति | अज्ञानां ज्ञाननेत्रं निविडनव जवारागसन्तानहासि ज्योत्स्नाजालैर्नखानां कुलकमल वनीकान्तकान्तिप्रकाशम् | गङ्गाकाश्यादितीर्थो-ल्लसदमल-महापुण्य पुञ्जप्रवाहं वन्दे दीक्षागुरूणां चरणसरसिजद्वन्द्वमानन्दकन्दम् || २ || ---------------------------------------------- दीव्यन्ति मायामाश्रित्य प्रपञ्चरूपेण क्रीडन्ति इति देवा हरिहरब्रह्मादयः, तेषां देवः स्वरूपशक्त्या प्रवृत्तिनिवृत्तिरूपक्रियासम्पादकः परमशिव इत्यर्थः | तदुक्तं शारदायां प्रथमपटले निर्गुणः सगुणश्चेति शिवो ज्ञेयः सनातनः | निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृतः || इति | (१|६) २| पूर्वश्लोकेन सहस्रारविलासिनः परशिवस्यैव गुरुत्वमुपपाद्य दीक्षागुरोस्तदभेदेन तं नमस्कुरुते अज्ञानामित्यादि | ज्ञाननेत्रमित्यादिद्वितीयान्तपदानि चरणसरसिजद्वन्द्वमित्यस्य विशेषणानि | अज्ञानां सच्चिदानन्दस्वरूपब्रह्मज्ञानरहितानां ज्ञाननेत्रम् | यथा लोको नेत्रेण सर्वानपि लौकिकान् पदार्थानवलोकयति, तथा साधकोऽपि श्रीगुरुचरणद्वन्द्वप्रसादपरम्परालब्धदीक्षाप्रभावेणैव ब्रह्मदर्शी भवति | अत एव अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || इत्यनेन गुरोरेव ज्ञानचक्षुरुन्मीलकत्वमुक्तम् | रुद्रयामलोत्तरखण्डे प्रथमपटलेऽभिहितेन गुरोः प्रसादमात्रेण शक्तितोषो महान् भवेत् | शक्तिसन्तोषमात्रेण मोक्षमाप्नोति साधकः || (१|२२४) गुरुमूलं जगत् सर्वं गुरुमूलं परन्तपः | गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी || (१|२२५) इत्यादिवचनेनापि श्रीगुरुप्रसादस्यैव मोक्षदातृत्वमुक्तम् | निविडनवजवारागसन्तानहासि निविडः सान्द्रो यो नवजवारागः सद्यःप्रस्फुटितजवाकुसुमरक्तिमा तस्य सन्तानो विस्तारस्तद्वद् हासः प्रकाशः अस्यास्तीति, सद्यो विकसितजवाकुसुमारुणमित्यर्थः | तथा नखानां ज्योत्स्नाजालैः प्रभापटलैः कुलकमलवनीकान्तकान्तिप्रकाशम् | कुलशब्दार्थः प्रथमश्लोके प्रदर्शितः | कुलं जीवादितत्त्व अज्ञानौघमहान्धकारपटलध्वंसप्रचण्डद्युति- र्ब्रह्मानन्दपरम्परैकनिलयः पूर्णेन्दुकोटिप्रभः | पाणिभ्यामभयं वरञ्च जगतामुच्चैस्तरामादिशन् मूर्ध्नि श्वेतसरोरुहासनसमासीनः शिवः पातु नः || ३ || ------------------------------------------------------------------ जातमेव कमलवनी तत्र कान्ता कमनीया या कान्तिर्ब्रह्मस्फूर्तिरूपा तां प्रकाशयतीति तथाभूतम् | चरणनखमयुखमालया जीवादिवायवन्तकुलपदार्थेषु स्थितां वृत्तिज्ञानागोचरीभूतां ब्रह्मसत्तां श्रीगुरुरेव प्रकाशयति | तदुक्तं महानिर्वाणतन्त्रे सप्तमोल्लासे सद्गुरोः सेवया प्राप्य विद्यामेनां परात् पराम् | कुलाचाररता भूत्वा पञ्चतत्वैः कुलेश्वरीम् || इत्यादि | (७|१०१) गङ्गेत्यादि | गङ्गाकाश्यादितीर्थेषु उल्लसन् यः पुण्यपुञ्जस्तत्सदृशं पुण्यपुञ्जं प्रवाहयतीति, तथाभूतम् | गङ्गादितीर्थेषु स्नानादिना यादृशः पुण्यराशिरुत्पद्यते, श्रीगुरुचरणवन्दनादिनापि तादृश एवेत्यर्थः | तदुक्तं प्राणतोषणीधृतगुरुतन्त्रे गङ्गाद्याः सरितः सर्वा गन्धर्वाः सर्पजातयः | स्थावरा जङ्गमाश्चान्ये पर्वताः सार्वभौतिकाः | एते चान्ये च तिष्ठन्ति नित्यं गुरुकलेवरे || इति | तथा विश्वसारतन्त्रीयगुरुगीतायाम् काशीक्षेत्रं निवासोऽस्य जाह्नवी चरणोदकम् | इति | विशेषस्तु कुलार्णवे द्वादशोल्लासे कोटिमन्त्रजपाद्देवि कोटितीर्थावगाहनात् | कोटिदेवार्चनाद्देवि परा श्रीपादुकास्मृतिः || (१२|५) इत्यादिभिरभिहितः | आनन्दकन्दम्, - आनन्दं ब्रह्मणो रूपम् इति श्रुतेरानन्दस्य परब्रह्मणः कन्दं तत्वज्ञानमूलभूतमित्यर्थः | तदुक्तं कुलार्णवे द्वादशोलासे मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा | इति | (१२|१३) तथा गुरोः प्रसादमूलोऽयं परतत्वमहाक्रमः | इति च | (१२|१७) दीक्षागुरूणां चरणसरसिजद्वन्द्वं वन्दे इत्यर्थः | ३| पूर्वश्लोकेन दीक्षागुरुं प्रणम्य तदीयकरुणालब्धोपासनक्रमाणामेव साधकानां ब्रह्मोपासनसम्भवात् तत्रापि दुर्बलाधिकारिणां दशशतदलपद्मप्रोल्लसत्पूर्णचन्द्र इत्यादि- प्रथमश्लोकप्रतिपादितस्य परमशिवस्योपासनायाः सर्वथा दुःसाध्यत्वात् सविशेषब्रह्मोपासनमभिदधानः आदौ शिवं पूजयित्वा शक्तिपूजा ततः परम् | यत्किञ्चिदुपचारं हि तस्यः किञ्चिन्निवेदयेत् || (५|४०) अन्यथा मुत्रवत् सर्वं गङ्गातोयं भवेद् यदि | तथा- अन्यदेवं पूजयित्वा शिवं पश्चाद् यजेद् यदि | तस्य पूजाफलञ्चैव भुज्यते यक्षराक्षसैः || (५|४५) इत्यादितोडलतन्त्रपञ्चमोल्लासवचनेन शिवोपासनाया एव प्रथमकर्तव्यत्वश्रवणाच्छिवमेवादौ प्रसादयति-अज्ञानेति | अज्ञानौघ एव महान्धकारपटलः निर्विशेषब्रह्मस्वरूपाच्छादकत्वाद् गाढान्धकारराशिस्वरूपः, तस्य ध्वंसे विनाशे प्रचण्डद्युतिः मार्तण्डस्वरूपः | यथा सूर्यो गाढान्धकारनिकरं दूरीकृत्य लौकिकं तत्त्वजातं जनानां ज्ञानगोचरतां नयति, तथा शिवोऽप्यविद्यावरणमपाकृत्य ब्रह्मस्वरूपतामात्मनः साधकानां पुरतः प्रकाशयतीत्यर्थः | ब्रह्मानन्दपरम्परैकनिलयः निरवच्छिन्नब्रहानन्दस्य आश्रयस्वरूपः | अत एव गन्धर्वतन्त्रे प्रथमपटले स्मितपूर्वो महादेवः पूर्णानन्दमयो विभुः | इत्यनेन शिवस्य पूर्णानन्दस्वरूपत्वमुपपादितम् | पूर्णेन्दुकोटिप्रभः कोटिपूर्णचन्द्रप्रभासदृशप्रभाविशिष्टः | पाणिभ्यां जगताम् अभयं वरञ्च उच्चैस्तराम् आदिशन् प्रचुरतरं हितं विदधान इत्यर्थः | मूर्ध्नि श्वेतसरोरुहासनसमासीनः शिरःस्थसहस्रारकमलासनस्थित इत्यर्थः | सकलशिवस्यापिसहस्रारमेव स्थानम् | तदुक्तं षट्चक्रटीकाधृतगन्धर्वमालिकातन्त्रे सहस्रारं शिवपुरं रम्यं दुःखविवर्जितम् | इति अत्रेदं रहस्यम्, - आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादिश्रुत्या भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः | क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे || (९|२४) परे ब्रह्मणि विज्ञाते समस्तैर्नियमैरलम् | तालवृन्तेन किं कार्यं लब्धे मलयमारुते || (९|२८) इत्यादिकुलार्णव-नवमोल्लासवचनेन, निराकारं समासाद्य निरञ्जनपदं लभेत् | निराकारेण देवेशि कृतकृत्यश्च साधकः || इति कुब्जिकातन्त्रनवमपटलवचनेन, यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् | यज्ज्ञानान्नापरं ज्ञानं तद् ब्रह्मेत्यवधारय || यद्दृश्यान्नापरं दृश्यं यद्दृष्ट्वा न पुनर्भवः | तिर्यगूर्द्धमधःपूर्णं सच्चिदानन्दमव्ययम् | अनन्तं नित्यमेकं यत्तद् ब्रह्मेत्यवधारय || इति गन्धर्वतन्त्रप्रथमपटलवचनेन च परब्रह्मज्ञानं तत एव साधकानां कृतकृत्यत्वञ्चाभिहितम्, परं दुर्बलाधिकारिणां जीवानां सर्वथा तदसम्भवात् सगुणब्रह्मोपासनतः क्रमेण निर्गुणब्रह्मावाप्तिर्भवति | अत एव कुलार्णवे त्रयोदशोल्लासे यः शिवः सर्वगः सूक्ष्मऽऽचोन्मना निष्कलोऽव्ययः | व्योमाकारो ह्यजोऽनन्तः स कथं पूज्यते प्रिये || ५१ || इति शिवस्य प्रश्न उपपद्यते | अत्र साधु मीमांसितं वेदान्तपरिभाषायाम् निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः | ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः || वशीकृते मनस्येषां सगुणब्रह्मशीलनात् | तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् || इति | अस्यैवार्थस्य प्रतिपादनाय कुब्जिकातन्त्रे नवमपटले साकारेण महेशानि निराकारञ्च भावयेत् | साकारेण विना देवि निराकारं न पश्यति || इति | हरतत्वदीधितिधृतागस्त्यसंहितायामपि सर्वेश्वरः सर्वमयः सर्वभूतहिते रतः | सर्वेषामुपकाराय साकारोऽभून्निराकृतिः || इत्यभिहितम् | तदेतत्पूर्वपूर्ववचनसंवादेन परमशिवः स्थूलाधिकारिणां स्वरूपग्रहणेऽसमर्थानां परमपुरुषार्थसम्पत्तये शिवशक्त्यादितत्तद्रूपेणाविर्भूय ध्यानादिगम्यतामाश्रयन् साधकाननुगृह्णातीति सर्वमवदातम् | यस्याम्भोधरकान्तिसुन्दरतरे वक्षःस्थले निर्मले भास्वत्कौस्तुभनामकेन मिलिता संशुद्धमुक्तावली | कालिन्दीसलिलैकपङ्कजलसद्गङ्गाम्बुधारोपमां शोभामातनुते स मे वितनुतां दामोदरो मङ्गलम् || ४ || भक्त्याऽनम्रविरिञ्चिमौलिविलसन्मन्दारमालावली- निर्यातैर्मकरन्दबिन्दुविसरैः स्नाताङ्घ्रिपीठान्तिका | ध्यानैरेव निषेविता गुरुतरैरिन्द्रादिवृन्दारकैः शम्भोरम्बुजलोचना भगवती देवी शिवायास्तु नः || ५ || --------------------------------------------------------------- ४| पूर्वश्लोकेन शिवं प्रसाद्य विष्णुरूपेणाविर्भूतं परमशिवं प्रसादयति यस्येति | अम्भोधरकान्तिसुन्दरतरे-अत्राम्भोधरपदेन मेघस्यातिशयकृष्णवर्णत्वं सूचितम्, जलापगमे मेघस्य शुभ्रत्वान्न तेन सह दामोदरस्योपमा सम्भवति | जलमयमेघस्य या कान्तिस्ततोऽपि मनोज्ञतरकान्तिशालिनि यस्य दामोदरस्य निर्मले वक्षःस्थले विलसन्ती संशुद्धमुक्तावली संशुद्धा मालिन्यादिदोषशून्या स्वच्छा इत्यर्थः | मुक्तावली मुक्तामाला भास्वत्कौस्तुभनामकेन भास्वत् दीप्तिमत् यत् कौस्तुभं तन्नामकरत्नं तेन मिलिता सङ्गता सती, कालिन्दीसलिलैकपङ्कजलसद्गङ्गाम्बुधारोपमाम् कालिन्द्याः यमुनायाः सलिले उत्फुल्लमिति शेषः, यदेकं पङ्कजं तत्र लसन्ती शोभमाना या गङ्गाम्बुधारा तया उपमा सादृश्यं यस्याः तथाभूतां शोभामातनुते, स दामोदरो मङ्गलं वितनुताम् | अत्र दामोदरस्य कृष्णवर्णत्वाद् यमुनाजलसादृश्यम्, कौस्तुभरत्नस्य शुभ्रत्वात् पङ्कजसादृश्यम्, मुक्तावल्याः शुभ्रत्वाल्लम्बमानत्वाच्च गङ्गाम्बुधारासादृश्यमित्यवधेयम् | तथाच-यः परमार्थतो नीरूपोऽपि साधकजनगणानुग्रहार्थमीदृशं किञ्चन कमनीयं रूपं धत्ते, यश्चापरिच्छिन्नोऽपि मातुरभीप्सितपूरणार्थमतिदुःसहं दामबन्धनमप्यङ्गीचकार, साधकजनमनोविनोदनसमुल्लसत्करुणः स भगवान् प्रार्थनया प्रसादितो नूनं मङ्गलं विदध्यादित्यभिप्रायेण वितनुतां दामोदरो मङ्गलमित्युक्तम् | ५| एवं भगवन्तं शिवं दामोदरञ्च प्रसाद्य ग्रन्थप्रतिपाद्यां परमशिवस्य स्वरूपशक्तिरूपाम् अरूपामपि साधकजनेष्वनुग्रहबुद्ध्या रूपधारिणीं श्रीमत्त्रिपुरसुन्दरीं प्रसादयति भक्त्याऽन्म्रेति | भक्त्या श्रीमत्त्रिपुरसुन्दर्यां जगदम्बिकायामनुरागविशेषेण आनम्रो यो विरिञ्चिर्ब्रह्मा तस्य मौलौ विलसन्ती या मन्दारमालावली तस्या निर्यातैर्निष्ठ्यूतैः मकरन्दबिन्दूनां विसरैः समूहैः स्नातम् अङ्घ्रिपीठान्तिकं पादपीठसमीपं यस्याः सा | तदुक्तं गन्धर्वतन्त्रे एकादशपटले ब्रह्मविष्णुशिरोरत्ननिघृष्टचरणाम्बुजाम् | इति | अनेनास्या ब्रह्मादिभिराराध्यत्वमभिहितम् | इन्द्रादीनान्त्वस्याः साधनप्रकारो नैतादृश इत्याह गुरुतरैः आधिपत्यरूपगुरुत्वविशिष्टैः इन्द्रादिवृन्दारकैस्तु ध्यानैस्तत्स्वरूपचिन्तनैरेवोपासिता | स्वर्गाद्यधीश्वरा इन्द्रादिलोकपाला अपि यस्याः स्वरूपमवलोकयितुमप्रभविष्णवो यत्स्वरूपावलोकनलालसया ध्यानयोगमाश्रित्य यां सेवन्ते सा अम्बुजलोचना भगवती षडैश्वर्यशालिनी शम्भोः परमशिवस्य देवी प्रकाशस्वरूपा श्रीमत्त्रिपुरसुन्दरी नः अस्माकं साधकानां शिवायास्तु | अत्रेदं रहस्यम् शम्भोर्देवीत्यनेन परशक्त्याः सृष्ट्यादिकर्तृत्वं तस्य च शम्भुसम्बन्धनिर्बाह्यत्वमिति सूच्यते | अत एव कामकलाविलासे स्फुटशिवशक्तिसमागमबीजाङ्कुररूपिणी परा शक्तिः इत्युक्तम् | तट्टीकायामप्यन्यत्र न शिवेन विना देवी न देव्या च विना शिवः | उभयोरन्तरं नास्ति चन्द्रचन्द्रिकयोरिव || इत्यभिहितम् | तन्त्रनये प्रकाशसत्ता विमर्शसत्ता चेति द्विविधा सत्ताङ्गीकृता | तत्र स परशक्तिकपरब्रह्मसत्ता प्रकाशसत्ता, शिवादिक्षित्यन्त-षट्त्रिंशत्तत्त्वरूपप्रपञ्चसत्ता तु विमर्शसत्ता | तत्र च स-परशक्तिकपरशिवः प्रकाशस्वरूपः स्वलीलया विमर्शात्मकमखिलं प्रपञ्चजातं सूक्ष्मतया स्वस्मिन्नवस्थितं प्रकाशयति संहरति च | तत्र च परशक्त्या एव क्रियाशक्त्यधिष्ठानतया सृष्ट्यादिकर्तृत्वम्, तच्च परशिवस्य ज्ञानशक्त्यधिष्ठानतया निर्वर्त्तते | ततश्च परशिवसम्बन्धाभावे परशक्तेरपि कर्तृत्वं नोपपद्यत इति सूचनाय शम्भोर्देवीति ग्रन्थकृद्भिरभिहितम् | चितिरूपा महामाया परंब्रह्मस्वरूपिणी | सेवकानुग्रहार्थाय नानारूपं दधार सा || इति हरतत्वदीधितिधृतदेव्यागमवचनेन, सा एव पञ्चमी शक्तिः परंब्रह्मस्वरूपिणी | परमानन्दरूपं यज्जगतां कारणं महत् || तस्या देव्यास्तु तद्रूपमुदयास्तविवर्जितम् | स्थूलत्वे स्थूलरूपा सा सूक्ष्मत्वे सूक्ष्मरूपिणी | हृदयकमलमध्ये प्रोल्लसत्कर्णिकान्तः- प्रमुदितशिवशययासंस्थिता कापि मूर्तिः | सुरवरहरमौलिस्मेरमुक्ताप्रधान- प्रविलसितपदाब्जा पातु मां मोहकूपात् || ६ || ------------------------------------------------------------------------- योषौ विश्वेश्वरो देवो विश्वं व्याप्यव्यवस्थितः | सैव विश्वेश्वरी देवी व्यापकत्वेन संस्थिता || इत्यादिगन्धर्वतन्त्रतृतीयपटलवचनेन च शिवशक्त्योरभेदं साधकानामनुग्रहार्थं नानारूपपरिग्रहञ्चोपपाद्य, तस्याः पुनः पुनः सृष्टिर्जायते लीयते सदा | तस्माच्छक्तिः प्रधाना च शक्त्या व्याप्तमिदं जगत् || इति गन्धर्वतन्त्रतृतीयपटलवचनेन महेश्वरः शक्त्या एव सृष्ट्यादिकर्तृत्वमभ्यधात् | एवञ्च या ब्रह्मादिभिरिन्द्रादिभिश्चाराधिता रूपविशेषं परिगृह्य साधकाननुगृह्य तेषां भोगं मोक्षञ्च निर्वर्तयति सा प्रार्थिता नूनमस्माकं मङ्गलं विदध्यादित्यभिप्रायः | ६| एवं देवीं प्रसाद्य शास्त्रस्यास्योपासनापरतया तदुपासनानुकूलां मूर्तिं तदुपासनयोग्यस्थानञ्च निरूपयन् ग्रन्थकृत्, निर्वाणतन्त्रे सप्तमपटले द्वादशारमनाहतपद्ममुपक्रम्याभिहितेन महर्लोकमिदं भद्रे पूजास्थानं सुरेश्वरि | अत्रैव मानसं यागं कुरुते योगवित्तमः || इति वचनेन हृत्पद्मस्यैव मानसयागस्थानत्वाभिधानादाह हृदयेति | हृदयकमलमध्ये प्रोल्लसन्ती या कर्णिका तस्या अन्तः अभ्यन्तरे स्थिता या प्रमुदितशिवशयया देवीचरणस्पर्शसुखानन्दितशिवरूपशयया तत्र संस्थिता | अथवा प्रोल्लसन्तीति मूर्तिविशेषणम् | अत्र यद्यपि हृत्पद्ममध्ये बीजकोषः, ततः षटकोणमण्डलम्, ततो वायुमण्डलं महर्लोकापरपर्यायम्, इत्येवं क्रमस्तथापि सामान्यतोऽभिहितमित्यवधेयम् | सुरवरहरमौलिस्मेरमुक्ताप्रधानप्रविलसितपदाब्जा मुक्ताप्रधाने प्रविलसिते च पदाब्जे यस्याः सा, मुक्तामणिप्रवालैश्च पादपद्मविभूषिताम् इति वक्ष्यमाणध्यानैकदेशेन यन्मुक्ताविभूषितत्वमुक्तम्, तत्र मुक्ताशब्दस्य प्रथममभिधानान्मुक्तामणिप्रवालानां पादभूषणत्व साम्येऽपि मुक्तानामेव प्राधान्यमित्येवाह मुक्ताप्रधानेति पदेन | स्मेरा न पीतं नापीतं नहि परिमितं नापरिमितं न रक्तं नारक्तं नहि धवलितं नाधवलितम् | निराकारं नित्यं त्रिगुणरहितं देवमजडं तमात्मानं वन्दे परमसुखसन्ताननिलयम् || ७ || ---------------------------------------------------- चासौ मुक्ताप्रधानप्रविलसितपदाब्जा चेति कर्मधारयः | वक्ष्यमाणत्रिपुरसुन्दरीध्याने ईषत्सहास्यवदनजितमाधुर्यसागराम् इत्युक्त्या, स्मेरेति देवीविशेषणम् | ततश्च सुरवरहरमौलिस्थिता चासौ स्मेरमुक्ताप्रधानप्रविलसितपदाब्जा चेति मध्यपदलोपी कर्मधारयः | ईदृशी कापि अनिर्वाच्यस्वरूपा मूर्तिर्मां मोहकूपात् पातु | ततोऽपगतमोहोऽहं ग्रन्थनिर्माणं निर्विघ्नं निर्वर्तयेयमिति ग्रन्थकृतोऽभिप्रायः | ७| अथेदानीं प्रागुक्तदेवतोपासनाविशेषेण निर्मलमनसां मुमुक्षूणां चरमज्ञानविषयं परमशिवस्वरूपं निरूपयति | तत्र स एक एव सद्रूपः सत्योऽद्वैतः परात् परः | स्वप्रकाशः सदा पूर्णः सच्चिदानन्दलक्षणः || निर्विकारो निराधारो निर्विशेषो निराकुलः | गुणातीतः सर्वसाक्षी सर्वात्मा सर्वदृग विभुः || गूढः सर्वेषु भूतेषु सर्वव्यापी सनातनः | सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः | लोकातीतो लोकहेतुरवाङ्मनसगोचरः || इत्यादि महानिर्वाणतन्त्रद्वितीयपटलवचनेन परमशिवस्य सच्चिदानन्दाद्वैतनिर्विकारस्वप्रकाशनिर्गुणत्वादिस्वरूप-त्वाभिधानाद् ग्रन्थकारेण च प्रथमप्रकाशे अस्ति सत्यं परं ब्रह्मेत्यादिना तथैव वक्ष्यमाणत्वान् निर्विशेषब्रह्मरूपपरमशिवस्वरूपमाह न पितमित्यादि | आत्मात्र निर्विशेषब्रह्म | ब्रह्म पीतमिति निरूपयितुं न शक्यते प्रकाशस्वरूपत्वांशे निर्गुणत्वात्, अपीतमित्यपि निरूपयितुं न शक्यते विमर्शांशे सगुणत्वात्, अतः पीतापीतादिविलक्षणमनिर्वाच्यस्वरूपं ब्रह्मेत्युक्तं भवति | एवमुत्तरत्रापि योज्यम् | एवञ्चेत् तत् किंस्वरूपं ब्रह्मेत्याह निराकारमिति | यत् प्रत्यक्षेण नोपलभ्यते तस्यास्तित्वे किं मानमित्यत आह नित्यमिति | प्रागुक्त-महानिर्वाणवचनस्थ-सनातन- (ग्रन्थोपक्रमः) अथ खलु दुरन्त-दुस्तर-घोरतरसंसारसागरान्तरुद्दाम-शोकसन्तान- प्रबलबडवानलज्वालाजाल-कवलन-विकलसकल-पशुजनव्रातात्मविज्ञानदत्तमनाः परमकारुणिको भगवान् परमशिवः परदेवताराधनरहस्यप्रतिपादनपरानेकशतकोटिविस्तारतन्त्र- -------------------------------------------------------- पदेन तस्य नित्यत्वावगमात् | अथ वयमिव सुखदुःखमोहादिभिरूपगतं कथं न स्यादित्यत आह त्रिगुणरहितमिति | एवञ्चेत् प्रवृत्त्यनुपपत्तेः कस्यापि नोपकारायालं किं तेनास्माकमित्यत आह देवमिति | निर्गुणोऽपि परमात्मा स्वरूपशक्तिमाश्रित्य दीव्यति जीवानां प्रीणनाय स्वान्तःस्थं प्रपञ्चजातम् उद्गीर्य निगीर्य च क्रीडतीति देवस्तमित्यर्थः | अथवा देवं द्योतनशीलं विश्वप्रकाशकमित्यर्थः | ननु देवनं चेतनगतो धर्मः, पूर्वपूर्वविशेषणैस्तु तस्य चैतन्यस्वरूपत्वं न प्रतीयत इत्यत आह अजडमिति | चैतन्यस्वरूपमित्यर्थः | प्रागुक्त- महानिर्वाणवचनस्थ-सच्चिदानन्दलक्षण-पदेन तस्य चित्स्वरूपत्वावगमात् | एतेन देवनं तस्य लीलामात्रमित्युक्तम् | ननु भवत्वेवंस्वरूपं ब्रह्म तथापि निर्गुणत्वेन सुखस्वरूपत्वाभावात् तत्स्वरूपत्वावाप्त्या नास्माकं सुखोदयः सम्भवतीति चेत्तत्राह परमसुखसन्ताननिलयमिति | निर्गुणत्वेऽपि सच्चिदानन्दलक्षण इति पदेन तस्यानन्दस्वरूपत्वमवगम्यते | नन्वानन्दोऽस्माकमपि वर्तते, तत् कोऽस्य विशेष इत्याशङ्कानिरासार्थं सुखस्य परमेति विशेषणम् | परमं दुःखासम्भिन्नं सुखं तत्र वर्तत इति विशेषः | तदपि सुखं निरवच्छिन्नमित्याह-सन्तानेति | अस्मदादीनां सुखं क्षणिकम्, परमशिवस्य तु सुखं धारावाहिकमित्ययमेव विशेषः, अतः सच्चिदानन्दस्वरूपतावाप्तये तमात्मानं परमशिवं वन्दे इति तात्पर्यम् | अत्रेदमवधेयम् प्रागुक्तमहानिर्वाणवचनैः शरीरकञ्चुकितः शिवो जीवो निष्कञ्चुकः परमशिवः (१|५) इति परशुरामकल्पसूत्रेण च परमशिवस्य यत् स्वरूपमुक्तं तदेवोपनिषदुक्तं निर्विशेषब्रह्मेति | प्रथमश्लोकेन तस्य श्रीगुरुस्वरूपत्वमभिहितम्, न पीतमित्यादिना तु निर्विशेषस्वरूपत्वमिति | एतन्निर्विशेषस्वरूपत्वं ग्रन्थकारः स्वयमेव वक्ष्यति किन्तावदात्मवस्त्वित्यादिना | सारमुपन्यस्तवान् | तत्र च निरन्तरभावनावगाह्य-दुरवगाह्य-विविधतन्त्र-स्वतन्त्रसिद्धान्त- शुद्धिबोध-विधुर-महालसव्रजोद्वेग-समुद्विग्नमनाः श्रीमत्-परमहंसपरिव्राजक- श्रीगुरुब्रह्मानन्दमुखारविन्दनिस्यन्दमान-परमरहस्यातिरहस्य-निगम-मकरन्द-सन्दोह- तुन्दिलानन्दः श्रीपूर्णानन्दपरमहंसः श्रीतत्त्वचिन्तामणिं चतुर्दशशताधिक-नवनवति- शकाब्दे वितनोति | (परमात्मजीवात्मनोः स्वरूपम्) ननु किन्तावदात्मवस्तु? परंब्रह्म विश्वायतनस्थूलसूक्ष्मरहित- नित्यशुद्धबुद्धमुक्तस्वरूपजाग्रत्-स्वप्न-सुषुप्त्यादिप्रपञ्चप्रकाशक-गुणत्रयातीत- निराकाराबाधितादिमध्यान्तरहितमेवात्मवस्तु, तदंशा जीवसंज्ञकास्त एवानाद्यविद्योपहताः शरीरमास्थाय नानाविध-सुखदुःखभोगं कुर्वन्तीति | तदाश्रया तद्विषयाऽनाद्यविद्या यथा गर्भागारमन्धकारस्य विषयाश्रयौ, तदाश्रयत्वतद्विषयत्वबलेनावरणविक्षेपरूपं प्राप्य तमात्मानमाच्छाद्य विक्षिपति | यद्यप्यवस्त्वविद्या तथाप्यात्मसत्तास्फूर्तिं प्राप्य वस्तुवद्भाति, यथा निर्मलदर्पणसन्निकर्षस्थवस्तुप्रतिविम्बमनिवारितं जायते, तद्वत् कूटस्थचिदाभासोऽपि सत्त्वादिगुणत्रयात्मिकायामविद्यायां प्रतिफलति | (तत्र सत्त्वोपहितस्येश्वरसंज्ञा) तन्मध्ये कारणभूतसत्त्वांशप्रतिविम्बितो यश्चिदाभसः सोऽहमिति स्थिराध्यासादीश्वर इत्युच्यते | तस्य सत्त्वगुणोपाधित्वात् सर्वज्ञत्वं सर्वेश्वरत्वं सर्वकार्यकर्तृत्वञ्च | (रजस्तमोभ्यामुपहितस्य जीवसंज्ञा) सत्त्वगुणप्रधान-कारणरूपमायायाः कार्यभूतरजस्तमोंऽशोपाधितः प्रतिबिम्बितो यश्चिदाभासः स यदा कर्मनिमित्तवशाद्देशकालवस्तुत्रिविधपरिच्छेदं गृहीत्वा स्वरूपं पूर्णं विहाय सजातीय-विजातीय-स्वगतभेदं प्राप्य अहं ममेत्यध्यासो भवति तदा जीव इत्युच्यते | अस्य कार्योपाधित्वाज्जाड्यम् | तेनाहं कर्ता अहं भोक्ता अहं सुखी अहं दुःखी मामहं न जानामीति मन्यते | श्रुतिरपि कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः इति | जगत्सृष्त्यादिप्रतिपादन ईश्वरः कल्पितो वेदान्ते | (ईश्वरकृतसृष्ट्यादि) ईश्वरस्तूपाधिगुणत्रयभेदेन ब्रह्मविष्णुरुद्रादिरूपेणाविद्याया आवरणविक्षेपरूपद्वयं प्राप्याब्रह्मस्तम्बपर्यन्तं नवविधसंसारं सृजत्यवति संहरतीति च | (अत्र पर्यनुयोगः) ननु केवलासङ्गोदासीन-नित्यमुक्तशुद्धबुद्ध- गुणातीताहङ्कारममकारेच्छाद्वेषप्रयत्नरहितस्य परमात्मनो नरविषाणवत् कथ- मावरण-विक्षेपौ सम्भाव्येते ? यथा गगनारविन्दं सुरभोत्युक्त गगनारविन्दमेवासत् तस्य सुरभित्वं कुतः ? (समाधानम्) सत्यं एतत् सर्वमाविद्यकं तत्कार्यमावरणविक्षेपरूपं वस्तुगत्या नास्त्येव, किन्त्वज्ञातात्मनोऽविवेकाद् भ्रममात्रसिद्धम् | यदा स्वप्नावस्थितो जनस्तदा किं तं प्रति स्वाप्नो व्यवहारः सत्यतया न प्रतिभाति, ऐन्द्रजालिकस्य वा | पुनरपि स्वप्ने निवृत्ते ऐन्द्रजालिकमायानिवृत्तौ च सर्वं मिथ्यैव जानाति, इदन्तु सर्वेषामनुभवसिद्धम् | तद्वज्ज्ञानोत्पत्तेः प्राक् सत्यमेव निश्चिनोति, तदनन्तरं मिथ्यात्वे ज्ञाते अज्ञानं तत्कार्यञ्चावरणविक्षेपरूपं सुतरां नश्यतीति | (साधनप्रकारनिरूपणप्रतिज्ञा) अथेदानीं मुमुक्षोः पुरुषार्थसिद्धावनाद्यविद्याप्रतिबन्धनिवृत्त्यर्थं साधनप्रकारा उच्यन्ते, - यतो वैदिककर्मानुष्ठानात् --------------------------------------------------- पूर्वं नन्वित्यादिना असङ्गत्वादिहेतुभिः परमात्मन्यावरणविक्षेपादेरसम्भवमुपपाद्य यथा गगनारविन्दमित्यादिना दृष्टान्तञ्चोपदर्श्य पूर्वपक्षस्योत्तरमाह सत्यमित्यादिना | ऐन्द्रजालिकस्य वेति | ऐन्द्रजालिको यदा पिच्छिकाभ्रमणादितत्तत्क्रियानुष्ठानेन मायामुण्डादिनानाविधविचित्रनिर्माणवैदग्ध्यं प्रदर्शयति, तदा किमैन्द्रजालिकस्य स व्यवहारः सत्यतया न प्रतिभाति इति सम्बन्धः | पुनरपीति परन्त्वित्यर्थः | स्वप्ने निवृत्त इति, - स्वप्नावस्थितस्य स्वप्ने निवृत्ते स्वप्नानुभूतं सुवर्णाट्टालिकावासादिकम्, ऐन्द्रजालिकस्य च ऐन्द्रजालिकमायानिवृत्तौ ऐन्द्रजालिकप्रक्रियादशानुभूतं मायामुण्डादिकं मिथ्यैव जानातीत्यर्थः | एवं दृष्टान्तमुपदर्श्य दार्ष्टान्तिकप्रदर्शनमुखेन फलितमाह तद्वदिति | पुण्योपचयपापक्षयाद् रजस्तमोनिवृत्तिद्वारा रागद्वेषनिराकरणम् | यथा वृक्षस्य बीजं कारणं बीजस्यापि वृक्षः कारणम्, रजस्तमसि पापबुद्धेः पापबुद्धिरपि रजस्तमसोरिति परस्परानुबन्धित्वादेकस्यापि नाशे इतरस्यापि नाश इत्येतदन्यदपि श्रुत्यागमपुराणसत्सम्प्रदायानुगत्या समासतः श्लोकबन्धेन विस्तार्यते (परमात्मजीवात्मनोः स्वरूपम्) अस्ति सत्यं परंब्रह्मस्वरूपो निष्कलः शिवः | सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोऽद्वयः || १ || स्वयंज्योतिरनाद्यन्तो निर्विकारः परात् परः | निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः || २ || अनाद्यविद्योपहता यथाग्नौ विस्फुलिङ्गकाः | सर्वे ह्युपाधिसंभिन्नास्ते कर्मभिरनादिभिः || ३ || सुखदुःखमयैः स्वीयैः पुण्यपापैर्नियन्त्रिताः | स्थावराः पक्षिणश्चैव कीटाश्व पशवो नराः | जायन्ते च म्रियन्ते च संसारे दुःखसागरे || ४ || (देहिषु मनुष्याणामुत्कर्षः) प्रधानः सर्वजन्तूनां सुकृती मानुषो जनः | ज्ञानी भूत्वा यतो धीरो लभेन्मुक्तिं चतुर्विधाम् | मानुषं सफलं जन्म सरशास्त्रेषु गोचरम् || ५ || ------------------------------------------------------ ५| सुकृतिनो मानुषस्य प्राधान्ये हेतुमाह ज्ञानीत्यादि | मुक्तिं चतुर्विधामिति चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् | न मानुष्यं विनाऽन्यत्र तत्त्वज्ञानन्तु विद्यते || ६ || कदाचिल्लभ्यते जन्म मानुष्यं पुण्यसञ्चयात् | सोपानभूतं मोक्षस्य मानुष्यं जन्म दुर्लभम् || ७ || (देहसम्बन्धमन्तरेण पुरुषार्थावाप्तिर्न भवति) विना देहेन कस्यापि पुरुषार्थो न लभ्यते | तस्माच्छरीरं संरक्ष्य नित्यं कर्म प्रसाधयेत् || ८ || (आत्मनो देहसम्बन्धरक्षार्थमहितान्निवृत्त्यर्थञ्च प्रयत्नः समाश्रयणीयः ) रक्षेत् सर्वात्मनात्मानमात्मा सर्वस्य भाजनम् | रक्षार्थं यत्नमातिष्ठेज्जीवन् भद्राणि पश्यति || ९ || आत्मना यदि नात्मानमहितेभ्यो निवारयेत् | कोऽन्यो हितकरस्तस्मादात्मानं तारयिष्यति || १० || (वर्तमानजन्मन्येव पापप्रतीकार आधेयः) इहैव नरकव्याधेश्चिकित्सां न करोति यः | गत्वा निरौषधं देशं व्याधितः किं करिष्यति || ११ || यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समाश्रयेत् || १२ || ---------------------------------------------------------- ब्राह्मणो निर्वाणम्, क्षत्रियः सायुज्यम्, वैश्यः सारूप्यम्, शुद्रः सालोक्यं लभेतेत्यर्थः | तदुक्तं निर्वाणतन्त्रे द्वितीयपटले ब्राह्मणस्य महामोक्षं सायुज्यं क्षत्रियस्य च | सारूप्यञ्चोरुजातस्य शूद्रस्य सहलौकिकम् || इति || यावन्नाश्रयते दुःखं यावन्नायान्ति चापदः | यावन्नेन्द्रियचापल्यं तावच्छ्रेयः समाश्रय || १३ || (संसारासक्तिर्हितं प्रतिबद्नाति) कालश्च जायते(?) नानाकार्यैः संसारसम्भवैः | न वेत्ति हितमात्मानं सुखदुःखविभूतिभाक् || १४ || लोको मोहसुरां पीत्वा न वेत्ति हितमात्मनः || १५ || (सम्पदादीनामस्थायित्वम्) सम्पदः स्वप्नसङ्काशा यौवनं कुसुमोपमम् | तडिच्चपलमायुश्च कस्याप्यज्ञानतो धृतिः || १६ || (देहिनां जीवनं वृथैवातिवहति) शतं जीवति मर्त्त्यश्च निद्रा स्यादर्द्धहारिणी | बाल्यरोगजरादुःखैरर्द्धं तदपि निष्फलम् || १७ || (कार्याकार्यविचारमूढा विपद्यन्ते) प्रारब्धव्ये निरुद्योगो जागर्तव्ये सुषुप्तिमान् | विश्वासवान् भयस्थाने हा नरः को न हन्यते || १८ || जलरेखासमुद्रोर्म्मिसहोदरकलेवरः | अनित्यप्रियसंसारे कथं तिष्ठति निर्भयः || १९ || --------------------------------------------------------- १६| अज्ञानतः सम्पदामस्थायित्वज्ञानाभावाद् धृतिः सन्तोषः | मूढो नश्वरीस्वपि सम्पत्स्वतिमात्रं रमत इत्यर्थः | (जीवानां मुग्धत्वम्) पश्यन्नपि प्रस्खलति शृण्वन्नपि न बुध्यते | प्रतिबिम्बसमः कालः क्षीयमाणो न लभ्यते || २० || (कालः सर्वं हन्ति) पृथिवी दह्यतेऽनेन मेरुश्चापि विशीर्यते | शुष्यते सागरजलं शरीरे हन्त का कथा || २१ || अपत्यं मे कलत्रं मे धनं मे बान्धवाश्च मे | लपन्ति मतिहीनास्तु हन्त कालवृकेच्छया || २२ || (श्रेयः साधने कृत्ये कालहरणमनुचितम्) श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् | न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् || २३ || (सर्वेषामेव मृत्युरव्यभिचारी) बालांश्च यौवनस्थांश्च वृद्धान् गर्भगतानपि | सर्वानादिशते मृत्युरेवंभूतमिदं जगत् || २४ || ब्रह्मविष्णुमहेशादि देवता भूतजातयः | नाशमेवात्र धावन्ति तस्माच्छ्रेयः समाश्रय || २५ || (आयुःक्षयकारणम्) आत्मवर्णाश्रमाचारहीन-हीनप्रतिग्रहात् | परस्त्रीधनलोभाच्च नृणामायुःक्षयो भवेत् || २६ || वेदशास्त्राद्यनभ्यासात्तथैव गुरुवञ्चनात् | नृणामायुःक्षयो भूयादिन्द्रियाणामनिग्रहात् || २७ || (सङ्गः सर्वथा परित्याज्यः) निःसङ्ग एव मोक्षः स्याद्दोषाः सर्वे च सङ्गमात् | तस्मात् सङ्गं परित्यज्य तत्त्वनिष्ठः सुखीभव || २८ || (तदसम्भवे सत्सङ्ग एवोपादेयः) सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते | स सद्भिरेव कर्तव्यः सतां सङ्गो हि भेषजम् || २९ || (सत्सङ्गविवेकयोः प्रकर्षः) सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् | यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः || ३० || (जीवात्मनः स्वाश्रये देहेऽपि सम्बन्धः क्षणिकः का कथा स्त्रीपुत्रादिषु) स्वदेहमपि जीवोऽयं त्यक्त्वा याति कुलेश्वरि | स्त्रीपुत्रपितृमात्रादिसम्बन्धः केन हेतुना || ३१ || (कः सुखी को वा दुःखी) दुःखमूलं हि संसारः स यस्यास्ति स दुःखितः | तस्य त्यागः कृतो येन स सुखी नात्र संशयः || ३२ || (त्यागिनः स्वरूपम्) त्यजेत् कर्मफलं यो हि स त्यागीत्यभिधीयते | आलयं सर्वपापानां संसारं वर्जयेत् सुधीः || ३३ || ----------------------------------------------------------- ३१| स्वदेहेत्यादिपादचतुष्टयात्मकं वचनं कुलार्णवप्रथमोल्लासे दृश्यते | तत्र कुलेश्वरीति देवीं प्रतीश्वरकृतं सम्बोधनम् | तदेव वचनमत्राविकलमाहृतमिति कुलेश्वरीति पदमपि न परिवर्तितं ग्रन्थकृतेति सम्भाव्यते | (संसारस्य हेयत्वं तत्त्वज्ञानस्योपादेयत्वञ्च) आदिमध्यावसानेषु सर्वदुःखमिदं जगत् | तस्मात् सन्त्यज्य संसारं तत्त्वनिष्ठः सुखी भव || ३४ || (तत्त्वनिष्ठस्य पुण्यपापकर्मभिरननुषङ्गः) अश्वमेधशतेनापि ब्रह्महत्याशतेन वा | पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् || ३५ || (इन्द्रियवृत्तिपारतन्त्र्यमेव कर्मणां हेतुस्तस्य परित्यागे न कर्मोदयः) पृथिव्यां यानि कर्माणि जिह्वोपस्थ-निमित्तकम् | जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति || ३६ || (के नरकगामिनः) हिताहितं न जानन्तो नित्यमुन्मार्गगामिनः | कुक्षिपूरणनिष्ठा ये ते जना नारकाः स्मृताः || ३७ || (ज्ञानवतां प्रकर्षो भोगमात्रसाराणां पशुतुल्यत्वञ्च) निद्राभीमैथुनाहाराः सर्वेषां प्राणिनां समाः | ज्ञानवान् मानुषः प्रोक्तो ज्ञानहीनो महापशुः || ३८ || (संसारिणः स्वस्वकृत्याकुलतया निरन्तरं पीडाविशेषमनुभवन्ति) प्रभाते मलमूत्राभ्यां मध्याह्ने क्षुत्पिपासया | रात्रौ मदननिद्राभ्यां बाध्यन्ते मानवाः किल || ३९ || (मूढा विषयिणः पुनः पुनर्जन्ममरणानुबन्धिनो भवन्ति) स्वदेहपुत्रदारादिनिर्भराः सर्वजन्तवः | जायन्ते च म्रियन्ते च हा हन्ताज्ञानमोहिताः || ४० || (न हि वर्णाश्रमाचारपरिपालनेनैवात्मलाभः) स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः | न जानन्ति परं ब्रह्म मूर्खा नश्यन्ति निश्चितम् || ४१ || (केचिन्मूढा ब्रह्मचर्याद्याडम्बरैर्लोकान् प्रतारयन्ति, ततोऽपि नात्मलाभः) क्रियायासपराः केचिद् ब्रह्मचर्यादिसंयुताः | अज्ञानसंवृतात्मानः सञ्चरन्ति प्रतरकाः || ४२ || (न ह्युपवासादिनियमैरेवात्मलाभः) एकभुक्त्युपवासाद्यैर्नियमैः कायशोषणैः | मूढाः परोक्षमिच्छन्ति महामायासमावृताः || ४३ || देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् || ४४ || (प्रतारकाणां प्रकारः) धनदारजनासक्ता अभिका वेशधारिणः | भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि || ४५ || सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् | त्यजेत्तं सततं धीरश्चण्डालमिव दूरतः || ४६ || (न हि गृहारण्यसाम्याव्रीडत्वदिगम्बरत्वादि-ज्ञानिसाधर्म्म्यादेव ज्ञानी भवति) गृहारण्यसमा लोके गतव्रीडा दिगम्बराः | चरन्ति गर्दभाद्याश्च विविक्तास्ते भवन्ति किम् || ४७ || तृणपर्णोदकाहाराः सततं वनवासिनः | हरिणादिमृगाश्चैव तापसास्ते भवन्ति किम् || ४८ || -------------------------------------------------------- ४५ | अभिकाः कामुकाः | वेशधारिणः रक्तवस्त्रमालाकमण्डलुप्रभृतिभिः सन्न्यासिजनोचितवेशधराः | शीतवातातपसमा भक्ष्याभक्ष्यसमा अपि | तिष्ठन्ति शूकराद्याश्च व्रतिनस्ते भवन्ति किम् || ४९ || आजन्ममरणान्तन्तु गङ्गादितटिनीस्थिताः | मण्डूकमत्स्यप्रवरा व्रतिनस्ते भवन्ति किम् || ५० || (ज्ञानमेव साक्षान्मुक्तिकारणं न कर्म) तस्मादित्यादिकं कर्म लोकरञ्जनकारणम् | मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं न चान्यथा || ५१ || (न हि षड्दर्शनानुशीलनेनैवात्मलाभः) षड्दर्शनमहाकूपपतिताः पशवः सदा | परमार्थं न जानन्ति पशुपाशनियन्त्रिताः || ५२ || (न हि वेदादिविदोऽप्यतत्त्वज्ञस्य वाक्यमुपकाराय कल्पते) वेदागमपुराणज्ञः परमार्थं न वेत्ति यः | विडम्बकस्य तस्यापि तत्सर्वं काकभाषितम् || ५३ || (परतत्त्वपराङ्मुखाणां निरन्तरशास्त्रानुशीलनेनापि नात्मलाभः) इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः | पठन्त्यहर्निशं शास्त्रं परतत्त्वपराङ्मुखाः || ५४ || (शास्त्रादिज्ञानं सुलभं तात्पर्यज्ञानं तु न तथा) शिरो वहति पुष्पाणि गन्धं जानाति नासिका | पठन्ति वेदशास्त्राणि दुर्लभो भावबोधकः || ५५ || (प्रज्ञावतः शास्त्रानुशीलनमुपकाराय भवति नेतरस्य) प्रज्ञाहीनस्य पठनमन्धस्यादर्शदर्शनम् | प्रज्ञावतो धर्मशास्त्रं तत्त्वज्ञानस्य कारणम् || ५६ || अप्रज्ञस्य धर्मशात्रं बन्धनायोपपद्यते | तत्त्वमीदृक् तादृगिति प्रवदन्ति परस्परम् || ५७ || इदं ज्ञानमिदं ज्ञेयं सर्वतः श्रोतुमिच्छति | अपि वर्षसहस्रेण शास्त्रान्तं नैव गच्छति || ५८ || (शास्त्रेभ्यः सार आदेयः) तर्काद्यनेकशास्त्राणि स्वल्पायुर्विघ्नकोटयः | तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसि || ५९ || (शास्त्राभ्यासस्य तत्त्वज्ञानाऽवधिकत्वम्) अभ्यस्य सर्वशास्त्राणि तत्त्वं ज्ञात्वा तु बुद्धिमान् | पलालमिव धान्यार्थी सर्वशास्त्राणि संत्यजेत् || ६० || ---------------------------------------------------- ५५ | भावबोधको दिव्य-वीर-पशुभावानां वेदिता | तथाच रुद्रयामलोत्तरखण्डे प्रथमपटले महावीरो महाधीरो दिव्यभावस्थितोऽपि वा | अथवा पशुभावस्थो मन्त्री पीठे विवासयेत् || तथा- कलौ च दिव्यवीराभ्यां नित्यं तद्गतचेतसः | महाभक्ताः प्रपश्यन्ति महाविद्यापरं पदम् || तथा- साधवो मौनशीलाश्च सदा साधनतत्पराः | दिव्यवीरस्वभावेन पश्यन्ति मत्पदाम्बुजम् || इत्यादिना दिव्यादिभावानां प्रशंसामभिधाय प्रायेणैतद्वचनसमानानुपूर्वीकं वचनमुपन्यस्तम् | यथा- वृक्षो वहति पुष्पाणि गन्धं जानाति नासिका | पठन्ति वेदशास्त्राणि दुर्लभा भावबोधकाः || इति | एतद्वचनसंवादेनात्र विशेषाभावेऽपि भावशब्देन दिव्यादिभावा एवाभिहिता एत्यवधेयम् | यथा मृतशरीरस्य नाहारेण प्रयोजनम् | तत्त्वज्ञस्य शास्त्रजालैस्तथैवेति सुनिश्चितम् || ६१ || (ज्ञानमेव मुक्तिप्रयोजकं न शास्त्रानुशीलनम्) न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि | ज्ञानादेव हि मुक्तिः स्यादन्यथा नैव कर्हिचित् || ६२ || (मुक्तेः स्वरूपम्) अनन्तदुःखविरहो मुक्तिरित्युच्यते बुधैः | (तत्र मतान्तरम्) तृष्णानाशो भवेन्मोक्ष इति तन्त्रविदो विदुः || ६३ || (तत्र स्वमतम्) आनन्दघनसन्दोहपरमात्मनि चाव्यये | जीवात्मनिलयो मोक्ष इति मे वस्तुतो मतिः || ६४ || (ज्ञानाननुबन्धिनः कर्माद्युपाया न मुक्तिप्रयोजकाः) किं कायक्लेशनेनैव यज्ञविस्तारणेन च | किमाचारविचारेण यदि ज्ञानं न लभ्यते || ६५ || (वेदादिशास्त्राणि न मुक्तिप्रयोजकानि, ज्ञानमेव मुक्तिप्रयोजकम्) न वेदाः कारणं मुक्तेर्दर्शनानि न कारणम् | तथैव सर्वशास्त्राणि ज्ञानमेव हि कारणम् || ६६ || ------------------------------------------------------- ६६ | सर्वशास्त्राणि मुक्तेर्न कारणमिति पूर्वेणान्वयः | तर्हि मुक्तेः किं कारणमित्याह ज्ञानमिति | ज्ञानस्यैवेति पाठे सर्वशास्त्राणि ज्ञानस्यैव कारणं न मुक्तेः, मुक्तिं प्रति ज्ञानस्यैव कारणत्वादित्यर्थः | (ज्ञानस्य द्वैविध्यम्) तदेव द्विविधं ज्ञानं विवेकागमसम्भवम् | शब्दब्रह्माऽगममयं परंब्रह्म विवेकजम् || ६७ || (शब्दब्रह्मस्वरूपम्) भिद्यमानात् पराद्बिन्दोरव्यक्तात्मा रवोऽभवत् | शब्दब्रह्मेति तं प्राहुः सर्वागमविशारदाः || ६८ || ------------------------------------------------------- ६७ | पूर्वश्लोके ज्ञानमेव हि कारणमित्युक्तम्, तस्य ज्ञानस्य भेदावाह तदेवेति | तज्ज्ञानं द्विविधमेव | अत्रैवकारेण व्यावहारिकघटपटादिज्ञानानां मुक्त्यनुपयोगिनां व्यावृत्तिः | ज्ञानस्य द्वैविध्यं विवेकसम्भवत्त्वेनागमसम्भवत्वेन च | तदेवाह शब्देति | शब्दब्रह्म ब्रह्मात्मकः शब्दः तज्ज्ञामित्यर्थः, आगममयम् आगमजन्यं श्रुत्यैव तत्प्रतिपादनात् | परब्रह्मज्ञानन्तु विवेकजन्यं विवेकादेव परब्रह्मज्ञानावाप्तेः | ६८ | अत्र राघवभट्टः शब्दब्रह्मण उत्पत्तिमाह भिद्यमानादिति | पराद् बिन्दोरित्यनेन शक्त्यवस्थारूपो यः प्रथमो बिन्दुस्तस्मादव्यक्तात्मा वर्णादिविशेषरहितोऽखण्डो नादमात्र उत्पन्नः | तदुक्तमाचार्यैः स रवः श्रुतिसम्पन्नैः शब्दब्रह्मेति कथ्यते | इति सृष्ट्युन्मुखपरमशिव-प्रथमोल्लासमात्रमखण्डोऽव्यक्तो नादबिन्दुमय एव व्यापको ब्रहात्मकः शब्दः शब्दब्रह्मेत्यर्थः | उक्तञ्च क्रियाशक्तिप्रधानायाः शब्दशब्दार्थकारणम् | प्रकृतेर्बिन्दुरूपिण्याः शब्दब्रह्माऽभवत् परम् || इति | इदमवधेयम् परमेश्वरो निष्कलः सकलश्च | कलाशब्देन प्रकृतिरुच्यते, तत्सम्बन्धशून्यो निष्कलः, तत्सम्बद्धश्च सकलः | इयमेव प्रकृतिः परशिवस्य स्वरूपशक्तिरूपा, ततश्च सच्चिदानन्दस्वरूपस्य परमशिवस्य स्वरूपशक्तिरूपतया प्रकृतेरपि सच्चिदानन्दरूपत्वम् | तत्र परशिवः प्रकाशस्वरूपः, पराशक्तिरपि तथैव लीलावशात् परमशिवस्य जातायां सिसृक्षायां पराप्रकृतिरपि विमर्शरूपेण परिस्फुरति | तदुक्तं राघवभट्टधृतवायवीयसंहितायाम् शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता | ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव || इति | (स्फोटवादिमतद्वयम्) शब्दब्रह्मेति शब्दार्थं शब्दमित्यपरे विदुः | (तन्मतद्वयनिरासः) न हि तेषां तयोः सिद्धिर्जडत्वादुभयोरपि || ६९ || ------------------------------------------------------- राघवभट्टधृतपाञ्चरात्रेऽपि एवमालोक्य सर्गादौ सच्चिदानन्दरूपिणीम् | समस्ततत्वसंघातस्फूर्त्यधिष्ठानरूपिणीम् | व्यक्तां करोति नित्यां तां प्रकृतिं परमः पुमान् || इति | कामकलाविलासेऽपि सा जयति शक्तिराद्या निजसुखमयनित्यनिरुपमाकारा | भविचराचरबीजं शिवरूपविमर्शनिर्मलादर्शः || इत्यनेन परशक्तेः परशिवस्वरूपत्वं जगत्कारणत्वं परशिव स्याहन्तानिर्वाहकत्वमप्युपपादितम् | एतेन परमशिवशक्त्योः परस्परसम्बन्धजन्या प्रपञ्चसृष्टिरित्युक्तं भवति | एवञ्च प्रकाशस्वरूपोऽपि परमेश्वरो विमर्शरूपस्वरूपशक्तिसम्बन्धवशात् पूर्णोऽहमित्येवंरूपबिन्दुस्वरूपतां धत्ते, तथा परमा प्रकृतिरपि | तदुक्तं कामकलाविलासटीकाकृता नटानन्दनाथेन परमेश्वरः स्वाङ्गभूतनिखिलप्रपञ्चविलयात्मक- विमर्शशक्तिमनुप्रविश्य बिन्दुभावमयते | ततः सा विमर्शशक्तिरपि स्वान्तर्गतप्रकाशमय- बिन्दुमनुप्रविशति ततश्च बिन्दुरुच्छूनो भवतीत्यादि | एतेन परमशिवस्य प्रकाशस्वरूपस्य प्रथमस्फूर्तिरूपा या शक्त्यवस्था सैव प्रथमो बिन्दुरित्यापतति | भिद्यमानात् पराद् बिन्दोरित्यनेनायमेव बिन्दुरभिहितः | एतदभिप्रायेणैव राघवभट्टेन पराद् बिन्दोरित्यनेन शक्त्यवस्थारूपो यः प्रथमो बिन्दुरित्युक्तम् | ६९ | अत्र राघवभट्टः अथान्तरस्फोटवादिमतं जातिव्यक्तिस्फोटात्मकं वा स्फोटमतं दूषयितुमुपक्रमते शब्देति | एक आचार्याः शब्दार्थमान्तरस्फोटं शब्दब्रह्मेत्याहुः | यथाह निरंश एवाभिन्नो नित्यो बोधस्वभावः शब्दार्थमय आन्तरस्फोट इति | अपरे वैयाकरणाः पूर्वपूर्ववर्णोच्चारणाभिव्यक्त-तत्तत्पदसंस्कारसहाय - चरमपदग्रहोद्बुद्धं (शब्दब्रह्मस्वरूपे स्वमतम्) चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतिः || ७० || (वर्णाभिव्यक्तिः) तत् प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् | वर्णात्मनाविर्भवति गद्यपद्यादिभेदतः || ७१ || (द्वैताद्वैतनिरूपणम्) केचिदद्वैतमिच्छन्ति द्वैतमिच्छन्ति चापरे | द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च || ७२ || --------------------------------------------------- वाक्यस्फोटलक्षणं शब्दमखण्डैकार्थप्रकाशकं शब्दब्रह्मेति वदन्ति | यदाह एक एव नित्यो वाक्याभिव्यङ्ग्योऽखण्डो व्यक्तिस्फोटो जातिस्फोटो वा बहीरूप इति | तथाचात्र मतद्वयमुपदर्श्य निराकृतम एके शब्दार्थमेव शब्दब्रह्मेति विदुः, अपरे शब्द एव शब्दब्रह्मेति विदुरिति सम्बन्धः | एवं शब्दार्थः शब्दब्रह्मेति आन्तरस्फोटवादिमतम्, शब्द एव शब्दब्रह्मेति जातिव्यक्तिस्फोटवादिमतञ्च प्रागुक्तं दूषयति न हीत्यादिना | अत्र राघवभट्टः तेषां वादिनां मते तयोः शब्दार्थयोः सिद्धिः शब्दब्रह्मत्वसिद्धिर्न, उभयोस्तयोर्जडत्वात् | यदि शब्दार्थः शब्दो वा शब्दब्रह्मेत्युच्यते, तदा ब्रह्मपदवाच्यत्वं नोपपद्यते | यतः सच्चिदानन्दरूपोब्रह्मपदार्थः | तौ च जडौ | तदुक्तं अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् | विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः || इति | ७० | स्वमतमाह चैतन्यमिति | सर्वभूतानां चैतन्यमेव शब्दब्रह्मेत्यर्थः | तदुक्तं राघवभट्टधृतप्रयोगसारे सोऽन्तरात्मा तदा देवि नादात्मा नदते स्वयम् || इति | एतेन भिद्यमानादित्यादिना प्रतिपादित एव सिद्धान्तश्चैतन्यमित्त्यादिनाभिहित इति प्रतिपद्यते | ७१ | एवं परां नादात्मिकां शब्दसृष्टिमभिधाय वर्णसृष्टिमाह तदिति | अत्र राघवभट्टः प्राणिनां देहमध्यगं कुण्डलीरूपं कुण्डलिनीस्वरूपं तच्चैतन्यं गद्यपद्यादि भेदतो वर्णात्मनाऽविर्भवतीति सम्बन्धः | किं कृत्वा, प्राप्य कण्ठादिकरणानीति शेषः | ७२ | पूर्वं शब्दब्रह्माऽगममयं परं ब्रह्म विवेकजमित्युक्त्वा शब्दब्रह्मस्वरूपमुपपाद्य अविद्याविद्ययोर्भेदात् पक्षद्वयमुदीरितम् || ७३ || (विद्याऽविद्यात्मककर्मजन्यौ बन्धमोक्षौ) तत् कर्म यच्च बन्धाय सा.विद्या परिकीर्तिता | यन्न बन्धाय तत् कर्म सा विद्या समुदाहृता || ७४ || (सङ्कल्पस्य सत्तासत्ताभ्यामेव बन्धमोक्षौ) यावत् सङ्कल्प एवास्ति तावदेव हि बन्धनम् | यावत्तदेव नैवास्ति तावदेव हि मोक्षणम् || ७५ || (कर्मणस्तत्त्वज्ञानपर्यन्तमनुष्ठेयत्वम्) जपहोमार्चनं तीर्थं वेदशास्त्रागमादिकम् | तावदेव हि सर्वञ्च यावत्तत्त्वं न विन्दति || ७६ || (तत्त्वनिष्ठैव मोक्षावाप्तिहेतुः) अत एव प्रयत्नेन सर्वावस्थासु सर्वदा | तत्त्वनिष्ठो भवेद्धीरो यदीच्छेन्मोक्षमात्मनः || ७७ || (तत्त्वज्ञानस्वरूपम्) तत्प्रकारमहं वक्ष्ये निगमागमलक्षितम् || ७८ || एकमेव परंब्रह्म रसरूपी सनातनः | प्रकृत्या क्रियते व्यक्तस्तथा व्यक्तस्तया पुनः || ७९ || तस्मात् प्रकृतियोगेन क्षिप्रं प्रत्यक्षमाप्नुयात् | घटप्रत्यक्षसमये प्रकाशो व्यञ्जको यथा || ८० || ----------------------------------------------------------- परब्रह्मस्वरूपमाह केचिदिति | मायावादिन इत्यर्थः | अपरे नैयायिकादयः | अत्र केचिदपरे इत्येताभ्यां मतद्वयस्याप्यस्वारस्यं सूचितम् | मम तत्त्वं न जानन्ति द्वैताद्वैतविवर्जितम् | इति कुलार्णवप्रथमोल्लासवचनेन परब्रह्मणो द्वैताद्वैतवैलक्षण्यस्योक्तत्वान्दित्यर्थः | द्वे पद इति | ममेति ज्ञानं बन्धाय निर्ममेति ज्ञानञ्च मुक्तये भवतीत्यर्थः | विना घटत्वयोगेन न प्रत्यक्षो यथा घटः | इतराद् भिद्यमानोऽपि न भेदमुपगच्छति || ८१ || पुरुषे नैवभेदोऽस्ति विना शक्तिं कथञ्चन | न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमात् || ८२ || (परा प्रकृतिरेव तत्त्वज्ञानं प्रति साक्षात् कारणम्) प्रकृत्या ज्ञायते ब्रह्म प्रकृत्या लीयते पुमान् | प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वाञ्छितं जगत् | तयोः समरसं ज्ञानं वस्तुतत्त्वं परं पदम् || ८३ || उपायाः सन्ति बहुधा ज्ञातुं ब्रह्म सनातनम् | तथापि प्रकृतेर्योगात् क्षिप्रं प्रत्यक्षतां लभेत् || ८४ || सांयात्रिकः कुदेशे तु यथा नावं प्रगृह्य च | नानादेशं समुत्तिर्य समुद्रं विशते चिरात् || ८५ || तत्तटे नावमादाय क्षणाद् याति यथा पुनः | तस्मात् परम्परायातास्ते हि कारणतां गताः || ८६ || न साक्षात् कारणं ते हि साक्षात् प्रकृतिकारणम् | तस्मात्तां प्रकृतिं वक्ष्ये दीक्षाविधिपुरःसराम् || ८७ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ तत्त्वज्ञानविवेचनं नाम प्रथमः प्रकाशः || १ || ------------------------------------------------------------ ८७ | प्रकृतीति | अत्र कारणत्वस्य विधेयतया उद्देश्यीभूतप्रकृतिपदेनानुपपन्नोऽपि समासश्छन्दोभङ्गभयादङ्गीकृतः | द्वितीयः प्रकाशः (दीक्षाप्रकरणम्) तत्र दीक्षाशब्दार्थः, दीक्षायाः फलम्, दीक्षाभेदाः, गुरुशिष्यलक्षणम्, गुरौ शिष्यस्य व्यवहारः, अकथहादिचक्रविचारः, दीक्षायां दिनविचारः, (तत्रानुकूलप्रतिकूलमासतिथिवार- नक्षत्रलग्नादिनिरूपणम्) मन्त्रशब्दार्थः, मन्त्राणां दश संस्काराश्च) | (दीक्षानिरूपनोपयोगित्वम्) अथादीक्षितलोकानामधिकारोऽत्र नैव हि | अतो दीक्षां प्रवक्ष्यामि चतुर्वर्गप्रदायिनीम् || १ || --------------------------------------------------------------- १ | पूर्वप्रकाशे ब्रह्मज्ञानस्य परमपुरुषार्थसाधकत्वमुक्त्वा प्रकाशेऽस्मिन् ब्रह्मज्ञानस्योपासनामूलकतया उपासनायाञ्चादीक्षितानामनधिकारिताश्रवणादेतत्तन्त्र- प्रतिपाद्यश्रीमत्त्रिपुरसुन्दरीदेवताराधनाधिकारप्रतिपादिकां दीक्षामवतारयति अथेति | उपासनाधिकारस्य दीक्षापेक्षित्वमाह गौतमीयतन्त्रे सप्तमपटले अथ दीक्षां प्रवक्ष्यामि सर्वकामार्थसिद्धिदाम् | यां विना नैव सिद्धः स्यान्मन्त्रो वर्शशतैरपि || इति | बृहन्नीलतन्त्रे तृतीयपटले दीक्षा प्रकृत्य तया विना महादेवि ह्यधिकारो न कर्मणि | सर्वाश्रमेषु भूतेषु सर्वदेवेषु सुव्रते || दीक्षां विना महादेवि तस्य सर्वं वृथा भवेत् | दीक्षामूलं जगत् सर्वं दीक्षामूलं परं तपः | दीक्षामूलं महासिद्धिस्तस्माद्दीक्षां समाचरेत् || इति | कुलार्णवे चतुर्दशोल्लासे च अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः | न भवन्ति प्रिये तेषां शिलायामुप्तबीजवत् || इति | (दीक्षाशब्दव्युत्पत्तिः) दिव्यं ज्ञानं यतो दद्यात् कुर्याच्च पापसंक्षयम् | तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तन्त्रवेदिभिः || २ || (तस्याः प्रकारान्तरम्) अथवा गुरुणा सम्यग् दीक्षणाद्देवमन्त्रयोः | दीक्षेति कथिता सद्भिः सर्वपापप्रणाशिनी || ३ || (प्रकारान्तरञ्च) ददाति यस्मादिह दिव्यभावं मायामये कर्म च संक्षिणोति | फलं चतुर्वर्गभवञ्च यस्मात्तस्मात्तु दीक्षेत्यभिधानमस्याः || ४ || (दीक्षाफलम्) कोटिजन्मकृतं पापं ज्ञानाज्ञानकृतञ्च यत् | दीक्षाग्रहणमात्रेण पलायेत न संशयः || ५ || ब्रह्महत्या-सुरापान-स्वर्णस्तेयादिपातकम् | उपपातकलक्षाणि हन्ति दीक्षात्रयान्नरः || ६ || (वर्णभेदेन दीक्षायाः फलभेदाः) दीक्षितो ब्राह्मणो याति ब्रह्मलोकमनामयम् | इन्द्रलोकं क्ष्त्रियोऽपि प्राजापत्यं तथा विशः || ७ || शूद्रो गन्धर्वनगरं याति दीक्षाप्रभावतः | चतुर्णामपि वर्णानामतो दीक्षा प्रशस्यते || ८ || ------------------------------------------------------ देवि दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः | तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् || इत्यादिवचनैः प्रतिपादितम् | (दीक्षायास्त्रैविध्यम्) शाम्भवी चैव शाक्तेयी मान्त्री चैव शिवागमे | दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना || ९ || (तत्र मान्त्री दीक्षा) मन्त्रमार्गानुसारेण साक्षात् कृत्वेष्टदेवताम् | गुरुः सद्भोधयेच्छिष्यं मन्त्रदीक्षेति सोच्यते || १० || (तस्या एव क्रियावतीत्याख्यं प्रकारान्तरम्) अथवा मन्त्रपूजाति-ध्यानयोगादिभिः कृता | गुरुणा योगमार्गेण तथा शास्त्रानुसारतः || ११ || मान्त्री क्रियावती सा तु कुण्डमण्डलपूर्विका | (मात्र्या एव प्रकारान्तरम्) मन्त्रोपदेशमात्रन्तु मन्त्रदीक्षेति चापरे || १२ || (मान्त्री दीक्षेयं सर्ववर्ण-सम्प्रदायसाधारणी) सामान्यभूता खलु मान्त्रिकी स्याद् दीक्षा स्मृता मन्त्रगणेषु तद्वत् | वर्णेषु चापि द्विजपूर्वकेषु स्याच्चैव शाक्तेष्वपि वैष्णवेषु || १३ || ------------------------------------------ ९-१७ | शाम्भवीति |शाम्भवी शाक्तेयी मान्त्री चेति त्रिविधा दीक्षा | त्रेधेत्यनेनान्येषामाणवादिदीक्षाभेदानाम्-अत्रैवान्तर्भावः सूचितः | नन्विह शाम्भवी शाक्तेयी मान्त्रीति क्रमेण त्रिविधां दीक्षामुद्दिश्य मन्त्रमार्गानुसारेणेत्यादि-तत्तद्विशेषलक्षणनिरूपणावसरे मान्त्री शाक्तेयी शाम्भवीति व्युत्क्रमेण निर्देशः कथम् ? कथं वा (शाक्तेयी दीक्षा) सिद्धे स्वशक्तिमालोक्य तया केवलया शिशोः | निरुपायं कृता दीक्षा शाक्तेयी परिकीर्तिता || १४ || (ज्ञानवती दीक्षैव शाक्तेयी दीक्षेति मतान्तरम्) अथ ज्ञानवती दीक्षा शक्तिदीक्षेति चापरे || १५ || (शाम्भवी दीक्षा) अभिसन्धिं विनाऽचार्यशिष्ययोरुभयोरपि | देशिकानुग्रहेणैव शिवताव्यक्तिरूपिणी | सेयन्तु शाम्भवी प्रोक्ता शिवावेशनकारिणी || १६ || (तस्याः प्रकारान्तरम्) गुरोरालोकमात्रेण स्पर्शात् सम्भाषणादपि | सद्यः संज्ञा भवेज्जन्तोः शाम्भवी चेति चागमे || १७ || ------------------------------------------------------ त्रिविधा सा भवेद्दिक्षा मान्त्री शाक्ती च शाम्भवी | इति गन्धर्वतन्त्रषड्विंशपटलवचने दीक्षाणां विशिष्टक्रमनिर्देशे सत्यपि अत्र व्युत्क्रमेणोद्देशः ? उच्यते राघवभट्टधृतषडाम्नायमहारत्ने त्रिविधा सा भवेद्दीक्षा प्रथमा आणवी परा | शाक्तेयी शाम्भवी चान्या सद्यो मुक्तिविधायिनी || इत्यनेनाणवदीक्षायाः प्राथम्यमुपदर्श्य मन्त्रार्चनासनस्थानध्यानयोगादिभिः कृता | दीक्षा सा त्वाणवी प्रोक्ता यथाशास्त्रोक्तकारिणी || इति यदाणवदीक्षालक्षणं कृतं तेन सह अथवा मन्त्रपूजादिध्यानयोगादिभिः कृता | इत्यादिपूर्णानन्दोक्तमान्त्रदीक्षालक्षणस्याभेदात् क्रियावती मान्त्री दीक्षैवाणवी दीक्षा, तस्याश्च प्राथम्यं प्रागुक्तषडाम्नायमहारत्नवचनेनोपपादितमेव | ततश्च प्रथमा मान्त्री, द्वितीया शाक्ती, तृतीया शाम्भवीति स्थितम् | अत एव गन्धर्वतन्त्रे षड्विंशपटले मान्त्री शाक्ती शाम्भवीति क्रममुद्दिश्य मन्त्रार्च्चनासनस्थानध्यानयोगादिभिः कृता | मान्त्री दीक्षा च सा प्रोक्ता यथाशास्त्रोक्तकारिणी || सिद्धैः स्वशक्तिमालोक्य तया केवलया शिशोः | निरुपायकृता दीक्षा शाक्तेयी परिकीर्तिता || अभिसन्धिं विनाऽचार्य-शिष्ययोरुभयोरपि | देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी | सेयन्तु शाम्भवी दीक्षा शिवावेशनकारिणी || यथायथं लक्षणानि कृतानि | एवञ्च प्रागुक्ततत्तद्दीक्षालक्षणैः प्रथमं विधिबोधितमान्त्रदीक्षया लब्धप्रवेशे शिष्ये मन्त्रसिद्धस्य गुरोः स्वशक्तेरुन्मीलनं द्वितीया मान्त्री दीक्षा | ततश्चाविर्भावितशक्तेः शिष्यस्य शिवतासम्पादनं तृतीया शाम्भवी दीक्षेत्यवगम्यते इति षडाम्नायमहारत्नानुसारि सिद्धान्तः | राघवभट्टधृतवायवीयसंहितायान्तु शाम्भवी चैव शाक्ती च मान्त्री चैव शिवागमे | दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना || इत्युद्दिश्य गुरोरालोकमात्रेण स्पर्शात् सम्भाषणादपि | सद्यः संज्ञा भवेज्जन्तोर्दीक्षा सा शाम्भवी मता || शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु | गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा | मान्त्री क्रियावती सा तु कुण्डमण्डलपूर्विका || इत्येतानि लक्षणानि कृतानि | अस्मिन् कल्पे प्रागुक्ततत्तल्लक्षणैः प्रथमं विषयविमुग्धात्मनः शिष्यस्य सद्गुरुदर्शनमात्रेण संज्ञालाभस्ततो विषयवैमुख्यम् इति शाम्भवी दीक्षा | ततोऽनया दीक्षया सम्भावितशम्भुभावस्य द्वितीया शाक्ती दीक्षा | सा च ज्ञानवतीति तया दीक्षया ज्ञानोत्पादे तृतीया मान्त्री दीक्षा | सा च प्रागुक्तदीक्षाद्वयेन सम्भावितशम्भुभावस्य समुत्पन्नज्ञानस्य च शिष्यस्य कुण्डमण्डलाद्युपायपूर्विका कर्मभूयिष्ठा च मन्त्रप्रदानरूपा क्रियावती | एतदभिप्रायेणैव महादीक्षा तथा दीक्षा उपदेशस्ततः परम् | युगे युगे च कर्तव्य उपदेशः कलौ युगे || इति तन्त्रसारधृतविश्वसारवचनेनापि प्रतियुगं दीक्षात्रयस्य कर्तव्यतामुपपाद्योपदेशरूपमान्त्रदीक्षायाश्चरमत्वम्-अभिहितम् | अत्र ततः परमित्यभिधानाद्दीक्षात्रयस्यैव कर्तव्यत्वमवगम्यते | षटचक्रादिज्ञानापेक्षिणामन्तर्यागादिकर्मणाम्-उपदेशस्य प्रबलाज्ञानमलीमसे शिष्यमनसि सर्वथा प्रवेशासम्भवात् (आगमसब्दार्थः) आतगः शिववक्त्रेभ्यो गतश्च गिरिजामुखे | मतश्च वासुदेवेन तेनागम इहोच्यते || १८ || (गुरुलक्षणम्) अथ वक्ष्ये गुरूणान्तु लक्षणं तन्त्रसूचितम् | उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः || १९ || -------------------------------------------------------- देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया | जपेदेकमनाः प्रातःकालान्मध्यन्दिनावधि || इति गन्धर्वतन्त्राष्टाविंशपटलोक्तदेवतागुरुमन्त्रैक्य-भावनानुपपत्तेश्च ज्ञानविशोधित एव शिष्यहृदये कर्मोपदेशः समीचीन इति | एतन्मतद्वयप्रदर्शनार्थमेव श्रीमत्परमहंसैः शाम्भवी शाक्ती मान्त्रीति दीक्षाक्रममुद्दिश्य व्युत्क्रमेण लक्षणानि कृतानीत्यवधेयम् | तथा चात्र श्रीमत्परमहंसैर्दीक्षाभेदानामुभयविधमेव लक्षणमथवेत्यादिना सूचितमिति निष्कर्षः | १९ | गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् | उपदेशं ददद् गृह्णन् प्राप्नुयातां पिशाचताम् | इति कुलार्णव-पञ्चमखण्डीय-चतुर्दशोल्लासवचनेन गुरुशिष्ययोः परस्परमपरीक्ष्य मन्त्रदानग्रहणनिषेधात् परीक्षायाश्च लक्षणज्ञानापेक्षित्वेन गुरुशिष्ययोर्लक्षणे वक्तव्ये क्रमप्राप्तं गुरुलक्षणमाह अथेति | तथा बृहन्नीलतन्त्रे तृतीयपटले अनिन्दितवेशधारी कपटेन विनाकृतः | आचारवान् महाविद्याराधनेषु च तत्परः || तत्कल्पाचारसक्तश्च गुरुरित्यभिधीयते | कौलज्ञानी महायोगी गुरुरेव च दैवतम् || कुलीनः सर्वमन्त्राणां दाता सर्वेषु सुन्दरि | दीक्षाप्रभुः स एवात्मा नापरो वेदपारगः || इति | विशिष्याह कुलार्णवे पञ्चमखण्डे त्रयोदशोल्लासे श्रीगुरुः परमेशानि शुद्धवेशो मनोहरः | सर्वलक्षणसम्पन्नः सर्वावयवशोभितः || तत्त्वज्ञो मन्त्रयन्त्राणां मर्मवेत्ता रहस्यवित् | पुरश्चरणकृत् सिद्धो मन्त्रसिद्धिप्रयोगवित् || २० || -------------------------------------------------- सर्वागमार्थतत्त्वज्ञः सर्वमन्त्रविधानवित् | लोकसम्मोहनकरो देववत् प्रियदर्शनः || सुमुखः सुलभः स्वच्छो भ्रमसंशयनाशकः | इङ्गिताकारवित् प्राज्ञ ऊहापोहविदुज्ज्वलः || अन्तर्लक्ष्यो बहिर्दृष्टिः सर्वज्ञो देशकालवित् | आज्ञासिद्धिस्त्रिकालज्ञो निग्रहानुग्रहक्षमः || बेधको बोधकः शान्तः सर्वजीवदयापरः | स्वाधीनेन्द्रियसञ्चारः षड्वर्गविजयक्षमः || अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् | शिवविष्णुसमः साधुर्मन्ददर्शनदूषकः || निर्मलो नित्यसन्तुष्टः स्वतन्त्रो मन्त्रशक्तिमान् | सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्णवाक् || भक्तप्रियः सदोदारो गम्भीरः शिष्टसाधकः | स्वेष्टदेवगुरुज्येष्ठवनितापूजनोत्सुकः || नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते | रागद्वेषभयक्लेशदम्भाहङ्कारवर्जितः || स्वविद्यानुष्ठानरतो धर्मादीनामुपार्जकः | यदृच्छालाभसन्तुष्टो गुणदोषविभेदकः || स्त्रीधनादिष्वनासक्तो दुःसङ्गव्यसनादिषु | सर्वाहम्भावसंयुक्तो निर्द्वन्द्वो नियतव्रतः || अलोलुपो ह्यसङ्कल्पपक्षपाती विचक्षणः | वित्तविद्यादिभिर्मन्त्रयन्त्रतन्त्राद्यविक्रयी || निःसङ्गो निर्विकल्पश्च निर्णीतार्थोऽतिधार्मिकः | तुल्यनिन्दास्तुतिर्मौनी निरपेक्षो निरामयः || इत्यादिलक्षणोपेतः श्रीगुरुः कथितः प्रिये || इति | गन्धर्वतन्त्रे षड्विंशपटलेऽपि गुरुः सर्वगुणोपेतो दोषैरस्पृष्टमानसः | इत्यादि | एवमन्यत्रापि ज्ञेयम् | दाता दान्तः शान्तमना नितान्तशान्तविग्रहः | अध्यात्मविद् ब्रह्मचारी कुलीनो गुरुरुच्यते || २१ || (शिष्यलक्षणम्) सुन्दरः सुमुखः स्वच्छः प्रज्ञावान् सुस्थिराशयः | अलुब्धः स्थिरगात्रश्च प्रेक्षाकारी जितेन्द्रियः || २२ || आस्तिको दृढभक्तिश्च गुरौ मन्त्रे च दैवते | एवंभूतो भवेच्छिष्यस्त्वितरो दुःखकृद् गुरोः || २३ || (दीक्षायाः पूर्वं शिष्यो गुरुं सेवेत) आदौ सेवा गुरोः कार्या शरीरवाङ्मनोधनैः || २४ || (गुरुसेवाप्रकारः) शुभेऽह्नि स्नानमाचर्य संपूज्य गणनायकम् | सूर्यं हरिं शिवं दुर्गां वाणीञ्च कमलालयाम् || २५ || -------------------------------------------------- २२ | शिष्यलक्षणमाह सुन्दर इति | गन्धर्वतन्त्रे षड्विंशपटलेऽपि यथायोग्यगुणैः पूर्वैर्युक्तश्चातिप्रियंवदः | विशुद्धदेहवदनः शुक्लाम्बरधरः शुचिः || विमुखः परनिन्दासु देवतादर्शनेषु च | परीयवनिताभूमिपीडासु विगतस्पृहः || दयान्वितः सर्वजने प्रेक्षाकारी जितेन्द्रियः | आस्तिको गुरुभक्तश्च शुद्धिमान् सुस्थिराशयः || अलुब्धः स्थिरमैत्रश्च गुरुवाक्यप्रमाणकः | सर्वदा दृढभक्तिश्च गुरौ मन्त्रे सदैवते || एवंविधो भवेच्छिष्यस्त्वितरो दुःखकृद् गुरोः || इति | निष्.इद्धगुरुशिष्यलक्षणन्तु ग्रन्थकृता न धृतमिति अस्माभिरप्युपेक्षितम्, तद्विस्तरस्तु कुलार्णवादौ द्रष्टव्यः | मातरं पितरं नत्वा ब्राह्मणान् परितोष्य च | फलपुष्पसुभोज्यादीन् गृहीत्वा भक्तिसंयुतः || २६ || पुरुषार्थ समावाप्त्यै सच्छिष्यो गुरुमाश्रयेत् | शिववत् पूजयेद् भक्त्या शिवज्ञानप्रकाशकम् || २७ || त्रिधा प्रदक्षिणीकृत्य दण्डवत् प्रणमेत् क्षितौ | विज्ञापयेत् समुत्थाय जानुभ्यामवनीं गतः || २८ || कृताञ्जलिपुटो भूत्वा प्रणिपत्य पुनर्गुरुम् | गुरोराज्ञां समासाद्य विरमेद् विधिपूर्वकम् || २९ || गुरूच्यमाने वचने दद्यादित्थं वचस्तदा | प्रसीद नाथ देवेति स तथेति कृतादरः || ३० || प्रतिकूलं गुरोर्नित्यं मनसापि न कारयेत् || ३१ || नारायणधिया नित्यमेकग्रामनिवासिनम् | कर्मणा मनसा वाचा वन्दनं समुपाचरेत् || ३२ || प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् | वराभयकरं शान्तं स्मरेत्तन्नामपूर्वकम् || ३३ || गुरुं नाम्ना न भाषेत जपकालादृते क्वचित् | श्रीनाथ देव स्वामीति विवादे साधने वदेत् || ३४ || (गुरुसेवाफलम्) ब्रह्मविष्णुशिवादीनां पूजने यत् फलं लभेत् | तत् फलं समवाप्नोति प्रत्यहं वन्दने गुरोः || ३५ || गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः | भवार्णवतरिः शान्तो गुरुरेव परा गतिः || ३६ || (गुरोरग्रे मानवान्तरपूजानिषेधः) गुरौ तिष्ठति यस्त्वन्यं मानुषं पूजयेन्नरः | स दुर्गतिमवाप्नोति सत्यं सत्यं न संशयः || ३७ || (गुरुमङ्गीकृत्य तत्र वैमनस्यं दोषाय) प्रतिपद्य गुरुं यस्तु मोहाद्विप्रतिपद्यते | युगकोटीः स नरके पच्यते नात्र संशयः || ३८ || (गुर्वाज्ञाया अपरिपालनं नरकाय भवति) ये गुर्वाज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः | न तेषां नरकक्लेशान्निस्तारोऽस्ति कथञ्चन || ३९ || (गुरोरधिक्षेपादौ दोषः) अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये | शूकरत्वं भवत्येव तेषां जन्मशतेष्वपि || ४० || (गुरुद्रोहपरिणामः) ये गुरोर्द्रोहिणो मूढाः सततं पापकारिणः | तेषान्तु यावत् सुकृतं दुष्कृतं स्यान्न संशयः || ४१ || (गुरुभक्तेर्मुक्तिप्रयोजकत्वम्) गुरौ येषां स्थिरा भक्तिर्मुक्तिस्तेषां करे स्थिता | रात्रौ दिने च तस्याज्ञां दासवत् परिपालयेत् || ४२ || (गुरौ शिष्यस्य व्यवहारः) असह्यमशुभं तद्वद्बहुवाक्यं परित्यजेत् | अभिमानं न कुर्वीत धनजात्याश्रमादिभिः || ४३ || गुरुद्रव्यं न भोक्तव्यं तेनादत्तं कदाचन | दत्तं प्रसादवद् ग्राह्यं लोभतो न कदाचन || ४४ || अद्वैतं देवपूजाञ्च जपयज्ञस्तवादिकम् | परिहासं प्रलापञ्च गुरोः साक्षाद् विवर्जयेत् || ४५ || पादुकायोगपट्टादि-गुरुचिह्नानि साधनम् | न लङ्घयेत् स्पृशेन्नैव पादाभ्यां प्रणमेत् सदा || ४६ || काष्ठासनोपवेशञ्च यानाद्यारोहणं तथा | पल्यङ्कशयनं तद्वत्तथा पादप्रसारणम् || अङ्गभङ्गञ्च लीलाञ्च न कुर्याद् गुरुसन्निधौ || ४७ || गमनागमनं कुर्यात् प्रणम्य गुरुपादुकाम् | विचार्य कार्यं कुर्वीत गुरुवाक्यप्रसादवान् || ४८ || छायां न लङ्घयेत्तद्वन्न गच्छेत् पुरतो गुरोः | पश्चात् पादेन निर्गच्छेत् प्रणम्य च गुरोर्गृहात् || ४९ || गुरोरग्रे न कुर्वीत प्रभावं शिष्यसंग्रहम् || ५० || (गुरोस्तोषस्येष्टसाधनत्वं रोषस्येष्टप्रतिबन्धकत्वञ्च) गुरौ तुष्टे शिवस्तुष्टः शिवे तुष्टे जगत्त्रयम् | शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन || ५१ || (तत्रोपसंहारः) तस्मात् सर्वप्रयत्नेन गुरोः कोपं न कारयेत् | एवंविधविधानेन सेवां कुर्यादतन्द्रितः || ५२ || (वर्णेषु कतमः कियता कालेन गुरुसेवया शिष्यत्वयोग्यतामर्हति) अब्दैकेन भवेद् योग्यो ब्राह्मणोऽब्दद्वयान्नृपः | वैश्यो वर्षैस्त्रिभिः शूद्रश्चतुर्भिर्वत्सरैर्गुरोः || ५३ || (गुरोः कर्तव्यम्) गुरुश्चात्मविशुद्ध्यर्थं शिष्यांस्तु परितोषयेत् | चिरं विचार्य यत्नेन देयमन्त्रान् विचारयेत् || ५४ || (अ-क-थ-ह-चक्रम्, तत्र रेखापातः) पूर्वाग्राः पञ्च रेखाः स्युर्दक्षिणाग्रा लिखेत्तथा | चतुश्चतुःप्रकारेण चतुःकोष्ठं भवेदथ || ५५ || -------------------------------------------------------- ५३ | अब्दैकेनेति | तन्त्रराजे द्वितीयपटले एकद्वित्रिचतुःपञ्चवर्षाण्यालोच्य योग्यताम् | भक्तियुक्तान् गुणांश्चापि क्रमाद् वर्णेषु सङ्करे || पश्चादुक्तक्रमेणैव वदेद्विद्यामनन्यधीः | अन्यथा चेद् वदेन्नाशं सशिष्यो गुरुराप्नुयात् || इति वचनाभ्यामुक्तक्रमेणैव ब्राह्मणादिवर्णचतुष्टयस्य परीक्षाकालमभिधाय सङ्करवर्णानां पञ्चभिर्वर्षैः परीक्षाभिहितेति विशेषो दृश्यते | ५५ | पूर्ववचने देयमन्त्रान् विचारयेदित्युक्तम्, तत्र मन्त्रविचारक्रमे चक्रस्यापेक्षितत्वात् महाकथहचक्रार्थं सर्वचक्रोत्तमोत्तमम् | यस्य विचारमात्रेण कामरूपी भवेन्नरः || इति रुद्रजामलोत्तरखण्डीयपञ्चमपटलवचनेन, वैष्णवे च तथा शैवे देवीमन्त्रे च भैरव | अकथहं महाचक्रं विचार्य यत्नपूर्वकम् | यो गृह्णाति महामन्त्रं स शिवो नात्र संशयः || इति रुद्रजामलोत्तरखण्डीयतृतीयपटलवचनेन च अकथहचक्रस्य सर्वचक्रोत्तमोत्तमत्व- ईशानस्थ-चतुःकोष्ठमाग्नेययाञ्च चतुस्तथा | तदधःस्थं चतुःकोष्ठं तद्वामस्थं तथैव च || ५६ || (कोष्ठानां संज्ञा) सिद्धं साध्यं सुसिद्धञ्च रिपुञ्च (?) समुदाहृतम् || ५७ || (तत्र वर्णन्यासक्रमः) एतेषामाद्यकोष्ठेषु द्वितीयेषु ततः परम् | तृतीयेषु चतुर्थेषु क्रमादावृत्तितः पुनः || ५८ || ------------------------------------------------------ प्रतिपादनात् फलविशेषप्रसवितृत्वावधारणाच्च प्रथमं तदेव निरूपयति पूर्वेत्यादिना | तत्र पश्चिमतः पूर्वाग्राः पञ्च, उत्तरतो दक्षिणाग्राश्च पञ्च रेखाः कर्तव्याः | एवं कृते षोडश कोष्ठानि सम्पद्यन्ते | ५६ | तेषाञ्च षोडशकोष्ठानां चतुर्धा विभागः कर्तव्यः | तत्र ऐशानं कोष्ठचतुष्कम्, आग्नेयं कोष्ठचतुष्कम्, तदधःस्थम् आग्नेयकोष्ठचतुष्कादधःस्थं नैरृतकोष्ठचतुष्कम्, तद्वामस्थं नैरृतकोष्ठचतुष्कवामस्थं वायव्यं कोष्ठचतुष्कञ्च कल्पयेदित्येवाह पूर्ववचने चतुश्चतुःप्रकारेणेत्यनेन | ५७ | तत्र प्रथमचतुष्कं सिद्धाख्यम्, द्वितीयचतुष्कं साध्याख्यम्, तृतीयचतुष्कं सुसिद्धाख्यम्, चतुर्थचतुष्कञ्चारिरिति संज्ञां भजते | ५८ | एतेषामिति | एतेषां षोडशकोष्ठानाम् आद्यकोष्ठचतुष्केषु ईशानस्थेष्वित्यर्थः | द्वितीयेषु आग्नेयेषु, तृतीयेषु नैरृतेषु, चतुर्थेषु वायव्येषु च प्रागुक्तन्यासक्रमेण लभ्येषु सिद्धादिचतुश्चतुःकोष्ठेषु प्रादक्षिण्येनावृत्त्या वक्ष्यमाणान् वर्णान् लिखेदिति परेणान्वयः | अत्र यद्यपि क्रमादावृत्तित इत्यनेन दक्षिणावृत्तिर्वामावृत्तिर्वा विशेषतो नाभिहिता, तथापि सर्वेषु गृहमध्येषु प्रादक्षिण्यक्रमेण तु | अकारादिक्षकारान्तं लिखित्वा गणयेत्ततः || ५ |५| इति रुद्रजामलपञ्चमपटलवचनेन दक्षिणावृत्तिः स्फुटमवगम्यते | अत एव तन्त्रसार- अकारादिविसर्गान्तान् कादि-मान्ताल्लिखेत् सुधीः | यादि-सान्तान् समालिख्य हलक्षांश्च लिखेत्ततः || ५९ || ---------------------------------------------------------- कृतापि दक्षिणावर्तयोगेन कोष्ठे वर्णाल्लिखेत् सुधीरित्युक्तम् | राघवभट्टेनापि शारदाटीकायां प्रादक्षिण्येनेत्यभिहितम् इति निष्कर्षः | ५९ | तान् वर्णानाह अकारेत्यादि | अकारादिविसर्गान्तान्, ततः ककारतो मकारान्तान्, ततो यकारतः सकारान्तान् ततश्च हलक्ष इति वर्णत्रयं लिखेत् | एतेनैतदुक्तं भवति आद्यकोष्ठचतुष्कस्य प्रथमे कोष्ठे अकारम्, द्वितीयचतुष्कस्य प्रथमे आकारम्, तृतीयचतुष्कस्य प्रथमे इकारम्, चतुर्थचतुष्कस्य प्रथमे ईकारम् | एवमाद्यचतुष्कस्य द्वितीये उकारम्, द्वितीयचतुष्कस्य द्वितीये ऊकारम्, तृतीयचतुष्कस्य द्वितीये ऋकारम्, चतुर्थचतुष्कस्य द्वितीये ऋकारम् | एवमाद्यचतुष्कस्य तृतीये ऌकारम्, द्वितीय-चतुष्कस्य तृतीये ॡकारम्, तृतीयचतुष्कस्य तृतीये एकारम्, चतुर्थचतुष्कस्य तृतीये ऐकारम् | एवं प्रथमचतुष्कस्य चतुर्थे ओकारम्, द्वितीयचतुष्कस्य चतुर्थे औकारम्, तृतीयश्चतुष्कस्य चतुर्थे अंकारम्, चतुर्थचतुष्कस्य चतुर्थे अःकारं लिखेत् | इति स्वरवर्णन्यासक्रमः | एवमनेनैव क्रमेण ककारादिक्षकारान्तान् वर्णान् लिखेत् | तथाच प्रथमचतुष्कस्य प्रथमे कोष्ठे ककारम्, द्वितीयचतुष्कस्य प्रथमे खकारम्, तृतीयचतुष्कस्य प्रथमे गकारम्, चतुर्थचतुष्कस्य प्रथमे घकारं लिखेत्, एवमनया रीत्या ङकारादीनां क्षकारान्तानामपरेषामपि वर्णानां प्रादक्षिण्येन पुनः पुनरावृत्त्या न्यासः कर्तव्य इति | अत्र अकारादिहकारान्तं मूलकोष्ठादितः सुधीः | दक्षिणावर्तयोगेन कोष्ठे वर्णाल्लिखेत् सुधीः || इति तन्त्रसारधृतविश्वसारवचनेन अकारादिहकारान्तानां वर्णानां चक्रे सन्निवेश उपदिश्यते, ततश्च हलक्षांश्च लिखेत्ततः इति श्रीतत्त्वचिन्तामणिवचनेन सह तन्त्रसारवचनविरोधः स्यात् | रुद्रजामलीयपञ्चमपटले अकथहचक्रप्रकरणे अकारादिक्षकारान्तं लिखित्वा गणयेत्ततः | इति | तन्त्रराजतन्त्रप्रथमपटले च एवं चतुर्षु कोष्ठेषु क्षान्तावधि समालिखेत् | इत्युक्तम्, एतदपि वचनद्वयम् अकारादिक्षकारान्तवर्ण-सन्निवेशनस्यैव समर्थकम् | प्रकृते तथानङ्गीकारे लादिक्षादिनाम्नां दीक्षार्थिनां मन्त्रविचारासम्भवः | अतोऽकारादिक्षकारान्त- मित्याकारकं विश्वसारवचनं विकृतं सदकारादिहकारान्तमित्याकारेणाधुनातनेषु तन्त्रसारेषु वर्तत इति प्रतीमः | न च अपभ्रंशाक्षरं ल-क्षौ हित्वा षण्डचतुष्टयम् | मन्त्राक्षरैः सहैकैकं नामवर्णान् विशोधयेत् || इत्यागमतत्त्वविलास-राघवभट्टधृतपिङ्गलामतवचने लक्षयोर्वर्जनदर्शनात् प्रागुक्ततन्त्रसारवचनमविरुद्धमिति वाच्यम्, प्रागुक्तपिङ्गलामतवचनस्य स्वरव्यञ्जनभेदभिन्न- नाममन्त्रघटकप्रत्यक्षरशोधनविषयत्वात् | अत एव राघवभट्टेन पिङ्गलामते प्रत्यक्षरं सिद्धादिगणनोक्ता | मातापितृकृतं नाम यच्चाप्यभिजनैः कृतम् | विश्लिष्य तत्र वै वर्णान् स्वरव्यञ्जनभेदतः || तथैव मन्त्रबीजानि ततः शोधनमारभेत् | बिन्दुद्विबिन्दुकोपध्मानीयजिह्वान्घ्रिसम्भवान् | संहतोच्चारणप्राप्तमधिकाक्षरमेव च || इत्युपक्रम्य अपभ्रंशाक्षरमित्याद्युक्त्वा व्यञ्जनैर्व्यञ्जनान्येव स्वरैः साकं स्वरांस्तथा | आद्यमाद्येन संशोध्य द्वितीयेन द्वितीयकम् || इत्यादिना तस्य प्रत्यक्षरशोधनरूपकल्पान्तरत्वमुक्तम् | अपि च अपभ्रंशेत्यादिपिङ्गलामतवचने षण्डचतुष्टयमित्यनेन ऋ ॠ ऌ ॡ संज्ञकानां नपुंसकार्णानामपि वर्जनं तस्य कल्पान्तरत्वं प्रमाणयति | ततश्च नाममन्त्राद्यक्षरशोधन-विधायके कल्पेऽस्मिन् लक्षयोरादानं युक्तमेवेति सर्वमवदातम् | तन्त्रराजन्त्रे प्रथमपटले चतुश्चतुर्विभागेन कल्पयेत्तानि वै क्रमात् | प्रथमप्रथमे त्वाद्यं द्वितीयप्रथमे तथा || द्वितीयमन्यतश्चान्यत्तथान्यदपि कल्पयेत् | तत्तत्कोष्ठेषु विलिखेत्तत्तत्पञ्चममक्षरम् | एवं चतुर्षु कोष्ठेषु क्षान्तावधि समालिखेत् || इत्यादि-वचनैरपीयमेव वर्णस्थापनापरिपाटी निरूपिता | विशदीकृतमेतत् तन्त्रराजप्रथमपटलटीकायां सुभगानन्दनाथेन एवं लिखिते सति प्रथमचतुष्कप्रथमकोष्ठे अ क थ ह इति चत्वार्यक्षराणि | (तत्र मन्त्रगणनाक्रमः) निजनामादिवर्णन्तु यस्मिन् कोष्ठे प्रदृश्यते | तत्कोष्ठाद् गणयेन्मन्त्री मन्त्रस्याद्यक्षरावधि || ६० || सिद्धसिद्धं सिद्धसाध्यं सिद्धसुसिद्धमेव च | सिद्धारिञ्च क्रमेणैव साध्यकोष्ठे लिखेत्ततः || ६१ || साध्यसिद्धं साध्यसाध्यं साध्यसुसिद्धमेव च | साध्यारिञ्च क्रमेणैव सुसिद्धे गणयेद् बुधः || ६२ || सुसिद्धसिद्धमादौ च सुसिद्धसाध्यमेव च | ततः सुसिद्धसुसिद्धं सुसिधारिमथो ततः || ६३ || अरिसिद्धमरिसाध्यमरिसुसिद्धमेव च | अर्यरिञ्चैव मन्त्रज्ञो वर्जयेच्च चतुष्टयम् || ६४ || ------------------------------------------------- तद्द्वितीयकोष्ठे उ ङ प इति त्रीणि | तत्तृतीयकोष्ठे ऌ झ म इति त्रीणि | तच्चतुर्थकोष्ठे ओ ड व इति त्रीणि | द्वितीयचतुष्कप्रथमकोष्ठे आ ख द ल इति चत्वार्यक्षराणि | तद्द्वितीयकोष्ठे ऊ च फ इति त्रीणि | तत्तृतीयकोष्ठे ॡ ञ य इति त्रीणि | तच्चतुर्थकोष्ठे औ ढ श इति त्रीणि | तृतीयचतुष्कप्रथमकोष्ठे इ ग ध क्ष इति चत्वारि | तद्द्वितीयकोष्ठे ऋ छ व इति त्रीणि | तत्तृतीयकोष्ठे ए ट र इति त्रीणि | तच्चतुर्थकोष्ठे अं ण ष इति त्रीणि | चतुर्थचतुष्कप्रथमकोष्ठे इ घ न इति त्रीणि | तद्द्वितीयकोष्ठे ऋ ज भ इति त्रीणि | तत्तृतीयकोष्ठे ऐ ठ ल इति त्रीणि | तच्चतुर्थकोष्ठे अः त स इति त्रीणि | एवं लिखिते प्रथमचतुष्ककोष्ठाक्षराणाम्-उपरितनाक्षराणि द्वितीयचतुष्ककोष्ठेषु यथाक्रमं दृश्यन्ते इत्यन्तेन ग्रन्थेन | ६०-६४ | एवं वर्णन्यासक्रममुक्त्वा गणनाक्रममाह निजेति | पूर्वोक्तानां षोडशकोष्ठानां मध्ये यस्मिन् कोष्ठे निजनामदिवर्णं साधकस्य नाम्नः प्रथममक्षरं दृश्यते, तत्कोष्ठात् मन्त्रस्याद्यक्षरावधि, यस्मिन् कोष्ठे मन्त्रघटकाक्षराणां प्रथममक्षरं दृश्यते तत्कोष्ठं यावद् येनैव लिखनं कुर्यात्तेनैव गणनं स्मृतमिति तन्त्रसारधृतविश्वसारोक्तरीत्या गणयेत् वक्ष्यमाण-सिद्धसिद्ध- सिद्धसाध्यादीनीति शेषः | अरिसिद्धः सुरं हन्यादरिसाध्यस्तु कन्यकाम् | पत्नीमरिसुसिद्धस्तु अर्यरिर्मल (?) नाशयेत् || ६५ || सिद्धसिद्धो यथोक्तेन सिद्धसाध्यो गुणद्वयात् | सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान् || ६६ || द्विगुणात् साध्यसिद्धस्तु साध्यसाध्यो निरर्थकः | द्विगुणात् साध्यसुसिद्धः साध्यारिर्हन्ति गोत्रजान् || ६७ || ----------------------------------------------------------- तदेव गणनाक्रममुपदिशति सिद्धेत्यादिना अर्यरिञ्चैवेत्यन्तेन | एतदुक्तं भवति यत्र चतुष्के स्वनामाद्यक्षरं तत् सिद्धसिद्धकोष्ठं ततस्तस्मिन्नेव चतुष्के प्रादक्षिण्येन कोष्ठत्रये सिद्धसाध्य-सिद्धसुसिद्ध-सिद्धारीन् गणयेत् | अस्मिन्नेव चतुष्के यदि मन्त्राद्यक्षरमपि स्यात् तदा अनयैव गणनया सिद्धम् | यद्यन्यस्मिन् स्वनामाद्यक्षरम्, प्रादक्षिण्येन द्वितीयचतुष्के मन्त्राद्यक्षरम्, तदा पूर्वचतुष्के यस्मिन् कोष्ठे नामाद्यक्षरम्, अत्र द्वितीयचतुष्केऽपि तदेव कोष्ठमारभ्य साध्यसिद्धादिगणनक्रमः इति राघवभट्टाः | एवं तृतीयचतुष्कादिष्वपि | एवञ्च स्वनामाद्यक्षरयुक्तं सिद्धसिद्धं तदपेक्षया द्वितीयं सिद्धसाध्यम्, तृतीयं सिद्धसुसिद्धम्, चतुर्थं सिद्धारि | क्रमेणैवेत्यनेनायमेवार्थः सूचितः | साध्यकोष्ठ इत्यादि | प्रागुक्तक्रमेण साध्याख्यस्य प्रथमं कोष्ठं साध्यसिद्धम्, द्वितीयं साध्यसाध्यम्, तृतीयं साधसुसिद्धम्, चतुर्थञ्च साध्यारि इति | क्रमेणैवेति इयमपि गणना प्रागुक्तगणनक्रमेणैवेत्यर्थः | तृतीयमाह सुसिद्ध इति | प्रागुक्तरीत्या सुसिद्धाख्यस्य प्रथमं सुसिद्धसिद्धम्, द्वितीयं सुसिद्धसाध्यम्, तृतीयं सुसिद्धसिद्धम्, चतुर्थञ्च सुसिद्धारि | चतुर्थमाह अथो इति | तदपेक्षया चतुर्थचतुष्कस्य प्रथमं कोष्ठम् अरिसिद्धाख्यम्, द्वितीयमरिसाध्याख्यम्, तृतीयमरिसुसिद्धाख्यम्, चतुर्थञ्चार्यर्याख्यमिति षोडशकोष्ठानां संज्ञाभेदा उन्नेयाः | गणनाप्राप्तस्यारिकोष्ठचतुष्कस्य वर्जनीयत्वमाह मन्त्रज्ञो वर्जयेच चतुष्टयमिति | ६५ | वर्जने हेतुमाह अरिसिद्ध इत्यादि | एतादृगनिष्टफलजनकत्वमेव वर्जनीयत्वे हेतुरित्यर्थः | सुसिद्धसिद्धोऽर्द्धजपात् तत्साध्यो द्विगुणाधिकात् | तत्सुसिद्धः क्षणादेव सुसिद्धारिस्तु जातिहा | अकथहमहाचक्रं कथितं तन्त्रवर्त्मना || ६८ || अ-क-थ-ह-चक्रम् चतुष्कम् ऐशानकोष्ठ अ क थ ह सिद्ध-सिद्ध उ ङ प सिद्ध-साध्य आ ख द ल साध्य-सिद्ध ऊ च फ साध्य-साध्य आग्नेयकोष्ठ चतुष्कम् ओ ड व सिद्धारि ऌ झ म सिद्ध-सुसिद्ध औ ढ श साध्यारि ऌ ञ य साध्य- सुसिद्ध ई घ न अरिसिद्ध ऋ ज भ अरिसाध्य इ ग ध क्ष सुसिद्ध-सिद्ध ऋ छ व सुसिद्ध- साध्य तद्वामस्थवा यव्यकोष्ठ- चतुषकम् अः त स अर्यरि ऐ ठ ल अरिसुसिद्ध अं ण प सुसिद्धारि ए ट र सुसिद्ध- सुसिद्ध तदधो नैरृत- कोष्ठ- चतुष्कम् (ऋणधनचक्रम्) पूर्वजन्माराधितानां मन्त्राणां ज्ञानमुच्यते || ६९ || ----------------------------------------------------- ६९ | अकथहचक्रमुक्ता ऋणधनचक्रमाह-पूर्वजन्मेति | (तत्र रेखापातः साध्यसाधकाङ्कानां न्यासपरिपाटी च) पूर्वापरं द्वादशसंख्यसूत्रं याम्योत्तरस्थञ्च तथाच पञ्चकम् | साध्याङ्कमूर्द्ध्वे खलु मध्यतोऽर्णा- नधो लिखेत् साधकमङ्कमीशात् || ७० || (वर्णन्यासपरिपाटी) द्वौ द्वौ स्वरौ पञ्चसु कोष्ठकेषु शेषान् स्वरान् षट्सु षडेकमेकम् | कादीन् हशेषान् विलिखेत्ततोऽर्णा- नेकैकमेकादशसु स्थलेषु || ७१ || (तत्र साध्यसाधकाङ्कन्यासपूर्वको गुणनक्रमः) इन्द्रर्क्ष-नेत्र-रवि-पञ्चदशर्तुवेद- वह्न्यायुधाष्टनवभिर्गणितांस्तु साध्यान् | ------------------------------------------------------ ७० | ऋणधनचक्रं त्रिविधं भवति, तत्र प्रथमे रेखापातनक्रममाह पूर्वेति | पूर्वतः पश्चिमान्ता द्वादश रेखाः तथा दक्षिणत उत्तरान्ताः पञ्च रेखाः कर्तव्याः | साध्याङ्कमिति | ऊर्द्ध्वे दक्षोत्तररेखापञ्चकानामूर्द्ध्वे बहिरूर्द्ध्वप्रदेशे पूर्वपश्चिमायतद्वादश-रेखासम्पादितैकादशकोष्ठानामुपरि क्रमेण एकैकशो वक्ष्यमाणान् साध्यान्कान् लिखेत् | मध्यतञ्चतुश्-चत्वारिंशत्कोष्ठेषु वक्ष्यमाणान् वर्णान् लिखेत् | अधो दक्षोत्तररेखापञ्चकानामधः क्रमेण वक्ष्यमाणान् साधकाङ्कान् लिखेदित्यर्थः | ७१ | तत्र प्रथममेव वर्णन्यासक्रममाह द्वौ द्वाविति | प्रागुक्तरेखासम्पादितचतुश्चत्वारिंशत्कोष्ठानां प्रथमकोष्ठपञ्चकेषु द्वौ द्वौ स्वरौ लिखेत् | एतेन अकारादय ॡकारान्ता दश स्वराः प्राथमिकपञ्चकोष्ठेषु निवेशनीया इत्युक्तं भवति | शेषानिति | प्रथमपङ्क्तेरवशिष्ठेषु षटसु कोष्ठेष्वेकैकश एकारादिविसर्गान्तान् स्वरान् लिखेदित्यर्थः | कादीनिति | अवशिष्टेषु त्रयस्त्रिंशत्कोष्ठेषु एकैकशः कादिहान्तान् वर्णान् लिखेत् | एकादशस्विति प्रतिपङ्क्त्यभिप्रायेणोक्तम् | दिग्भूगिरिश्रुतिगजाग्निमुनीषुवेद- षड्वह्निभिश्च गुणितानथ साधकार्णान् || ७२ || (मन्त्राणामृणधनत्वनिरूपणपरिपाटी, तत्फलविशेषाश्च) नामाज्झलादकठवाद् गजभुक्तशेषं ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् | मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी च तुल्यं यदा समफलः कथितो मुनीन्द्रैः || ७३ || ----------------------------------------------------- ७२-७३ | इन्द्रेति | साध्यान्कमूर्द्ध्वे इत्युक्तक्रमेण प्रथमाद्येकादशकोष्ठानामूर्द्ध्वेषु क्रमेण १४|२७|२|१२|१५|६|४|३|५|८|९ एतैरिन्द्रादिपदगम्यैरङ्कैर्गुणितान् साध्यार्णान्, अधो लिखेत् साधकमङ्कमित्युक्तक्रमेण दिगादिपदवेद्यैः १०|१|७|४|८|३|७|५|४|६|३ एतैरङ्कैर्गुणितान् साधकार्णांश्चेत्यर्थः | नामाज्झलादक- ठ-वादिति | अ-क-ठ-वात्मकमेकादशैकादशाक्षररूपं साध्यसाधकनामघटकस्वरव्यञ्जनभेदभिन्नवर्ण-समुदायं प्राप्य इन्द्रर्क्षादिभिर्गुणितान् साध्यार्णान् दिगादिभिर्गुणितान् साधकार्णांश्च ज्ञात्वा उभयोः साध्याङ्कसाधकान्कयोरधिकमवशिष्टमृणं धनञ्च स्यादित्यर्थः | तथाच राघवभट्टः तत्र प्रकारः साधकस्य, साध्यस्य मन्त्रस्य च नामाक्षराणि स्वरव्यञ्जनभेदेन पृथक्कृतानि स्थापयेत् | ततो मातृकायाः अ-क-ठ-वात्मकमेकादशैकादशाक्षरं वर्गचतुष्टयं कृत्वा मन्त्राक्षराणि स्वरव्यञ्जनरूपेण पृथक्कृतानि इन्द्रादिभिरङ्कैर्गुणयेत् | साधकनामाक्षराणि स्वरव्यञ्जन रूपेण पृथक्कृतानि दिगादिभिरङ्कैर्गुणयेत् | तत्र गुणनप्रकारः यस्मिन् स्थाने यो वर्णस्तं वर्णं तेनाङ्केन गुणयेत्, तत्स्थानमिताङ्कं गुणयेदित्यर्थः | तद् यथा-प्रथमकोष्ठस्थो वर्णोऽकारः, तञ्च चतुर्दशभिर्गुणयेत् तत्रैकश्चतुर्दशगुणितश्चतुर्दशैव | तथा द्वितीयकोष्ठस्थो वर्ण इकारस्तं सप्तविंशत्या गुणयेत्, तेन द्वाभ्यां सप्तविंशतिर्गुणिता चतुःपञ्चाशत् | एवं तृतीयस्थानस्थो वर्ण उकारो द्विगुणितः षड् भवति | एवं साधकनामाक्षराण्यपि दिगादिभिर्गुणयेदिति || गजभुक्तशेषम् अष्टभिविभाजितस्यावशिष्टमित्यर्थः | तत्र भागफलञ्चेदधिकं तदृणम्, यच्च न्यूनं तद् धनमित्यवधेयम् | एतादृशप्रक्रियायाः फलमाह मन्त्रस्त्वृणीत्यादि | मन्त्रो यदि ऋणी अधिकाङ्क स्यात्तदा स शुभफलो मङ्गलदायको भवति | यदि धनी न्यूनाङ्कः स्यात्तदा फलमशुभं प्रसूत इत्यर्थः | यदा मन्त्रसाधकयोरवसिताङ्कस्तुल्यस्तदा समफलः | न शुभदो नाप्यशुभद इत्यर्थः | इत्ययमृणधनचक्रस्य मन्त्ररत्नावलीसम्मतः क्रमः | ऋण-धन-चक्रम् पूर्व साध्यान्काः १४ २७ २ १२ १५ ६ ४ ३ ५ ८ ९ दक्षिणा अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः उत्तरा क ख ग घ न च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य त ल व स ष स ह साधकान्काः १० १ ७ ४ ८ ३ ७ ५ ४ ६ ३ पस्चिम (एतन्मूलीभूतागमनिरूपणम्) मन्त्ररत्नावलेश्चैतन्मतं शेषमथोच्यते || ७४ || (पूर्वतोऽन्यादृशी साध्यसाधकाङ्कन्यासपरिपाटी) षट्-काल-काल-वियदग्नि-समुद्र-वेद- खाऽकाशशून्यदहनाः खलु साध्यवर्णाः | युग्म-द्वि-पञ्च-वियदम्बर-युक्-शशाङ्क- व्योमाब्धिवेदशशिनः खलु साधकार्णाः || ७५ || ---------------------------------------------------- ७५ | प्रागुक्तर्णधनचक्रस्यैव साध्यसाधकाङ्क-स्थापनायां क्रमान्तरमाह - षडिति | पूर्वापरं द्वादशसंख्यसूत्रम् इत्यादि प्रागुक्तक्रमेणैव रेखा विन्यस्य तत्र इन्द्रर्क्षनेत्ररविपञ्चदशर्तुवेदेत्यादि प्रागुक्तक्रमम्-उल्लङ्घ्य षटकालेत्यादिवचनक्रमेण साध्याङ्कान् साधकाङ्कांश्च निवेशयेदित्ययमेवास्मिन् कल्पे विशेषः | तन्त्रसारकृता तु षट् कालेत्यादि विष्णुविषयमिति केचित् | वस्तुतस्तु पूर्वस्यैव विवरणमित्युक्तम् | तथा च इन्द्रर्क्षेत्यादिना गुणितेऽष्टाभिर्विभाजिते च यदवशिष्टं तद्रपमिदमिति केषाञ्चिदाशयः | तथाच ऊर्द्ध्वानामेकादशकोष्ठानामूर्द्ध्वे क्रमेण - षट् ६ | काल ६ | काल ६ | वियत् ० | अग्नि ३ | समुद्र ४ | वेद ४ | ख ० | आकाश ० | शून्य ० | दहनाः ३, एतानङ्कान् लिखेत्, एत एव साध्याङ्काः | प्रकारान्तरेण ऋण-धन-चक्रम् पूर्व साध्यान्काः ६ ६ ६ ० ३ ४ ४ ० ० ० ३ दक्षिण अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः उत्तरा क ख ग ङ्ह न च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व स ष स ह साधकान्काः २ २ ५ ० ० २ १ ० ४ ४ १ पस्चिमा (अस्यैव चक्रस्य क्रमान्तरम्) अथ कादिमतेनापि वक्ष्ये तच्चक्रमुत्तमम् || ७६ || (चक्रेणानेन मन्त्रशोधनस्य प्रक्रिया) निजनामादिकं वर्णमादाय परतः सुधीः | मन्त्राद्यक्षरपर्यन्तं गणनीयन्तु सर्वतः || ७७ || रामेण गुणितं कृत्वा सप्तभिश्च हरेद् बुधः | शेषा भवति या मात्रा ऋणं तावदुदाहृतम् || ७८ || ---------------------------------------------------------- अधः स्थानामेकादशकोष्ठानामधोऽपि क्रमेण युग्म २ | द्वि २ | पञ्च ५ | वियत् ० | अम्बर ० | युक् २ | शशाङ्क १ | व्योम ० | अब्धि ४ | वेद ४ | शशिनः १ | एतानङ्कान् लिखेत्, एत एव साधकाङ्काः | गणनया मन्त्रविचारस्य प्रक्रिया तु पूर्ववदिति नात्र पुनरुच्यते | ७६ | अथ कादिमतानुसारेण ऋणधनचक्रस्य तृतीयं क्रमं प्रतिपिपादयिषुः प्रति जानीते अथेति | ७७ | तमेव क्रममाह निजेति | निजनाम्नः साधकनाम्न आदिकम् आदौ भवं प्रथमवर्णं गृहीत्वा ततः प्रभृति मन्त्रस्याद्यक्षरपर्यन्तं गणयेत्, ततो यावन्तो वर्णा भवन्ति, तान् रामेण त्रिभिर्गुणितान् कृत्वा समष्ट्या जातां संख्यां सप्तभिर्हृत्वा यदवशिष्टं तदृणम् इत्यर्थः | एतदेव विलोमेन साध्यं तावद् वदाम्यहम् || ७९ || कृते भागे तु शिष्टाङ्कान् द्वयोः सम्यङ्निरूपयेत् | योऽधिकः स ऋणी ज्ञेय इति तन्त्रविदो विदुः || ८० || (अस्यैव चक्रस्य क्रमान्तरम्) अथवान्यप्रकारेण धनमृणं विशोधयेत् || ८१ || (ततो मन्त्रशोधनप्रक्रिया) साध्यनाम द्विगुणितं स्वरव्यञ्जनभेदतः || साधकस्य च नामार्णं स्वरव्यञ्जनमण्डितम् || ८२ || एकीकृत्य हरेत् पश्चाद्वसुभिः साधकस्य च | स्वरव्यञ्जनरूपेण नामार्णं द्विगुणं चरेत् || ८३ || साध्यनामाङ्कितं कृत्वा पूर्ववद् भागमाहरेत् | योऽधिकः स ऋणी ज्ञेयः प्रकारश्चापरः स्मृतः || ८४ || ---------------------------------------------------------- ७९ | एवं साधकाङ्कान् निरूप्य साध्याङ्कान् निरूपयति एतदेवेति | एतदेव विलोमेन गुणितम्, साध्यं साध्याङ्कं वदामीति सम्बन्धः | तथाच मन्त्राद्यवर्णतः साधकनामादिवर्ण-पर्यन्तं गणयित्वा समष्ट्या जातां संख्यां सप्तभिर्गुणितां त्रिभिर्हृत्वा यदवशिष्टं तद् धनमिति प्रक्रिया | ८० | कृत इति | एवं भागे कृते साध्यान्कानां साधकाङ्कानाञ्चावशिष्टानङ्कान् द्वयोः साध्यसाधकयोः भागावशिष्टा एते साध्याङ्काः एते च साधकाङ्का इति निरूपयेदित्यर्थः | तत्फलमाह य इति | भागफलस्याधिक्ये ऋणम्, न्यूनत्वे धनमित्यर्थः | ८१ | ऋणधननिरूपणे व्यवस्थान्तरं दर्शयितुमुपक्रमते अथवेति | ८२-८४ | ततो मन्त्रशोधनस्य प्रक्रियामाह साध्येति | साध्यनाम मन्त्रम्, तद्घटकवर्णान् स्वरव्यञ्जनभेदभिन्नान् द्विगुणीकृत्य तांश्च द्विगुणितान् वर्णान् स्वरव्यञ्जनभेदभिन्नैः साधकनामघटकवर्णैरेकीकृत्य तानेकीकृतान् वर्णानष्टभिर्हरेत् | तथा तद्वैपरीत्येन पूरोक्तरीत्या साधकनामघटकवर्णान् द्विगुणितान् साध्यनामघटकवर्णैरेकीकृत्य पूर्ववदष्टभिर्हरेत् | एवं कृते साध्यसाधकाङ्कयोर्यद् भागावशिष्टं तत्र योऽधिकाङ्कः स ऋणी, यश्च न्यूनाङ्कः स धनीत्यवधेयम् | (एतच्चक्रविशोधितस्य मन्त्रस्य फलम्) ऋणी मन्त्रः शुभफलो धनी स्यादशुभोदयः | तुल्योदयः शुभः प्रोक्त इति तन्त्रविदो विदुः || उक्तमृणधनं चक्रं सर्वसिद्धिप्रदायकम् || ८५ || (नक्षत्रचक्रं तत्र रेखापातः) दश रेखाः प्रकर्तव्याः पूर्वपश्चिमयोगतः | रेखाचतुष्टयञ्चैव विलिखेद्दक्षिणायतम् | तन्मध्ये विलिखेद् वर्णान् वक्ष्यमाणक्रमेण तु || ८६ || (वर्णन्यासपरिपाटी) द्व्येकत्रि-वेद-शशिचन्द्रमुखेन्दुयुग्मं युग्मं कलाधरयुगद्वयजन्मभूमीः | पक्षत्रिचन्द्रहरनेत्रमहीन्दु-चन्द्र- पक्षैकपक्ष-शिवलोचन-वेदवर्णम् || ८७ || ---------------------------------------------------- ८५ | एवं ऋणधनस्वरूपमभिधाय तस्य फलमाह - ऋणीति | तुल्योदयः साध्यसाधकयोस्तुल्योऽङ्गः, शुभफलदायक इत्यर्थः | ८६ | ऋणधनचक्रमुपदिश्य नक्षत्रमाह दशेति | पूर्वतः पश्चिमान्ता दश, उत्तरतो दक्षिणान्ताश्च चतस्रो रेखाः कर्तव्याः | एवं कृते सप्तविंशतिः कोष्ठानि सम्पद्यन्ते | तन्मध्य इति | वर्णान् एकपञ्चाशद् वर्णानित्यर्थः | ८७ | तामेव वर्णविन्यासपरिपाटीमाह द्व्येकेत्यादिना समालिखेदित्यन्तेन | तथाच तेषु अश्विन्यादिक्रमेण प्रथमे कोष्ठे अ आ | द्वितीये इ | तृतीये ई उ ऊ | चतुर्थे ऋ ॠ ऌ ॡ | पञ्चमे ए | षष्ठे ऐ | सप्तमे ओ औ | अष्टमे क | नवमे ख ग | दशमे घ ङ | एकादशे च | द्वादशे छ ज | त्रयोदशे झ ञ | चतुर्दशे ट ठ | पञ्चदशे ड | षोडशे ढ ण | सप्तदशे त थ द | अष्टादशे ध | ऊनविंशे न प फ | विंशे ब | एकविंशे भ | द्वाविंशे म | त्रयोविंशे य र | चतुर्विंशे ल | पञ्चविंशे व श | षड्विंशे ष स ह | सप्तविंशे ल क्ष अं अः | इत्यनया रीत्या वर्णान् लिखेदित्यर्थः | बिन्दु-विसर्गौ स्वरान्त्यौ च शेषे गेहे समालिखेत् | (न्यसनीयानां वर्णानामश्विन्यादिक्रमत्वम्) अश्विन्यादिक्रमेणैव वर्णाम समीरितम् || ८८ || (एतच्चक्रकरणकमन्त्रशोधनपरिपाटी) जन्मभादाद्यनाम्नस्तु वर्णाद्वा विलिखेत् सुधीः | साध्याद्यक्षरपर्यन्तं जन्मादीनि पुनः पुनः || ८९ || ----------------------------------------------------------------- ८९ | एतच्चक्रकरणकमन्त्रशोधनपरिपाटीमाह जन्मेति | स्वजन्मनक्षत्राश्रयकोष्ठस्थितवर्णात् साधकनामाद्यक्षर-सम्बन्धिनक्षत्राद् वा मन्त्राद्यक्षरपर्यन्तं जन्मसम्पदित्यादि-वक्ष्यमाणक्रमेण पुनः पुनर्गणयेदित्यर्थः | अत्र नाम्नो वर्णाद्वेति कल्पान्तरं स्वजन्मनक्षत्राज्ञाने मन्त्रशोधनार्थम् | तदुक्तं तन्त्रसारे तत्र स्वनक्षत्रादेव नक्षत्रं गणनीयम् | स्वनक्षत्राज्ञाने स्वनामाद्यक्षरसम्बन्धिनक्षत्रादेव नक्षत्रं गणनीयम् | पिङ्गलातन्त्रे प्रकटं यस्य जमर्क्षं तस्य जन्मर्क्षतो भवेत् | प्रनष्टं जन्मभं यस्य तस्य नामर्क्षतो भवेत् || इति वचनात् | प्रादक्षिण्येन गणयेत् साधकाद्यक्षरात् सुधीः || इति वचनाच्च इति | जन्मादीनि पुनः पुनरित्युक्तम्, तदेवाह जन्मेत्यादि | नामतुल्यफलप्रदा इति सम्पदः सम्पज्जनकत्वं विपदो विपज्जनकत्वमित्यनया रीत्या फलमुन्नेयमित्यर्थः | इममर्थं स्फुटमाह राघवभट्टधृतनिबन्धतन्त्रे रसाष्टनवभद्राणि युगयुग्मगतान्यपि | इतराणि न भद्राणि परित्याज्यानि सूरिभिः || इति | एतेन साधक-मित्र-परममित्र-क्षेमसम्पदो ग्रहणीया इतरा वर्जनीया इत्यापतति | अत एव तन्त्रसारकृतापि जन्म-तृतीय-पञ्चम-सप्तमानि नक्षत्राणि वर्जनीयानीत्युक्तम् | अत्रेदमवधेयम् प्रागुक्तसप्तविंशतिनक्षत्राणि मानुष-राक्षस-दैवतभेदेन त्रिविधानि भवन्ति | तदुक्तं तन्त्रसारधृत-निबन्धतन्त्रे- पूर्वोत्तरत्रयञ्चैव भरण्यार्द्राथ रोहिणी | इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः || जन्म सम्पद् विपत् क्षेमः प्रत्यरिः साधको बधः | मित्रं परममित्रञ्च नामतुल्यफलप्रदाः || ९० || नक्षत्र-चक्रम् १ अस्विनी अ आ देवः २ भरणी इ मानुषः ३ कृत्तिका ई उ ऊ राक्षसः ४ रोहिणी ऋ ॠ ऌ ॡ मानुषः ५ मृगसिराः ए देवः ६ आर्द्रा ऐ मानुषः ७ पुनर्वसुः ओ औ देवः ८ पुष्य क देवः ९ अस्लेषा ख ग राक्षसः १० मघा घ न राक्षसः ११ पूर्वफाल्गुनी च मानुषः १२ उत्तरफल्गुनी छ ज मानुषः १३ हस्त झ ञ देवः १४ चित्रा ट ठ राक्षसः १५ स्वाती ड देवः १६ विसाखा ढ ण राक्षसः १७ अनुराधा त थ द देवः १८ ज्येष्ठा ध राक्षसः १९ मूला न प फ मूला २० पूर्वाषाढा ब मानुषः २१ उत्तराषाढा भ मानुषः २२ स्रवणा म देवः २३ धनिष्ठा य र राक्षरः २४ सतभिषा ल राक्षसः २५ पूर्वभाद्रपद व स मानुषः २६ उत्तरभाद्रपद ष स ह मानुषः २७ रेवती ल क्ष अं अः देवः ---------------------------------------------- ज्येष्टा-शतभिषा-मूला-धनिष्ठाश्लेष-कृत्तिकाः | चित्रा-मघा-विशाखाः स्युस्तारा राक्षसदेवताः || (नक्षत्रचक्रोपसंहारः) नक्षत्रचक्रं कथितं राशिचक्रमथोच्यते | (राशिचक्रम्) राशिचक्रं समालिख्य तत्र वर्णाल्लिखेत् क्रमात् || ९१ || (तत्र वर्णन्यासपरिपाटी) वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान् पञ्चेषुवाण-शरपञ्च-चतुष्टयार्णान् | मेषादितः प्रविलिखेदथ शादिवर्णान् | कन्यागृहेषु पुनरेव ततो लिखेच्च || ९२ || ------------------------------------------------- अश्विनी रेवती पुष्या स्वाती हस्ता पुनर्वसुः | अनुराधा-मृग्शिरःश्रवणा देवतारकाः || तथा - स्वजातौ परमा प्रीतिर्मध्यमा भिन्नजातिषु | रक्षोमानुषयोर्नाशो वैरं दानवदेवयोः || ततश्च नक्षत्रचक्रविचारे मानुषादिभेदेन तत्तत्फलभेदोऽपि विवेक्तव्य इति | ९१ | एवं नक्षत्रचक्रं निरूप्य राशिचक्रमाह राशिचक्रं समालिख्येति | लेखनक्रममाह तन्त्रसारधृतागमकल्पद्रुमे रेखाद्वयं पूर्वपरेण कुर्यात्तन्मध्यतो याम्यकुबेरभेदात् | एकैकमीशाननिशाचरे तु हुताशवायवोर्विलिखेत्ततोऽर्णान् || इति | एतेन पूर्वतः पश्चिमान्तं रेखाद्वयं दक्षिणत उत्तरान्तञ्च रेखाद्वयं विधाय ईशानादिचतुष्कोणेष्वेकैकशो रेखाचतुष्टयं कुर्यादित्यर्थः | एवं कृते मेषादिद्वादशराशीनां द्वादश कोष्ठानि सम्पद्यन्ते | ९२ | तेषु मेषादिकोष्ठेषु वर्णन्यासपरिपाटीमाह वेदाग्नीति | एतेन मेषकोष्ठे अ आ इ ई इति चत्वार्यक्षराणि | वृषकोष्ठे उ ऊ ऋ इति त्रीणि | मिथुनकोष्ठे ॠ ऌ ॡ इति त्रीणि | कर्कटकोष्ठे ए ऐ इति द्वे | सिंहकोष्ठे ओ औ इति द्वे | कन्याकोष्ठे अं अः इति द्वे | तुलाकोष्ठे क ख ग घ ङ इति पञ्च | वृश्चिककोष्ठे च छ ज झ ञ (राशीनां संज्ञास्तन्मूलको मन्त्रशोधनक्रमश्च) जप्तुः स्वराशितो मन्त्री यावत् साध्यादिवर्णकम् | लग्नं धनं भ्रातृबन्धु-पुत्रशत्रुकलत्रकाः || ९३ || मरणं धर्मकर्मायव्यया द्वादश राशयः | (राशीनां प्रागुक्तसंज्ञानुरूपफलदातृत्वम्) नामानुरूपमेतेषां शुभाशुभफलं दिशेत् || ९४ || ----------------------------------------------------------- इति पञ्च | धनुःकोष्ठे ट ठ ड ढ ण इति पञ्च | मकरकोष्ठे त थ द ध न इति पञ्च | कुम्भकोष्ठे प फ ब भ म इति पञ्च | मीनकोष्ठे य र ल व इति चत्वार्यक्षराणि लिखेत् | अथ शादिवर्णान् कन्यागृहेषु पुनरित्यनेन कन्यागृहे लिखितात् अं अः इति वर्णद्वयादनन्तरं श ष स ह ल क्ष इति वर्णषट्कं च लिखेदित्यवगन्तव्यम् | ९३-९४ | अनेन चक्रेण मन्त्रशोधनस्य क्रममाह-जप्तुरिति | जप्तुः साधकस्य स्वराशितः साध्यादिवर्णकं मन्त्रप्रथमाक्षरं यावन्मन्त्री देशिको गणयेदित्यर्थः | गणनफलमाह लग्नमित्यादि | मेषादिद्वादशराऽऽईनां लग्नादिद्वादशसंज्ञास्तत्तत्संज्ञानुरूप-शुभाशुभ- फलदातृत्वञ्चेत्यर्थः | अत एव तन्त्रसारे स्वराशीनामनुकूलं मन्त्रं भजेत् | सतारराशिकोष्ठानामनुकूलान् भजेन्मनूनिति नारदवनादित्याह | स्वराशेरज्ञने शोधनक्रममाह तत्रैव यदा तु स्वराशेरज्ञानं तदा साधकनामाद्यक्षरसम्बन्धिनं राशिं गृहीत्वा गणयेत् | नारायणीये अज्ञाते राशिनक्षत्रे नामाद्यक्षरदर्शनात् | साध्यस्याक्षरराश्यन्तं गणयेत् साधकाक्षरात् || इति रामार्चनचन्द्रिकाधृतत्वादित्यन्तेन | अत्र नामानुरूपमेतेषां शुभाशुभफलं दिशेदित्युक्तम् | विशेषमाह तन्त्रसारधृततन्त्रान्तरतन्त्रे लग्ने सिद्धिस्तथा नित्यं धने धनसमृद्धिदम् | भ्रातरि भ्रातृवृद्दिः स्याद् बान्धवे बान्धवप्रियः || पुत्रे पुत्रविवृद्धिः स्याच्छत्रौ शत्रुविवर्द्धनम् | कलत्रे मध्यमा प्रोक्ता मरणे मरणं भवेत् || धर्मे धर्मविवृद्धिः स्यात् सिद्धिदः कर्मसंस्थितः | आये च धनसम्पत्तिर्व्यये च सञ्चितव्ययः || इति राशिचक्रसङ्केतः | राशिचक्रम् (अ-क-ड-म-चक्रं तत्र वर्णन्यासक्रमश्च) राशिचक्रे लिखेद् वर्णान् क्लीवहीनान् स्वरान् बुधः | ककारादिक्षकारान्तान् दक्षावर्तक्रमेण तु | मेषादितोऽपि मीनान्तं गणयेत् क्रमशः सुधीः || ९५ || ------------------------------------------------------------ ९५ | एवं राशिचक्रसङ्केतं प्रदर्श्य अ-क-ड-म-चक्रसङ्केतमाह-राशिचक्रे लिखेद् वर्णानिति | अत्र रेखापातक्रमं स्फुटमाह रुद्रजामलतृतीयपटले रेखाद्वयं पूर्वपरे मध्ये रेखाद्वयं लिखेत् | चतुष्कोणे चतूरेखाकडमं चक्रमण्डलम् | भ्रामयित्वा महावृत्तं निर्माय वर्णमालिखेत् || इति | (एतच्चक्रकरणकमन्त्रशोधनपरिपाटी) जप्तुः स्वनामतो मन्त्री यावन्मन्त्राद्यमक्षरम् | सिद्धसाध्यसुसिद्धारिक्रमेणैव पुनः पुनः || ९६ || (शोधितमन्त्रस्य फलविशेषप्रसवितृत्वम्) सिद्धः सिद्धिप्रदो नित्यं साध्यो जपहुतादिभिः || सुसिद्धः प्राप्तिमात्रेण साधकं भक्षयेदरिः || ९७ || ----------------------------------------------------------- वर्णान् विशेषयति क्लीवहीनान् स्वरान्, ककारादिक्षकारान्तान् व्यञ्जनवर्णंश्चेति | स्वरेषु ऋ ॠ ऌ ॡ एते चत्वारो वर्णाः क्लीवाः | ऋ ॠ वर्णद्वयं ऌ ॡ तद्धि क्लीवं प्रचक्षते | इति तन्त्रसारात् | तान् वर्जयित्वा स्वरान् लिखेदित्यर्थः | तच्च लेखनं दक्षावर्तेनेत्याह दक्षावर्तक्रमेण त्विति | एतेन पुनरावृत्त्या यावच्छेषं मेषतो वृषान्तमेकैकशो वर्णानां स्थापनमुक्तं भवति, अत एव तन्त्रसारेऽक-ड-म-चक्रमुपक्रम्याभिहितेन एकैकक्रमतो लेख्यान् मेषादिषु वृषान्तगान् | गणयेत् क्रमशो भद्रे नामादिवर्णपूर्वकान् || इति वचनेन दक्षावर्तेनैकैकवर्णस्थापनमाह | अथ गणनाक्रममाह मेषादित इति | मेषादितो मीनान्तमित्यनेन वामावर्तेन गणनम्, अपिशब्देन मीनादितो मेषान्तमित्यर्थस्य लाभाद्दक्षावर्तेनापि गणनमुपदिष्टम् | ९६ | एतच्चक्रकरणकमन्त्रशोधनपरिपाटीमाह-जप्तुरिति | जप्तुः साधकस्य स्वनामतो नामप्रथमाक्षरत इत्यर्थः, मन्त्रप्रथमाक्षरं यावत् सिद्ध-साध्य-सुसिद्धारीन् दक्षावर्तेन वामावर्तेन च पुनः पुनर्गणयेदित्यर्थः | एवं कृतायां गणनायां यावन्ति गृहाणि सिद्धादिसंज्ञितानि स्युस्तानि विशिष्याह रुद्रजामले तृतीयपटले नवैकपञ्चमे सिद्धः साध्यः षड्दशयुग्मके | सुसिद्धस्त्रिसप्तके रुद्रे वेदाष्टद्वाशे रिपुः || इति तथाच प्रथम-पञ्चम-नवमाः सिद्धाः | द्वितीय-षष्ठ-दशमाः साध्याः | तृतीयसप्तमैकादशाः सुसिद्धाः | चतुर्थाष्टमद्वादशा अरय इति पर्यवस्यति | अ-क-ड-म-चक्रम् ****************** (अकडमचक्रोपसंहारः, कुलाकुलचक्रविचारप्रतिज्ञा च) उक्तमकडमं चक्रं कुलाकुलं विचार्यते || ९८ || (कुलाकुलचक्रम्) (तत्र रेखापातो वर्णन्यासश्च) पूर्वापरायताः षट्करेखास्तु विलिखेत् क्रमात् | पञ्चभूतात्मका वर्णाः पञ्च पञ्च विभागतः || ९९ || ----------------------------------------------------------------- ९९ | एवमकडमचक्रं निरूप्य कुलाकूलचक्रं निरूपयति पूर्वेति | पूर्वापरायत पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसम्भवाः | पञ्चशः कादयः ष-क्ष-ल-स-हान्ताः समीरिताः || १०० || --------------------------------------------------------------- षड्रेखापातेन पञ्च गृहाणि सम्पद्यन्ते | पञ्चभूतात्मका इति | वर्णानां पञ्चभूतात्मकत्वञ्च कारणात् पञ्चभूतानामुद्भूता मातृका यतः | ततो भूतात्मका वर्णाः पञ्च पञ्च विभागतः || इति शारदातिलकद्वितीयपटलवचनादवगन्तव्यम् | तेषु च गृहेषु अकारादिवर्णान् पञ्चशो विभज्य सन्निवेशयेदित्यर्थः | १०० | तानेव वर्णानाह पञ्च ह्रस्वा इत्यादि | ततश्च वायव्यगृहे अ आ, आग्नेयगृहे इ ई, भौमगृहे उ ऊ, वारुणगृहे ऋ ॠ, आकाशगृहे ऌ ॡ इति द्वौ द्वौ वर्णौ प्रतिगृहं निवेशनीयावित्या-पततै | अत्र सन्धिसम्भवानां पृथगुपादानान्न पारिभाषिकह्रस्वदीर्घग्रह इति राघवभट्टः | बिन्द्वन्ताः सन्धिसम्भवा इत्यत्र बिन्द्वन्ता इति सन्धिसम्भवा इत्यस्य विशेषणम् | बिन्दुरनुस्वारोऽन्तो येषां सन्धिसम्भववर्णानां ए ऐ वो औ इत्याख्यानां ते बिन्द्वन्ताः | वर्णानामेतेषां सन्धिसम्भवत्वं प्रदर्शितं राघवभट्टेन एषां यथा सन्धिसम्भवत्वं तथोक्तमाचार्यैः अकारेकारयोर्योगादेकारो वर्ण इष्यते | तस्यैवैकारयोगेण स्यादैकाराक्षरं तदा || उकारयोगे तस्यैव स्यादोकाराह्वयः स्वरः | तस्यैवौकारयोगेण स्यादौकाराह्वयः स्वरः | सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः || इति | विसर्गस्य षोडशस्वरान्तर्गतत्वेऽप्यत्र तस्यागणने हेतुमाह राघवभट्टः मूलाधारात् सञ्जातविवक्षोत्पन्नप्रयत्न-प्राणपवनप्रेरितः स्थानान्तरमप्राप्य कण्ठादेव निःसरन् प्रकृत्यात्मकः सर्गोऽत्र भूतेषु न गणितः इति | तथा कादिमतेऽपि मायाशक्त्यभिधः सर्गः सर्वभूतात्मकः प्रभुः | तस्मात्तस्यात्र विन्यासो नैकदेशे शिवात्मनि || इति | सर्गो विसर्गः | एवं स्वरवर्णन्यासमुक्त्वा व्यञ्जनानां न्यासमाह पञ्चश इति | कादयः (तेषां वर्णानां संज्ञा) वायु-तेजो-मही-वारि-नभांसि च क्रमेण तु || १०१ || (एतच्चक्रकरणकमन्त्रशोधनपरिपाटी) साधकस्याक्षरं पूर्वं मन्त्रस्यापि तथाक्षरम् | यद्येकभूतदैवत्यं जानीयात् स्वकुलं हि तत् || १०२ || ---------------------------------------------------------- पञ्चश इत्यर्थः | पञ्चश इति वीप्सार्थे शस्प्रत्ययः | कादयः पञ्च पञ्च वर्णा इत्यर्थः | एतेन क-च-ट-त-पाद्याः पञ्च वर्गा य-र-ल-व-शाश्चेति लभ्यते | ते कीदृशाः कादय इत्याह - ष-क्ष-ल-स-हान्ता इति | अत्र पञ्च ह्रस्वाः पञ्च दीर्घाः तथा बिन्द्वन्ताः सन्धिसम्भवाः तथा पञ्चशः कादयः तथा पक्षेत्यादिपञ्च पञ्च-तया निर्देशात् प्रत्येकपञ्चकानां क्रमेण वायवादित्वमिति सूचितम् | ततश्च अ आ ए क च ट त प य षा दश वायव्याः | इ ई ऐ ख छ ठ थ फ र क्षा दश तैजसाः | उ ऊ ओ ग ज ड द ब ल ला दश पार्थिवाः | ऋ ॠ औ घ झ ढ ध भ व सा दश वारुणाः | ऌ ॡ अं ङ ञ ण न म श हा दश नाभसाः | इत्यनया रीत्या वर्णानां वायवादित्वमित्यवगन्तव्यम् | यत्तु पिङ्गलामते चत्वारिंशत्तथा पञ्च वर्णसंख्या प्रकीर्तिता | गणस्तु नवभिर्ज्ञेयः पार्थिवादिषु पञ्चसु || इति वचनेन नवनवानां वर्णानां वायवादिगणत्वमुक्तम्, तत्र अत्र ह्रस्वैरेव दीर्घाणां ग्रहान्नवभिरित्युक्ति रिति समाहितं राघवभट्टेन | अतस्तत्र दशभिरितितात्पर्यक एव नवभिरिति व्यवहार इति न कश्चिद्विरोधः | १०२ | अनेन मन्त्रशोधनस्य प्रकारमाह-साधकस्येत्यादिना | इदमवधेयम् अत्र कुलाकुलशब्देन स्वकुलं परकुलञ्चाभिधीयेते, तत्प्रतिपादकत्वादेवास्य कुलाकुलचक्रमिति संज्ञा | तत् किं स्वकुलमित्याकङक्षायामाह साधकस्येति | साधकनाम्नो मन्त्रस्य च पूर्वं प्रथमाक्षरं यदि एकभूतदैवत्यं स्यात् अनयोर्यदि वायवादीनामेकमेव भूतं (वर्णानां परस्परशत्रुत्वमित्रत्वादिव्यवस्था) पार्थिवे वारुणे मैत्रमाग्नेयस्यापि मारुतम् | पार्थिवानामक्षराणा शत्रुत्वे मारुतं स्थितम् || १०३ || आग्नेयस्य जलं शत्रुर्जलस्य मारुतं रिपुः | सर्वेषामेव वर्णानामविरोधि तु नाभसम् || १०४ || ---------------------------------------------- देवता भवेत् तत् स्वकुलं जानीयादित्यर्थः | एकभूतदैवत्यमिति एकं भूतं दैवत्यं देवता अस्येति विग्रहः | तथाच साधकनाम्नः प्रथमाक्षरं यद्भूतदेवताकं मन्त्राद्यक्षरमपि यदि तद्भूतदेवताकवर्णान्तर्गतं भवेत् तत् स्वकुलं विपर्यये तु परकुलमिति | अत एव मन्त्रसाधकयोराद्यो वर्णः स्यात् पार्थिवो यदि | तत् कुलं तस्य तत प्रोक्तमेवमन्येषु लक्षयेत् || इति राघवभट्टधृतपिङ्गलामतवचने अन्येषु लक्षयेदित्यनेन अन्येषामपि मन्त्रसाधकनामादिवर्णानामेकदेवताकत्वे स्वकुलत्वमुपपादितम् | १०३-१०४ | इदानीं विभिन्नभूतदेवताकवर्णानामरिमित्रादिव्यवस्थामाह पार्थिव इत्यादिना मारुतं रिपुरित्यन्तेन | एतेन नाभसवर्णवर्जं वायवादिचतुष्टयदे *? ताकवर्णानां परस्परं शत्रुत्वं मित्रत्वमौदासीन्यञ्च व्यवस्थापितानि | व्यक्तमाह राघवभट्टधृततन्त्रान्तरे वर्णांशकं वदिष्यामि चतुर्मात्रव्यवस्थितम् | स्वकुलं मित्रमध्यस्थे अमित्रञ्च चतुर्थकम् || वायव्याग्नेयवारुण्यपार्थिवञ्च प्रकीर्तितम् | उत्तरोत्तरसंसिद्धिसमताव्याधिमृत्यवः || प्राप्नुवन्ति समासाद्य मन्त्रिणोऽत्र निबोधनात् | मित्रे सिद्धिः समाख्याता उदासीने न किञ्चन || मृत्युर्व्याधिरमित्रे च स्वकुले सिद्धिरुत्तमा | नामादिवर्णाः साध्यस्य साधकस्य यथाक्रमम् | ऊर्द्ध्वाधःस्थं समालेख्या अंशकञ्च निरूपयेत् || इति | कुत्र कस्य मित्रत्वं शत्रुत्वमौदासीन्यं स्वकुलत्वं वा तदपि विशिष्य प्रदशितं तत्रैव (फलम्) परस्परविरुद्धानां वर्णानां यत्र संस्थितिः | स मन्त्रः साधकं हन्ति सर्वथा न प्रसीदति || १०५ || ---------------------------------------------- वायव्ये तैजसं मित्रमुदासीनन्तु वारुणम् | शत्रुञ्च पार्थिवं विद्यात् स्वकुलं वायवं पुनः || तैजसे वारुणं शत्रुरुदासीनन्तु पार्थिवम् | वायव्यं मित्रमाख्यातं स्वकुलं तैजसं पुनः || वारुणे पार्थिवं मित्रमुदासीनन्तु वाव्यवम् | तैजसं तु रिपुं विद्यात् स्वकुलं वारुणं पुनः || पार्थिवे वारुणं मित्रं तैजसं शत्रुरीरितम् | उदासीनं वायवन्तु स्वकुलं पार्थिवं पुनः || नन्वत्र पार्थिवानामक्षराणां शत्रुत्वे मारुतं स्थितमित्यनेन पार्थिवमारुतवर्णयोः परस्परशत्रुत्वाभिधानाद् उदासीनं वायवन्तु इति प्रागुक्ततन्त्रान्तरवचनविरोधः | उच्यते- मारुतं पार्थिवानाञ्च शत्रुरित्यादि-तन्त्रसारधृतरुद्रजामलतृतीयपटलवचने पार्थिवानाञ्चेति चकाराद् आग्नेयं पार्थिवानां रिपुरिति श्रीकृष्णानन्दव्याख्यानाद् वायव्यतैजसानामुभयेषामपि वर्णानां पार्थिवैः सह शत्रुत्वमिति स्थितम् | तत्र च तेजो यथा पार्थिवान् समूलं हन्ति न तथा मरुदिति तेजस एव शत्रुत्वप्राधान्येनात्र तथा व्यपदेशः | अस्यैवार्थस्य प्रतिपादनाय तन्त्रान्तरे तैजसस्य शत्रुत्वं वायवस्य औदासीन्यमुक्तम् | रुद्रजामल-श्रीतत्त्वचिन्तामण्यादिषु औदासीन्यानभिधानाद् वायव्यवर्णानामपि तैजसवत् शत्रुपक्षनिक्षेप इति संक्षेपः | एवं चतुर्णां स्वरूपमुक्त्वा नाभसवर्णानां व्यवस्थामाह सर्वेषामिति | नाभसं नभोदेवताकवर्णजातं सर्वेषामविरोधि मित्रमित्यर्थः | रुद्रजामलतृतीयपटले नाभसं सर्वमित्रं स्याद्विरुद्धं नैव शीलयेत् | इत्यनेन मित्रत्वस्य व्यक्तमभिधानात् | १०५ | एवं वर्णव्यवस्थामुक्ता फलमाह-परस्परेति | परस्परविरुद्धानां पार्थिवमारुतादिरूपाणां प्रागुक्तानां वर्णानां यत्र मन्त्रे मन्त्रप्रथमाक्षरे संस्थितिः | परस्पर- कुलाकुल-चक्रम् वायुः तेजः मही वारि नभः अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ च भ म य र ल व श ष क्ष ल स ह (वर्गचक्रम्) इदानीं वर्गचक्रस्य विधानमभिधीयते | मन्त्रग्रामविशुद्ध्यर्थं नामाद्यक्षरपूर्वकम् || १०६ || ------------------------------------------------------ विरुद्धत्वञ्चैतत् साधकनामप्रथमाक्षरमपेक्ष्येति बोध्यम् | स मन्त्रः साधकं हन्तीत्यादि | अस्यैव वचनस्य सर्वथा न प्रसीदतीत्यत्र किं वा नास्य प्रसीदतीति राघवभट्टधृतः पाठः समीचीनः | यतो न हि वर्णानां परस्परविरोधेऽपि सर्वत्र हन्तृत्वम् उत्तरोत्तरसंसिद्धिसमताव्याधिमृत्यवः | तथा उदासीने न किञ्चन मृत्युर्व्याधिरमित्रे च इत्यादिप्रागुक्तपिङ्गलामतवचनेन अनिष्टानां फलान्तराणामप्यभिधानात् | तस्माद् राघवभट्टवचनवदत्रापि सर्वथा न प्रसीदतीति फलान्तरम्, न प्रसीदति वेत्यर्थः | १०६-१०७ | एवं कुलाकुलं निरूप्य वर्गचक्रमाह-इदानीमिति | नामाद्यक्षर- (कोष्ठनिर्माणं तत्र वर्णन्यासश्च) अष्टौ कोष्ठान् समालिख्य वर्गानष्टौ क्रमाल्लिखेत् || १०७ || (वर्गाणां संज्ञाः) पक्षिमार्जारपञ्चास्यश्वानः सर्पाखुदन्तिनः | मेषः क्रमादकारादि-वसुवर्गाश्रिता इमे || १०८ || (एतच्चक्रकरणकमन्त्रशोधनफलम्) साध्यसाधकयोः प्रीतिर्ज्ञातव्या जातितः सदा || १०९ || -------------------------------------------------------- मारभ्य मन्त्रग्रामविशुद्ध्यर्थं वर्गचक्रस्य विधानमभिधीयत इत्यर्थः | तत्क्रममाह- अष्टाविति | ऊर्द्ध्वस्थांश्चतुरोऽधःस्थांश्च चतुरः कोष्ठान् समालिख्य तत्र क्रमादकाराद्यष्टवर्गान् लिखेदित्यर्थः | १०८ | तेषाञ्च संज्ञामाह-पक्षीति | पक्षि-मार्जार-सिंह-श्वान ऊर्द्ध्वतनचतुष्काणां सर्प-मूषिक-हस्ति-मेषाश्चाधस्तनचतुष्काणां संज्ञाः | एते च पक्ष्यादयः क्रमेणाकाराद्यष्टवर्गमाश्रित्य स्थिता इत्यर्थः | तथाहि, - प्रथमः पक्षी अकारादिविसर्गान्तषोडशस्वरमयप्रथम-कोष्ठाश्रयः, अतः स्वराणामेतेषां पक्षीति संज्ञा | द्वितीयो मार्जारः कवर्गाश्रयः | तृतीयः सिंहश्चवर्गाश्रयः | चतुर्थः श्वा टवर्गाश्रयः | पञ्चमः सर्पस्तवर्गाश्रयः | षष्ठो मूषिकः पवर्गाश्रयः | सप्तमो हस्ती य-र-ल- वाश्रयः | अष्टमो मेषः श-ष-स-ह-ल-क्षाश्रयः | तेनैतेषमपि तत्तत्संज्ञकत्वमिति स्थितम् | १०९ | फलमाह-साध्येति | साध्यसाधकनामाद्यक्षरयोः साजात्ये प्रीतिर्वैजात्ये न प्रीतिर्नाप्रीतिर्वा, शाश्वतिकवैरे वैरमित्यवधेयम् | शाश्वतिकवैरन्तु पक्षिसर्पस्य, मार्जारमूषिकस्य, सिंहहस्तिनः, श्व-मेषस्य च प्रसिद्धम् | (वर्गचक्रम्) पक्षी अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः मार्जारः क ख ग घ ङ सिंहः च छ ज झ ञ श्वा ट ठ ड ढ ण सर्पः त थ द ध न मूषिकः प फ ब भ म हस्ती य र ल व मेषः श ष स ह ल क्ष (प्रागुक्तमन्त्रदोषपरिहारक्रमः) एषु दोषेषु सर्वत्र मायां काममथापि वा | क्षिप्त्वा चादौ श्रियं दद्यात्तत्तद्दोषविमुक्तये || ११० || -------------------------------------------------------- ११० | एवं चक्रपरिपाटीमभिधाय तत्र तत्र श्रुतानाम- कथहादितत्तच्चक्रविचारपरिप्राप्ततत्तन्मन्त्रगतवैरित्वादि-दोषाणां प्रतिकारशैलीमाह एष्विति | एषु प्रागुक्ताकथहादि-चक्रविचारपरिप्राप्तमन्त्रगतवैरित्वादिदोषेषु | सर्वत्रेत्यनेन यः कोऽपि मन्त्रः प्रागुक्तदोषदुष्टोऽपि वक्ष्यमाणरीत्या कृतेन प्रतीकारेण दोषपरिहीणो भवतीति सूच्यते | अत एव तन्त्रसारधृतमुण्डमालातन्त्रे छिन्नादिदोषदुष्टा ये मन्त्रास्तन्त्रे निरूपिताः | ते सर्वे सिद्धिमायान्ति मातृकार्णप्रभावतः || इत्यादिना सर्वेषामपि दोषदुष्टानां मन्त्राणामनया रीत्या निर्दोषत्वमुपपादितम् | तारसंपुटितो वापि दुष्टमन्त्रोऽपि सिध्यति | (प्रकारान्तरम्) यस्य यत्र भवेद् भक्तिः स मन्त्रोऽस्य प्रसिध्यति || १११ || (प्रकारान्तरम्) अनुलोमविलोमस्थकॢप्तया वर्णमालया | प्रत्येकवर्णयुङ्मन्त्रा जप्ताः स्युः सर्वसिद्धिदाः || अरिमन्त्रा अपि नृणामन्ये मन्त्राश्च किं पुनः || ११२ || (स्थानस्थत्वादिना मन्त्राणां फलभेदाः) स्थानस्था वरदा मन्त्रा ध्यानस्थाश्च फलप्रदाः | स्थानध्यानविनिर्मुक्ताः सुसिद्धा अपि वैरिणः || ११३ || (षड्विधस्थाननिरूपणम्) प्रसङ्गेनैव तत् स्थानं कथयामि विशेषतः || ११४ || सकलं निष्कलं सूक्ष्मं तथा सकलनिष्कलम् | कलाभिन्नं कलातीतं षोढा स्थानं शिवोऽब्रवीत् || ११५ || (षड्विधस्थानस्वरूपम्) सकलं ब्रह्मरन्ध्रस्थं तदधो विद्धि निष्कलम् | मानसं सूक्ष्मनामानं हृत्स्थं सकलनिष्कलम् || ११६ || --------------------------------------------------------------- १११ | प्रकारान्तरमाह तारेति | तारः प्रणवः तेन संपुटितः आदावन्ते च प्रणवेन योजित इत्यर्थः | प्रकारान्तरमाह यस्येति | भक्तिः परमानुरक्तिः | ११२ | प्रकारान्तरमाह-अन्विति | प्रत्येकवर्णयुङ्मन्त्रा मन्त्रघटकप्रत्येकवर्णान् अनुलोमेन विलोमेन च मातृकावर्णैः पुटीकृत्य | अकारादिक्षकारान्तवर्णैः क्षकाराद्यकारान्तवर्णैश्च प्रत्येकेन मन्त्रघटकवर्णान् पुटीकृत्य जपाद्दुष्टमन्त्राणामपि सर्वसिद्धिविधायकत्वम्-इत्यर्थः | बिन्दुस्थितं कलाभिन्नं कलातीतं तदूर्द्ध्वतः | कला कुण्डलिनी सैव नादशक्तिः शिवोदिता || ११७ || एतत्स्थाने स्थिता मन्त्राः स्थानस्थाः परिकीर्तिताः | (मन्त्रविशेषे सिद्धादिशोधनानपेक्षित्वम्) मन्त्रकूटविभागानां विधानमभिधीयते || ११८ || सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् || ११९ || एकाक्षरे तथा कूटे मालामन्त्रे त्रिबीजेके | स्वप्नलब्धे स्त्रिया दत्ते सिद्धादीन् न विचारयेत् || १२० || वैष्णवेषु च तन्त्रेषु केचिदिच्छन्ति तान्त्रिकाः || १२१ || काली-तारामनौ मन्त्री तथा च्छिन्नामनावपि | सुन्दरीमन्त्रवर्ये तु सिद्धादीन्नैव शोधयेत् || १२२ || (दीक्षायां मासविवेकः) एवं विचार्य मतिमान् मासादीन् परिशोधयेत् | चैत्रे दुःखाय दीक्षा स्याद् वैशाखे रत्नसञ्चयः || १२३ || ------------------------------------------------------------ ११६-११७ | सकलमित्यादि | ब्रह्मरन्ध्रस्थं सहस्रारस्थितम् | तदध इति अधोमुखप्रणवोर्द्ध्वनादस्थम् | मनःस्थम् आज्ञाचक्रस्थितम् | हृत्स्थं द्वादशारस्थितम् | बिन्दुस्थितं प्रथमनादोर्द्ध्वबिन्दुस्थितम् | तदूर्द्ध्व्हत इति बिन्दूपरिनादस्थम्-इति B-पुस्तक पादटीका | ११९ | सपिण्डाक्षरमन्त्राणां संयुक्ताक्षरमन्त्राणाम् | १२३ | चैत्र इत्यादि | तदुक्तं राघवभट्टधृततन्त्रान्तरे असिद्धिर्भूमिसम्पत्तिर्मरणं बन्धुनाशनम् | आयुर्वृद्धिः प्रजानाशः सम्पत्ती रत्नसञ्चयः || शुभप्राप्तिः स्थाननाशो मोहार्थञ्च वशीकृतिः | चैत्रादीनां फलं ज्ञेयं मलमासं च वर्जयेत् || इति | अत्र मन्त्रारम्भस्तु चैत्रे स्यात् समस्तपुरुषार्थदः | इत्यादिगौतमीयतन्त्रपञ्चमपटलवचनेन दीक्षायां चैत्रस्य प्रशस्तिरभिहिता सा तु विष्णुविषया, गौतमीयतन्त्रस्य वैष्णवोपासनापरत्वात् | अत एव तन्त्रसारकारैश्चैत्र इति गोपालविषयं गौतमीयत्वात् | मधुमासे भवेद्दिक्षा दुःखाय मरणाय च इति योगिनीहृदयाच्चेत्युक्तम् | अतः शाक्ती दीक्षा चैत्रे न विधेयेति प्रतिपादनाय चैत्रे दुःखाय दीक्षा स्यादित्युक्तं पूर्णानन्देन, ग्रन्थस्यास्य शक्त्युपासनाप्रतिपादकत्वात् | राघवभट्टेनापि वैशाखपूर्वजे मासे मन्त्रारम्भः सुदुःसहः | वैशाखे धन्दायी च ज्यैष्ठे मृत्युप्रदो भवेत् || आषाढे पुत्रलाभाय श्रावणे भुभदो मतः | भाद्रे चैव ज्ञानहानिस्तथा सद्भिः प्रकीर्तिता | आश्विने सर्वसिद्धिश्च कार्तिको ज्ञानसिद्धिदः || शुभकृन्मार्गशीर्षः स्यात् पौषो दुःखप्रदायकः | माघे मेधाविवृद्धिश्च फाल्गुने सर्ववश्यता || इत्यादिभिः श्रीतत्त्वचिन्तामण्युक्तो दीक्षाकालक्रम एव प्रतिपादितः | परन्तुश्रीतत्त्वचिन्तामणि- तन्त्रान्तरादिषु आषाढस्य बन्धुनाशकत्वरूपानिष्टफलदातृत्वमुक्तम् | अत्र राघवभट्टधृतवचने तु आषाढे पुत्रलाभायेत्यनेन तस्येष्टफलदायकत्वमभिहितमिति विशेषः | राघवभट्टधृतसिद्धन्तशेखरे तु प्रागुक्तानां प्रशस्तानामपि मासानामुत्तमाधममध्यमत्वमुपपादितम् | यथा शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा | फाल्गुने मार्गशीर्षे च ज्यैष्ठे दीक्षा च मध्यमा || आषाढः श्रावणो माघः कनिष्ठाः सद्भिरादृताः | निन्दितश्चैत्रमासस्तु पौषो भाद्रपदस्तथा || इति | तथा च मूले ज्यैष्ठादीनामुत्तमानन्तर्गतत्वादेव निषेध इति राघवभट्टानामाशयादवगम्यते | तथा, आषाढपूर्वमासे च आषाढे मार्गशीर्षके | दीक्षां न कारयेद्धीमानन्यमासे तु कारयेत् || इति राघवभट्टधृतवचनेऽपि मार्गशीर्षस्य निषेध उत्तमानन्तर्गतत्वादेव | मरणं भवति ज्यैष्ठेऽप्याषाढे बन्धुनाशनम् | समृद्धिः श्रावणे नूनं भवेद् भाद्रपदे क्षयः || १२४ || प्रजानामाश्विने मासि सर्वकामफलप्रदा | ज्ञानं स्यात् कार्तिके मासि मार्गशीर्षे धनं महत् || १२५ || पौषे ज्ञानक्षयो माघे भवेन्मेधाविवर्द्धनम् | फाल्गुने सर्वसिद्धिः स्यान्मलमासं विवर्जयेत् || १२६ || (विषुवादिषु दीक्षायाः प्राशस्त्यम्) विषुवेऽप्ययनद्वन्द्वे संक्रान्त्यां मदनोत्सवे | दीक्षा कार्या प्रयत्नेन पवित्रे गुरुपर्वणि || १२७ || --------------------------------------------------------------------- राघवभट्टधृतकालोत्तरे शरद्वसन्तयोर्योगे दीक्षाकर्मविधिः स्मृतः | तयोरसम्भवे वर्षा विनान्यत्र प्रशस्यते || इत्यत्र वर्षा विनेत्यभिधानाद् आषाढश्रावणयोरप्राशस्त्ये लब्धे प्रागुक्तसिद्धान्तशेखरवचनेन च तयोः कनिष्ठत्वे निर्णीते, आषाढे बन्धुनाशः स्यादिति मूलोक्त्या आषाढस्य सर्वथा परिहेयत्वम्, समृद्धिः श्रावणे नूनमिति मूलोक्त्या श्रावणस्य विहितत्वेऽपि तस्याप्राशस्त्यमिति पूर्वपूर्वग्रन्थपर्यालोचनयावगम्यते | १२७ | दीक्षायां प्रशस्तान् दिनविशेषानाह विषुव इति | विषुवे विषुवद्वन्द्वे जलविषुवमहाविषुवसंक्रान्त्योः, अयनद्वन्द्वे दक्षिणायनोत्तरायणसंक्रान्त्योः, संक्रान्त्यां साधारण्याम्, मदनोत्सवे कामत्रयोदश्याम्, कामचतुर्दश्यामिति केचित् | गुरुपर्वणीति वक्ष्यमाणे षष्ठीभाद्रपद इत्यादौ | अत्र संक्रान्त्यामित्यनेनैव विषुवायनयोरपि लाभे तयोः पृथगुपादानं तत्र तत्र फलविशेषसूचनार्थम् | अत एव गन्धर्वतन्त्रे षडविंशपटले विषुवायनयोर्द्वन्द्वे आषाढे मदनोत्सवे | ग्रहणेऽर्कस्य चेन्दोर्वा दिनं तत्फलदं भवेत् || इत्यत्र संक्रान्तिषु विषुवायनयोरेवोपादानं चन्द्रसूर्य- ग्रहणसमानकालीनदीक्षाजन्यफलसमफलजनकत्वसूचना-यैव | तथा- (देवपर्वसु दीक्षायाः प्रशस्तिः) षष्ठी भाद्रपदे मासि इषे कृष्णा चतुर्दशी | कार्तिके नवमी शुक्ला मार्गे शुक्ला तृतीयिका || १२८ || पौषे तु नवमी शुक्ला माघे वरचतुर्थिका | फाल्गुने नवमी शुक्ला चैत्रे कामत्रयोदशी || १२९ || --------------------------------------------------------------------- ग्रहनक्षत्रयोगेषु विषुवेषूत्सवेषु च | अयनेषु च सर्वेषु योगः सर्वार्थसिद्धिदः || इति राघवभट्टधृतकालोत्तरवचने विषुवयोरयनयोश्च प्रत्येकं द्वित्वेऽपि तत्र तत्र वहुवचनोपादानं फलातिशयोपधायकत्वसूचनार्थमेव | मदनोत्सव इति कामचतुर्दश्याम् | गुरुपर्वणीति वक्ष्यमाणदेवपर्वणीत्यर्थः | १२८-१२९ | अत्र समानानुपूर्वीके तन्त्रसारधृतरत्नावलीवचने त्रयोदशीत्यत्र चतुर्दशीति पाठो दृश्यते | तत्र श्रीमत्कृष्णानन्देन त्रयोदशीति केचिदित्युक्तम् | बृहन्नीलतन्त्रे तृतीयपटलेऽपि चैत्रे कामत्रयोदशीत्येव पाठः | ततश्चतुर्दशीत्रयोदश्योरुभयोरपि तन्त्रसारबृहन्निलतन्त्रयोर्यथासंख्यं प्रशस्ततयाभिधानादत्र चैत्रे कामत्रयोदशीत्यनेन त्रयोदश्या लाभः | संक्रान्त्यां मदनोत्सवे इति प्रागुक्तवचनेन च चतुर्दश्याः प्राप्तिः | प्रागुक्तवचने मदनोत्सव इत्यनेन विशेषतोऽनिर्देशेऽपि अत्र कामत्रयोदशीति निर्देशात् तत्र मदनोत्सवशब्देन मदनचतुर्दशीति गम्यते | तदितरत्र मदनोत्सवासम्भवादिति ध्येयम् | तन्त्रसारे चैत्रे त्रयोदशी शुक्ला वैशाखैकादशी सिता | ज्यैष्ठे चतुर्दशी कृष्णा आषाढे नागपञ्चमी || श्रावणैकादशी भाद्रे रोहिणीसहिताऽष्टमी | आश्विने च महापुण्या महाष्टम्यप्यभीष्टदा || कार्तिके नवमी शुक्ला मार्गशीर्षे तथा सिता | षष्ठी चतुर्दशी पौषे माघेऽप्येकादशी सिता | फाल्गुने च सिता षष्ठी चेति कालविनिर्णयः || इति | वैशाखे चाक्षया शस्ता ज्यैष्ठे दशहरा तथा | आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी || १३० || एतानि देवपर्वाणि तीर्थकोटिफलं लभेत् | (सूर्योपराग-रविसंक्रमयोर्दीक्षायाः प्राशस्त्यम्, लग्नादिविचारनैरपेक्ष्यञ्च) निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा || १३१ || सूर्यग्रहणकालस्य समानो नास्ति भूतले | तत्र यद् यत् कृतं कर्म तदनन्तफलं लभेत् || १३२ || --------------------------------------------------------------------- १३१ | चन्द्रसूर्योपरागे दीक्षायाः प्राशस्त्यमाह निन्दितेष्वपीति | निन्दितेष्वपीत्यपिशब्देन वैशाखादिषु प्रशस्तेषु मासेषु दीक्षा शुभा भवत्येव | चैत्रादिषु निन्दितेष्वपि फलमिष्टमुत्पादयतीत्यवगन्तव्यम् | ग्रहणे शुभेति सूर्यग्रहणे चन्द्रग्रहणे च | अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः | इति तन्त्रसारधृतयोगिनीहृदयात् | १३२ | सूर्यग्रहणकालस्येति | ननु न कुर्याच्छाक्तिकीं दीक्षामुपरागे विभावसोः | न कुर्याद् वैष्णवीं तान्तु यदि चन्द्रमसो ग्रहः || इति तन्त्रसारधृतरुद्रजामलवचनेन सूर्योपरागे शाक्तदीक्षानिषेधादत्र सूर्यग्रणकालस्येत्यादि कथमुपपद्यते ? उच्यते प्रागुक्तरुद्रजामलवचनं श्रीविद्येतरविष्यम् विषुवायनयोर्द्वन्द्वे आषाढे मदनोत्सवे | ग्रहणेऽर्कस्य चेन्दोर्वा दिनं तत्फलदं भवेत् || इति श्रीविद्याप्रतिपादकगन्धर्वतन्त्रपञ्चविंशपटलवचनात् | श्रीपराकालिबीजानि लोपादौर्गश्च यो मनुः | सूर्यस्य ग्रहणे लब्धो नृणां मुक्तिफलप्रदः || इति तन्त्रसारपरिगृहीत-रत्नावलीधृतजामलवचनात् सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् | इति श्रीविद्याप्रतिपादयोगिनीहृदयाच्च | तस्मान्मूले विशिष्य सूर्योपरागस्योल्लेखस्तु प्राशस्त्यविशेषप्रतिपादनायेति ध्येयम् | रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा | तत्र लग्नादिकं किञ्चिन्न विचार्यं कथञ्चन || १३३ || (महाष्टम्यां कालशुद्ध्यादिनैरपेक्ष्यम्) महाष्टम्यां विशेषेण धर्मकामार्थसिद्धये | नात्र कालविशुद्ध्यादि न च नक्षत्रशोधनम् || १३४ || (श्रीगुरौ करुणया दीक्षयितुकामे, काश्यादौ च कालाकालविचारनैरपेक्ष्यम्) श्रीगुरोः करुणाकारे तथा काश्यां प्रयागके | पुण्यतीर्थे तथा क्षेत्रे देवीपीठचतुष्टये | तथा श्रीपर्वते मन्त्री कालाकालं न शोधयेत् || १३५ || --------------------------------------------------------------------- १३४ | महाष्टम्यामिति | महाष्टमीमाह कालिकापुराणे एकोनषष्ट्यध्याये आश्विने शुक्लपक्षय भवेद् या अष्टमी तिथिः | महाष्टमिति सा प्रोक्ता देव्याः प्रीतिकरी परा || इति | विशेषमाह तन्त्रसारधृतविष्णुजामले च देवीबोधं समारभ्य यावत् स्यान्नवमी तिथिः | कृता तासु बुधैर्दीक्षा सर्वाभिष्टफलप्रदा || शुक्लपक्षे विशेषेण तत्रापि तिथिरष्टमी | तत्रापि शारदी दुर्गा यत्र देवी गृहे गृहे || तत्र दीक्षा प्रकर्तव्या मासर्क्षादिन् न शोधयेत् | तथा बोधने चैव दुर्गायाः कालाकालं न शोधयेत् || अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा || इति | एतेन बोधनवमीतो दुर्गानवमीं यावत् तिथिवारकालाकालादिविचारनैरपेक्ष्येण दीक्षायाः प्राशस्त्यमभिहितम् | तत्रापि महाष्टम्यां दीक्षायाः फलविशेषश्रवणान्मूले तस्या एवोल्लेखः | १३५ | श्रीगुरोरिति | करुणाकारे यदा गुरुः कृपया शिष्यमाहूय मन्त्रं दित्सति तदेत्यर्थः | तदुक्तं तन्त्रसारधृतसमयातन्त्रे (दीक्षायां वारनियमः) रविवारे भवेद् वित्तं सोमे शान्तिप्रदा भवेत् | आयुरङ्गारके हन्ति तत्र दीक्षां विवर्जयेत् || १३६ || --------------------------------------------------------------------- शिष्यानाहूय गुरुणा कृपया दीयते यदि | तत्र लग्नादिकं किञ्चिन्न विचार्यं कदाचन || सर्वे वारा ग्रहाः सर्वे नक्षत्राणि च राशयः | यस्मिन्नहनि सन्तुष्टो गुरुः सर्वे शुभावहाः || इति | पुण्य इत्यादि | तदुक्तं गन्धर्वतन्त्रे पञ्चविंशपटले पुण्यक्षेत्राणि कथ्यन्ते शृणु प्राधान्यतो मम | पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् || तीर्थप्रदेशाः सिन्धूनां सन्गमः पावनं वनम् | उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः || तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् | अश्वत्थामलकीमूलं गोशाला जलमध्यतः || देवतायतनं कूलं समुद्रस्य निजालयम् | साधने च प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् || इति | तन्त्रसारे च अथ वक्ष्यामि दीक्षायाः स्थानं तन्त्रानुसारतः | गोशालायां गुरोर्गेहे देवागारे शिवालये | पुण्यक्षेत्रे तथोद्याने नदीतीरे च मन्त्रवित् || धात्रीविल्वसमीपे च पर्वताग्रे गुहासु च | गन्गायास्तु तटे वापि कोटिकोटिगुणं भवेत् || इति | देवीति | देवीपीठचतुष्टयन्तु कामगिरिपीठम्, जालन्धरपीठम्, पूर्णगिरिपीठम्, उड्डीयानपीठञ्चेति | एतत् पञ्चदशप्रकाशे पीठन्यासनिरूपणावसरे ग्रन्थकारः स्वयमेव वक्ष्यतीति नात्र प्रपञ्च्यते | स्थानेष्वेतेषु दीक्षाग्रहणे कालाकालविचारो नास्तीत्यर्थः | तदुक्तं राघवभट्टेन पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये | प्रयागे श्रीगिरौ काश्यां कालाकालं न शोधयेत् || इति | १३६-१३७ | दीक्षायां विहितान्निषिद्धांश्च वारान् नियमयति रवीति | अत्र बुधे सौन्दर्यमाप्नोति ज्ञानं तु स्याद् बृहस्पतौ | शुक्रे सौभाग्यमाप्नोति यशोहानिः शनैश्चरे || १३७ || (दीक्षायां तिथिनियमः) चतुर्थी नवमी चैव चतुर्दश्यष्टमीइ तथा | पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा || १३८ || त्रयोदशी च दशमी प्रशस्ता सर्वसिद्धिदा | (पक्षनियमः) शुक्लपक्षे शुभा दीक्षा कृष्णेऽप्या पञ्चमाद्दिनात् || १३९ || (तत्रापि विशेषः) मुक्तिकामैः कृष्णपक्षे भूतिकामैः सिते सदा | कृष्णाष्टम्यां चतुर्दश्यां दीक्षाकर्म शुभप्रदम् || १४० || (नक्षत्रनियमः) अश्विन्यां सुखमाप्नोति भरण्यां मरणं ध्रुवम् | कृत्तिकायां भवेद्दुःखी रोहिण्यां वाक्पतिर्भवेत् || १४१ || --------------------------------------------------------------------- दुःखमिति पादटिप्पनीधृतः पाठः प्रामादिकः, तन्त्रसारे रविवारे भवेद् वित्तमिति पाठदर्शनात् रवौ गुरौ सिते सोमे कर्तव्यं बुधवासरे इति गन्धर्वतन्त्रषड्विंशपटलवचनेन, रवौ गुरौ सिते सोमे कर्तव्यं बुधशुक्रयोः इति गौतमीयतन्त्रपञ्चमपटलवचनेन च रविवासरे दीक्षायाः प्राशस्त्याभिधानात् | १४० | मुक्तीति | तन्त्रसारकृता राहवभट्टेन च शुक्लपक्षेऽथ कृष्णे वा दीक्षा सर्वत्रशोभना | इति कालोत्तरवचनमुपजीव्य यदुभयोरेव पक्षयोः प्राशस्त्यमभिहितं तत्र विशेषमाह- मूक्तीति | ततश्चोक्तकामनाभेदेन दीक्षायां पक्षव्यवस्थेत्यवधेयम् | १४१-१४५ | दीक्षायां शुभाशुभानि नक्षत्राणि निर्दिशति-अश्विन्यामिति | नीलतन्त्रे षष्ठपटले मृगशीर्षे सुखप्राप्तिरार्द्रायां बन्धुनाशनम् | पुनर्वसौ भवेद्दुःखी पुष्यायां धनवान् भवेत् || १४२ || अश्लेषायां भवेद्रोगी मघायां मोक्षमाप्नुयात् | फल्गुनीद्वितये चैव यशोवृद्धिर्भवेत् किल || १४३ || हस्तायां धननाशः स्याच्चित्रा-स्वात्योः सुखी भवेत् | विशाखायां सुखं चानुराधायां बन्धुनाशनम् || १४४ || ज्येष्ठायं सुतवृद्दिः स्यान्मूलायां कीर्तिवर्द्धनम् | पूर्वाषाढोत्तराषाढे भवेतां कीर्तिदायिके || १४५ || --------------------------------------------------------------------- रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरत्रयम् | पुष्या शतभिषा चैव दीक्षानक्षत्रमुच्यते || इति राघवभट्टधृतकारणे पौष्णं रोहिण्यथादित्यं श्रवणं चाश्विनी तथा | सावित्रं त्वाष्ट्रवायव्यमैन्द्रं नैर्-ऋतमेव च || तिष्यं त्रिरुत्तरार्द्रा च सौम्यं शिष्यत्रिजन्मभम् | नक्षत्राणि प्रशस्तानि दीक्षाकर्मणि सुव्रते || इति अत्र पौष्णं रेवती, आदित्यं पुनर्वसुः, सावित्रं हस्तः, सौम्यं मृग इति राघवभट्टव्याख्यानम् | त्वाष्ट्र चित्रा, पवनः स्वाती | राघवभट्टस्तु वक्ष्यमाणरत्नावलीवचनेन परस्परसंयोगे तिथिनक्षत्रयोर्दुष्टत्वमाह | यथा प्रतिपत् पूर्वाषाढा च पञ्चमी कृत्तिका तथा | पूर्वा भाद्रपदा षष्ठी दशमी रोहिणी तथा || द्वादशी सार्पनक्षत्रमर्यम्णा च त्रयोदशी | नक्षत्रलुप्ता इत्येते देवानामपि नाशनाः || इत्यन्यद्वारा द्विसंयोगात्तिथिनक्षत्रदुष्टत्वं ज्योतिःशास्त्रादवसेयमित्याह | एवञ्च पूर्वाषाढोत्तराषाढे भवेतां कीर्तिदायिके | श्रवणायां भवेद्दुःखि धनिष्ठायां दरिद्रता | बुद्धिः शतभिषायां स्यात् पूर्वभाद्रे सुखी भवेत् || १४६ || सौख्यं चोत्तरभाद्रे च रेवत्यां कीर्तिवर्द्धनम् || १४७ || (लग्न-चन्द्र-तार-नियमः) वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके | चन्द्रतारानुकूले च कुर्याद्दीक्षाप्रवर्तनम् || १४८ || तृतीयैकादशषष्ठदशमस्थश्च चन्द्रमाः | जन्मचन्द्रः शुभः प्रोक्तो जन्मनक्षत्रवर्जितः || १४९ || शुक्लपक्षे द्वितीयस्तु पञ्चमो नवमस्तथा || १५० || गोचरे ये ग्रहाः शुद्धस्तर्युक्तोऽपि शुभः शशी | शुभमध्यस्थितो वापि चन्द्रमाः शुभदो भवेत् || १५१ || तृतीये सप्तमे चैव षोडशाष्टादशे तथा | ऊनविंशे चैकविंशे त्रयोविंशे तथैव च | पञ्चविंशतिनक्षत्रे शुभकर्म विवर्जयेत् || १५२ || --------------------------------------------------------------------- इत्यनेन पूर्वाषाढायाः प्राशस्त्येऽपि प्रतिपदि कृता दीक्षा दुःखाय मरणाय च | इति तन्त्रसारधृतवचने प्रतिपदोऽनिष्टफलकत्वात् तत्संयोगे प्रशस्ताया अपि पूर्वाषाढाया दुष्टत्वम् | एवं पञ्चम्याः प्राशस्त्येऽपि अप्रशस्तायाः कृत्तिकायाः संयोगात्तस्या अप्राशत्यम् | यत्रोभयोरपि तिथिनक्षत्रयोः प्राशस्त्यं तत्रापि प्रागुक्तरीत्या तयोः संयोगोऽनिष्टं फलं प्रसूते यथा दशमीरोहिण्योः स्वतः प्राशस्त्येऽपि परस्परसंयोगे तयोरुभयोरेवानिष्टफलानुबन्धित्वम् | एवमन्यत्रापि | (प्रागुक्तमासादिशुद्धेर्मन्त्रदीक्षामात्रपरत्वम्) यन्मासतिथिवारादि-शोधनं प्रोक्तमेव हि | मन्त्रदीक्षापरं तत्तु विज्ञेयं साधकोत्तमैः || १५३ || (विद्यादीक्षायान्तु तिथिवारादिशोधनापेक्षा नास्ति) विद्यादीक्षापरं नैव तिथिवारविशोधनम् | यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः || १५४ || (अत्र प्रामाणिकागमनिर्णयः) योगिनीहृदयस्येति मतमालक्ष्य कीर्तितम् || १५५ || (मन्त्रपदव्युत्पत्तिः) मननात्त्राणनाच्चैवमद्वयस्यावबोधनात् | मन्त्र इत्युच्यते सम्यक् शिवाधिष्ठानतोऽपि च || १५६ || गुप्तोपदेशतो मन्त्रो मननात्त्रणनादपि | तेन मन्त्र इति प्रोक्तो देशिकैस्तन्त्रवेदिभिः || १५७ || --------------------------------------------------------------------- १५४ | राघवभट्टधृततत्त्वसागरसंहितायामपि तिथिं विनाऽपि दीक्षायां विशिष्टावसरं शृणु | दुर्लभे सद्गुरूणान्तु सकृत् सङ्ग उपस्थिते || तदनुज्ञा यदा अब्धा स दीक्षावसरो महान् | ग्रामे वा यदि वाऽरण्ये क्षेत्रे वा दिवसे निशि | आगच्छति गुरुर्दैवाद् यदा दीक्षा तदा भवेत् || इति | तथ- यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः | न तिथिर्न व्रतं होमो न स्नानं न जपक्रिया | दीक्षायाः कारणं किन्तु स्वेच्छावाप्ते तु सद्गुरौ || इति | (दसविधो मन्त्रसंस्कारः) मन्त्रस्य दश संस्काराः कथ्यन्ते तन्त्रवर्त्मना | जननं जीवनं पश्चात्तडनं बोधनं तथा || १५८ || अथाभिषेको विमलीकरणाप्यायने पुनः | तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः || १५९ || (तत्र जननाख्यः प्रथमसंस्कारः) कुङ्कुमेन विलिप्तायामथवा रोचनादिना | गोमयेन विलिप्तायां कठिन्या कमलं लिखेत् || १६० || --------------------------------------------------------------------- १५८ | कुलार्णवे पञ्चदशोल्लासे कथ्यन्ते दश संस्कारा मन्त्रदोषहराः प्रिये | इत्यनेन वक्ष्यमाणमन्त्रसंस्कारस्य मन्त्रदोषनिवारकत्वात्, शाणोल्लिढानि शस्त्राणि यथा स्युर्निशितानि वै | मन्त्राश्च स्फर्तिमायान्ति संस्कारैर्दशभिस्तथा || इत्यनेन विशेषतो मन्त्रस्फूर्तिविधायकत्वाच्च मन्तस्य संस्कारानभिधातुं प्रतिजानीते मन्त्रस्येति | ततश्च वक्ष्यामाणरीत्त्या कृतः संस्कारैश्च्छिन्नादिदोषदुष्टा अपि मन्त्राः शुभफलं प्रसुवते, ते दोषास्तु छिन्नो रुद्धः शक्तिहीन इत्यादिना शारदायां द्वितीयपटले विशिष्याभिहिताः | १६०-१६२ | कुङ्कुमेनेति | तदुक्तं तन्त्रसारधृतगौतमीये स्वर्णादिपात्रे संलिख्य मातृकायन्त्रमुत्तमम् | काश्मीरचन्दनेनापि भस्मना वाथ सुव्रते || काश्मीरं शक्तिसंस्कारे चन्दनं वैष्णवे मनौ | शैवे भस्म समाख्यातं मातृकायन्त्रलेखने || इति | अत्र मातृकायन्त्रेत्यभिधानात्, मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् | इति तन्त्रसारोक्तेश्च प्रकृते कमलपदेन मातृकायन्त्रघटकं मकलमित्यवगन्तव्यम् | मातृकायन्त्रमाह तन्त्रसारे द्विरष्टकेशरे वर्गं पूर्वतो युग्ममालिखेत् | कादिवरं सप्तपत्रे ल-क्षमष्टमपत्रके || १६१ || तदक्सरात्तु मन्त्राणामुद्धारो जननं स्मृतम् || १६२ || --------------------------------------------------------------------- व्योमेन्द्वौरसनार्णकर्णिकचां द्वन्द्वैः स्फुरत्केशरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संविष्टितम् | आशास्वस्त्रिषु लान्तलाङ्गलियुजा क्षौणीपुरेणावृतं यन्त्रं वर्णतनोः परं निगदितं सौभाग्यसम्पत्करम् || इति | तथा तन्त्रसारधृतगौतमीये कादिमान्तान् पञ्च वर्गान् दिक्षु पूर्वादितो न्यसेत् | यादिवान्ताञ् शादिहान्ताल ल-क्षमीशे प्रविन्यसेत् | चतुरस्रं चतुर्द्वारं दिक्षु वं ठं विदिक्षु च || इति | तथाचायं यन्त्रलेखनक्रमः | प्रथमं पद्मस्य कर्णिकामाह् व्योमेन्द्वौरसनार्णकर्णिकमिति | व्योम हकारः, इन्दुः सकारः, तत औकारः, रसनार्णो वोसर्गः, व्योम इन्दुः औः रसनार्णश्च कर्णिकायां यस्येति विग्रहः | एतेन ह्सौः इति कर्णाकायां लेखनीयमित्यर्थः | केशरमाह-अचां स्वराणां द्वन्द्वैः स्फुरन्तः केशरा यस्य तत् | एतेन पूर्वादितोऽष्टसु केशरेषु द्विशः षोडशस्वरानीशानान्तान् लिखेदित्यर्थः | ततो दलान्याह- वर्गोल्लासिवसुच्छदं वर्गैरुल्लसन्तीति वर्गोल्लासिनः, वर्गोल्लासिनो वर्गविशिष्टाः वसवः अष्टौ छदा यस्य तत् | तथा च अष्टपत्राणि लिहित्वा पूर्वप्त्रे कवर्गम्, आग्नेये चवर्गम्, दक्षिणे टवर्गम्, नैर्-ऋते तवर्गम्, पश्चिमे पवर्गम्, वायव्ये य-र-ल-व-रूपं वर्णचतुष्टयम्, उत्तरे श-ष-स-ह- रूपं वर्णचतुष्टयं ईशाने ल-क्ष-वर्णद्वयें लिखेदित्यर्थः | आशासु दिक्षु अस्त्रिषु कोणेषु च यथाक्रमं लान्तो वकारः, लाङ्गली ठाकारः तद्युक्तेन वसुमतीगेहेन भूपुरेण संविष्टितम् | क्षौणीपुरेण द्वारचतुष्टयेनेति आगमतत्त्वविलासः | प्राचीनहस्तलिखिततन्त्रसारे तु क्षौणीपुरेणानुस्वारेणेति व्याख्यानं दृश्यते | तन्मते वकारठकारयोरनुस्वारयोगार्थं क्षौणीपुरेणेति पदमिति प्रतिभाति | तथाच चतुर्दिग्द्वारेषु वम, कोणेषु च ठमिति लिखेत् | इत् मातृकायन्त्रक्रमः | प्रकृते तु कठिन्या कमलं लिखेदिति कमलमात्रलेखनाभिधानं मातृकायन्त्रान्तर्गतपद्मादेव वर्णोद्धारसूचनार्थम् | अत्र कमले तन्त्रसारोक्तक्रमेणैव वर्णस्थापनमाह्- (जीवनाख्यो द्वितीयः) प्रणवान्तरितान् कृत्वा मन्त्रवर्णाञ् जपेत् सुधीः | एतज्जिवनमित्याहुः शतावृत्त्या च तान्त्रिकाः || १६३ || (ताडनाख्यस्तृतीयः) भूर्जे मन्त्राक्षरं कृत्वा वायुबीजेन ताडयेत् | एकैकं शतवारन्तु मन्त्रञ्च चन्दनाम्भसा || १६४ || (बोधनाख्यश्चतुर्थः) मन्त्रं भूर्जे समालिख्य करवीरप्रसूनकैः | तन्मन्त्राक्षरसंख्यातैर्हन्यद्रेफेण बोधनम् || १६५ || --------------------------------------------------------------------- द्विरष्टेत्यादिना | द्विरष्टकेशरे वर्णमिति द्विरिति वारार्थे सुच | ततश्च पूर्वादिकेशरेषु द्वौ द्वौ कृत्वा युग्मं वर्णमालिखेदित्यर्थः | तदक्षरादिति, मन्त्राणां मन्त्रघटकवर्णानां तदक्षरादुद्धारो जननाख्यः संस्कार इत्यर्थः | तथाच राघवभट्टः शुभे पीठादौ कुङ्कुमगोरोचनादिना मातृकाब्जं विलिख्य देयमन्त्रस्यैकैकमक्षरं मातृकाब्जत उद्धरणीयमिति | १६३ | प्रणवेति | प्रणवान्तरितान् प्रणवेन व्यवहितान् मन्त्रघटकवर्णान् जपेदित्यर्थः | यथा-यदा ह्रीं इति मन्त्रस्तदा ह ओं र ओं ईम् इति प्रणवान्तरणक्रमः | जपेदिति शतावृत्त्येत्यर्थः | तदुक्तं राघवभट्टेन प्रणवसहितांस्तु मन्त्रजवर्णान् प्रजपेच्छतावृत्त्यै तज्जिवनमुक्तमिति | १६४ | भूर्ज इति | वायुबीजेन यम इत्यनेन | ताडनस्य वाक्यन्तु अमुकमन्त्रस्य अमुकाक्षरं यं ताडयामि ति आगमतत्त्वविलासः | ताडनं शतधा दशधा वा | तदुक्तं तन्त्रसारधृततन्त्रान्तरे ताडनं तारयेद् वर्णानखिलांश्चन्दनाम्भसा | शतं वा दशधा वापि बोधयेत्तु मनं ततः || इति | विश्वसारे दशधा शृणु देवेशि ताडनं परिकीर्तितम् || इति | १६५ | मन्त्रमिति | भूर्जपत्रे देयमन्त्रं संलिख्य तन्मन्त्रघटकवर्णसमसंख्याकरक्तकरवीरपुष्पै रम् इति वह्निबीजेन हन्यात् | तदुक्तं राघवभट्टेन एतस्मिन् लिखितमन्त्र- (अभिषेकाख्यः पञ्चमः) मालतीकलिकाभिस्तु कुशमूलेन वा सुधीः | भूर्जे मन्त्रं समालिख्य मन्त्री मन्त्रार्णसंख्यया | अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये || १६६ || (विमलीकरणाख्यः षष्ठः) सहजागन्तुमायाख्यं ज्योतिर्मन्त्रेण निर्दहेत् | मलत्रयं ततो मन्त्री मन्त्रोऽसौ विमलो भवेत् || १६७ || --------------------------------------------------------------------- वर्णसंख्याकरवीरैस्तद्बोधनमुक्तं यद्धन्याद्वह्निबीजेनेति | अत्र तन्मन्त्राक्षरसंख्यातैरित्यभिधानादेकेन पुष्पेणैकस्य मन्त्रवर्णस्य बोधनमिति सूचितम् | बोधनवाक्यन्तु अमुकमन्त्रस्यामुकाक्षरं हन्मि इत्यागमतत्त्वविलासः | १६६ | मालतीति | मालतीकलिकाभिः कुशमूलेन वा भूर्जपत्रे मन्त्रं लिखित्वा मन्त्रघटकवर्णसमसंख्यातैरश्वत्थपल्लवैस्तन्मन्त्रमभिषिञ्चेत्ततः स मन्त्रः शुद्धो भवतीत्यर्थः | तदुक्तं राघवभट्टधृतपिङ्गलामते मालतीकलिकाभिस्तु न्यस्यार्णं कर्णिकोपरि | अश्वत्थपल्लवैः शुद्धैस्तन्मन्त्राक्षरसम्मितैः | अभिषेकं प्रकुर्वीत स्वतन्त्रे विहितं यथा || शारदातिलके द्वितीयपटले तु स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसंख्यया | अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये || इत्यत्र यत् स्वतन्त्रोक्तविधानेनेत्युक्तं तद् व्याख्यातं राघवभट्टेन स्वतन्त्रोक्तविधानेन शैवमन्त्रे शिवतन्त्रानुसारात्, शक्तिमन्त्रे शक्तितन्त्रानुसारात्, विष्णुमन्त्रे वैष्णवतन्त्रानुसारादिति | राघवभट्टेनाष्टोत्तरशतसंख्यातोऽभिषेक उक्तः निजतन्त्रेरितमार्गादभिषिञ्चेत् पिप्पलप्रवालेन भूर्जे विलिखितमन्त्रं शतमष्टौ चाभिषेकोऽयमिति | अभिषेकवाक्यन्तु अमुकमन्त्रस्यामुकाक्षरमभिषिञ्चामि नम इति राघवभट्टः | आगमतत्त्वविलासे तु अभिषिञ्चामीत्यन्तमेव | तत्र प्रत्येकं शतधा दशधा वाभिषेक उक्तः | १६७ | सहजेति | मन्त्री मन्त्ररहस्यज्ञः सहजागन्तुमायाख्यं सहजम् आगन्तुकं तारं शिवाग्नितारान्तो बिन्दुर्ज्योतिर्मनुर्मतः | (आप्यायनाख्यः सप्तमः) कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः || १६८ || अष्टोत्तरशतमिदं लिखित्वा भूर्जपत्रके | तेन मन्त्रेण विधिवदेतदाप्यायनं मतम् || १६९ || --------------------------------------------------------------------- मायिकञ्च मन्त्रमलत्रयं ज्योतिर्मन्त्रेण निर्दहेदिति सम्बन्धः | तदुक्तं राघवभट्टधृतपिङ्गलामते सहजागन्तुमायाख्यं ज्योतिर्मन्त्रेण निर्दहेत् | मन्त्रे मलत्र्यं मन्त्री ततोऽसौ निर्मलो भवेत् || इति | तन्त्रसारे तु सञ्चिन्त्य मनसा मन्त्रं सुषुम्णामूलमध्यतः | ज्योतिर्मन्त्रेण विधिवद्दहेन्मलत्रयं यतिः || इति विमलीकरणस्वरूपं निरूप्य, मलत्रयमिति मायिकं कार्मणमाणव्यञ्चेति | प्रपञ्चसारे मायिकं नाम योषोत्थं पौरुषं कार्मणं मलम् | आणव्यं तद्द्वयं प्रोक्तं निषिद्धं तन्मलत्रयम् || इत्याह | मन्त्रीत्यनेन मूलाधारात् कुण्डलिनीमुत्थाप्य तद्द्वारा दोषदाह इति राघवभट्टः | अत एव तन्त्रसारकृतापि सुषुम्णामूलमध्यत इत्युक्तम् | ज्योतिर्मन्त्रेण निर्द्दहेदित्युक्तम्, तं ज्योतिर्मन्त्रमाह तारमिति | तारं प्रणवः, शिवो हकारः, अग्नी रेफः, तारान्त औकारः बिन्दुरनुस्वारः तेन ह्रौं इति ज्योतिर्मन्त्रं | शारदायामपि तारं व्योमाग्निमनुयुग दण्डी ज्योतिर्मनुर्मत इति | आगमतत्वविलासकृता तु ज्योतिर्मन्त्रोत्पन्नवह्निशिखया पञ्चविंशतिकृत्वो निर्दहनम्, अमुकमन्त्रस्यामुकं मलं निर्दहामीति तद्वाक्यञ्चाभिहितम् | १६८-१६९ | कुशेति | इदं मन्त्रं भूर्जपत्रके लिखित्वा जप्तेनाष्टोत्तरशतजप्तेन कुशोदकेन मनोर्देयमन्त्रस्य प्रत्यर्णं प्रतिवर्णं तेन देयमन्त्रेण अष्टोत्तरशतं प्रोक्षणम् एतदाप्यायनमिति सम्बन्धः | केचित्तु पूर्वं ज्योतिर्मन्त्राभिधानात् तेन ज्योतिर्मन्त्रेणेत्यर्थं (तर्पणाख्योऽष्टमः) मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं मतम् || १७० || (दीपनाख्यो नवमः) तारमायारमाबीजं मन्त्रस्यादौ नियोज्य च | सप्तधा प्रजपेन्मन्त्रमिति दीपनमीरितम् || १७१ || --------------------------------------------------------------------- कल्पयन्ति | अत्र मीमांसितं राघवभट्टेन केचन तेन तन्मन्त्रेणेति ज्योतिर्मन्त्रेणेति व्याचक्षते, तदसद् ग्रन्थान्तरविरोधात्, तदुक्तम् आप्यायनं स्वजप्तैः प्रत्यर्णं कुशपयोभिः स्यात् | इति | तथाच स्वजप्तैरित्यस्य स्वं मन्त्रं तेन जप्तैः, कुशपयोभिरित्यर्थः | प्रकृते तु तेन जप्तेन तेनैवाभ्युक्षणमिति ध्येयम् | अत एव राघवभट्टेन तेनेत्युभयत्र सम्बध्यते इत्युक्त्या स्वमतसमर्थनानुकूलं पिङ्गलामतप्रमाणमुपदर्शितम् | यथा अष्टोत्तरशतालब्धं विशुद्धं कुशवारिणा | आप्यायितो भवेन्मन्त्रः प्रत्यर्णं प्रोक्षितो यदि || इति | अत्र प्रोक्सणं सप्तधेत्युक्तं राघवभट्टेन | आप्यायनस्य वाक्यन्तु अमुकमन्त्रस्यामुकवर्णमाप्यायामि इत्युक्तमागमतत्त्वविलासे | १७० | मन्त्रेणेति | मन्त्रे लिखितमन्त्रोपरि मन्त्रेण देयमन्त्रेण वारिणा यत् तर्पणं तदेव तर्पणं तर्पणाख्यः संस्कार इत्यर्थः | इदमप्यष्टोत्तरं शतमिति राघवभट्टः | तन्त्रसारे मधुना शक्तिमन्त्रे तु वैष्णवे चेन्दुमज्जलैः | शैवे घृतेन दुग्धेन तर्पणं सम्यगीरितम् || इन्दुमज्जलैः कर्पूरजलैरिति | १७१ | तारेति | तारः प्रणवः, माया ह्रीं, रमाबीजं श्रीं | बीजमित्यस्य प्रत्येकमभिसम्बन्धः | मन्त्रस्येति देयमन्त्रस्येत्यर्थः | अत्र तन्त्रसारे शारदायाञ्च तारमायारमायोगे मनोर्दीपनमुच्यते इति सामान्यतोऽभिहितम् | तन्त्रसारधृतविश्वसारे च तारमायारमाबीजपुटितेन जपेन्मनुम् | शतमष्टोत्तरन्चैव दीपयेत् साधकोत्तमः || इत्यनेन तारमायाबीजपुटितस्य देयमन्तस्याष्टोत्तरशतजपो दीपनमित्याह | प्रकृते तु (गोपनाख्यो दशमः) जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् || १७२ || (दशसंस्कारोपसंहारः) संस्कारा दश संप्रोक्ताः सर्वतन्त्रेषु गोपिताः | यान् कृत्वा मन्त्रदानेन मन्त्री वाञ्छितमाप्नुयात् || १७३ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ द्वितीयः प्रकाशः || २ || --------------------------------------------------------------------- मन्त्रस्यादावेव तारमायारमाबीजनियोगः सप्तधा जपश्चेति प्रागुक्तविश्वसार- शारदावचनविरोधः | तदेवं मीमांस्यते-तारमायेत्यादिमूलवचने नियोज्य चेति चकारस्य आदावित्यनेनाभिसम्बन्धान्मन्त्रस्यादौ च नियोज्येत्यर्थे अन्ते च तारादिबीजानां नियोगोऽवगम्यते, ततश्च मन्त्रस्यादावन्ते च तारमायारमाबीजानां नियोगो ग्रन्थकृतोऽप्यभिमत इति न विश्वसारादिवचनविरोधः | अष्टोत्तरशतजपसप्तधाजपयोर्व्यवस्था तु शक्ताशक्तभेदेनेति निष्कर्षः | तृतीयः प्रकाशः (दीक्षाप्रकरणम्) (तत्र विहितस्थानानि, दीपस्थाननिरूपणप्रयोजनम्, कूर्मचक्रम्, वास्तुयागस्तदङ्गचतुःषष्टिपदवास्तुमण्डलं वलिमन्त्राश्च) (दीक्षायां प्रशस्तस्थानानि) अथ वक्ष्यामि दीक्षायाः स्थानं तन्त्रानुसारतः || १ || गोशालायां गुरोर्गेहे देवागारे च कानने | पुण्यक्षेत्रे तथोद्याने नदीतीरे च मन्त्रवित् || २ || धात्रीविल्वसमीपे च पर्वताग्रे गुहासु च | गङ्गायां तत्तटे वाऽपि कोटिकोटिगुणं भवेत् || ३ || (दीपस्थाने जपादिविधिः) दीपस्थानं समाश्रित्य जपयागादिकं चरेत् | (कूर्मचक्रनिरूपणप्रतिज्ञा) अत एव कूर्मचक्रं वक्ष्यामि सिद्धिकारणम् || ४ || --------------------------------------------------------------------- ४ | गोशालायामित्यादिना दीक्षायां यानि प्रशस्तस्थानानि निरूपितानि तेष्वपि दीपस्थानमेवाश्रित्य जपयागादिकं विधेयमित्यर्थस्य ज्ञापनाय दीक्षास्थाननिरूपणात् परमेव दीपस्थानं निरूपयति दीपस्थानमित्यादिना | वक्ष्यमाणकूर्मस्य मुखस्थानमेव दीपस्थानमित्यग्रे वक्ष्यते | तद्दीपस्थानं कूर्मचक्रज्ञानाधीनमिति कूर्मचक्रं वक्तुं प्रतिजानीते अत इति | (तत्र रेखापातक्रमो वर्णन्यासश्च) आदौ च वर्तुलं कृत्वा नव कोष्ठानि कारयेत् | नवभागं मध्यकोष्ठं तथैव पूर्वतो लिखेत् || ५ || कवर्गादिसप्तवर्गं ल-क्षावीशे तदन्तरम् | मध्येषु वसुकोष्ठेषु स्वरांश्च युग्मशो लिखेत् || ६ || --------------------------------------------------------------------- ५ | तत्रायं कूर्मचक्रनिर्माणक्रमः प्रथमं कूर्माकृति वर्तुलं तन्मध्ये चतुरस्रम्, तन्मध्ये द्वे पूर्वायते, द्वे चोत्तरायते, एवं वर्तुलमध्ये नव कोष्ठानि सम्पद्यन्ते | एतेषां नवकोष्ठानं मध्यकोष्ठसंज्ञा तद्वहिःस्थानान्तु बहिःकोष्ठत्वम इति प्रतिपादयितुमाह नवभागमिति | तत्र चक्रे वर्णन्यासमाह तथैवेति | अन्तर्नवकोष्टवद् बहिःकोष्ठेषु व्यञ्जनानां स्थापनं विधेयमिति सूचनायैतत् | ६ | कवर्गादीति | तथाच बहिः पूर्वकोष्ठे-कवर्गम्, आग्यनेयकोष्ठे-चवर्गम्, दक्षिणकोष्ठे-टवर्गम्, नैर्-ऋतकोष्ठे-तवर्गम्, पश्चिमकोष्ठे-पवर्गम्, वायव्यकोष्ठे यादिचतुष्क, उत्तरकोष्ठे- शादिचतुष्कम्, इशानकोष्ठे-ल-क्षवर्णद्वयमिति बहिःकोष्ठेपूरणक्रमः | एतदेव स्फुटमाह राघवभट्टधृतवचनम् पूर्वकोष्ठे कवर्गस्य पञ्चकं मध्यतः क्रमात् | मध्यतोऽन्यत्र चान्नेये चवर्गं चैवमेव हि || इति | अन्तःकोष्ठप्रक्रियामाह्-मध्येष्विति | तथाच पूर्वदिङ्मध्यकोष्ठतः प्रादक्षिण्येन प्रतिकोष्ठं द्वौ द्वाविति क्रमेण षोडश स्वरान् लिखेदित्यर्थः | तदाह राघवभट्टः मध्यकोष्ठपुरोभागे अकारद्वयमालिखेत् | आग्नेययामिद्वयं विद्याद् याम्ये तूद्वयमालिखेत् || इत्यादिना | तन्त्रसारेऽपि चतुरस्रां भुवं भित्त्वा कोष्ठानां नवकं लिखेत् | पूर्वकोष्ठादि विलिखेत् सप्तवर्गाननुक्रमात् | ल-क्षमीशे मध्यकोष्ठे स्वरान् युग्मक्रमाल्लिखेत् || मध्यकोष्ठे क्षेत्रनाम चक्रं कूर्माख्यमुत्तमम् | (मुखादिनिर्णयः) यस्मिन् कोष्ठे क्षेत्रनामपूर्ववर्णं मुखं स्मृतम् || ७ || --------------------------------------------------------------------- इत्यनेनेयमेव वर्णस्थापनापरिपाटी निरूपिता | रुद्रजामलोत्तरखण्डतृतीयपटले तु मुण्डे स्वरा दक्ष्पादे कवर्गं वामपादके | चवर्गं कीर्तितं पश्चादधःपादे टवर्गकम् || ७३ || इत्यादिना | लाङ्गुले शक्रबीजञ्च क्षकारं लिङ्गमध्यके | लिखित्वा गणयेन्मन्त्री चक्रं कलिमलापहम् || ७४ || इत्यन्तेन कूर्मचक्रे वर्णानां न्यासोऽन्यथा निरूपितः | ७ | मध्यकोष्ठ इति | प्रागुक्ताष्टकोष्ठान्तर्वर्ति यन्नवमं कोष्ठं तत्र क्षेत्रनाम लिखेदित्यर्थः | क्षेत्रन्तु यतोपविश्य साधको जपति तदेव | तत्र प्रशस्तक्षेत्राणि गोशालायां गुरोर्गेहे इत्यादिना प्रकाशप्रारम्भ एवाभिहितानि | शारदायां द्वितीयपटलेऽपि पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् | तीर्थप्रदेशाः सिन्धूनां सङ्गमाः पावनं महत् || उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः | साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् || इति | एवमन्यत्रापि | अथ मुखस्यैव दीपस्थानत्वात् कूर्मस्य किं मुखं यज्ज्ञानाधीनं दीपस्थानज्ञानमित्याशङ्क्य मुखं निरूपयति यस्मिन्निति | प्रागुक्तानां कूर्मान्तःकोष्ठानां मध्ये यस्मिन् कोष्ठे क्षेत्रनामपूर्ववर्णं साधनयोग्यस्थाननामप्रथमाक्षरं तन्मुखं स्मृतमित्यर्थः | तदुक्तं शारदायां द्वितीयपटले दिक्षु पूर्वादितो यत्र क्षेत्राख्याद्यक्षरं स्थितम् | मुखं तत्तस्य जानीयात् * * * इति || एवञ्च कूर्मस्य मुखं साधनक्षेत्रप्रथमाक्षरानुसारेण निर्देश्यमिति स्थितम् | मुखस्य पार्श्वयोः पाणियुगं पार्श्वद्वयं भवेत् | कुक्षिस्थानं पादयुगं तदन्ते पुच्छमीरितम् || ८ || (कूर्मस्य तत्तदङ्गमाश्रित्य जपादौ फलभेदाः) मुखे कार्याणि सिध्यन्ति करे क्लेशमवाप्नुयात् | उदरे दुःखमधिकं पादयोर्हानिरुच्यते | पुच्छे तु धनहानिः स्याद्दीपस्थानं मुखं स्मृतम् || ९ || (दीपस्थानेतरत्र दीक्षादौ दोषः) दीपस्थानं विना यो हि दीक्षाहोमादिकञ्चरेत् | तदेव निष्फलं विद्यादभिचाराय कल्पते || १० || --------------------------------------------------------------------- ८-९ | एवं मुखं निर्दिश्य कूर्मस्य हस्तादिकं निरूपयति मुखस्येत्यादिना | मुखोभयपार्श्वस्थं कोष्ठद्वयं हस्तयुगलम्, उभयपार्श्वस्थं कोष्ठद्वयं कुक्षिस्थानम्, तदध उभयतः कोष्ठद्वयं पादयुगलम्, तदधः कोष्ठं पुच्छमित्यर्थः | मुखादिभेदेन जपयागादीनामिष्टानिष्टफलजनकत्वमाह-मुख इत्यादिना | १० | दीपस्थानमिति | अत्र राघवभट्टेन दीपशब्दार्थोऽन्यत्रोक्त इत्यभिधाय दीपोऽद्य (?) संप्रवक्ष्यामि यदुक्तं ब्रह्मजामले | प्रासादग्रामगेहाद्या ज्ञेया येन शुभाशुभाः || ककारादिक्षकारान्ता वर्णाः स्युर्दीपसंज्ञकाः | स्वराः षोडश पीठाख्या ज्ञातव्या मत्त्रिणां वरैः || इति | तथा पीठसंज्ञा स्वराणाञ्च दीपाः स्युर्व्यञ्जनानि हि | स्थानं दीपाक्षरं यस्मिन् कोष्ठे तिष्ठति तद् भवेत् | दीपस्थानं तदेतत् स्यात् कूर्मचक्रे न संशयः || इति चोक्तम् | एतेन दिककोष्ठानि व्यञ्जनवर्णमयानि दीपस्थानानि | अन्तःस्थानि स्वरमयाण्यष्टकोष्ठानि तु पीठसंज्ञकानीत्यवगम्यते | एवञ्चानेन स्वराणां पीठरूपतया तेषां वर्जनमुक्तम्, प्रकृतेऽपि श्रीमत्पूर्णानन्देन उदरे दुःखमधिकम् इति वदता उदरस्थानां स्वरवर्णानां वर्जनीयत्वमभिहितमिति न कश्चिदु विरोधः | (दीक्षायां वास्तुयागस्य कर्तव्यता) अथ वक्ष्यामि दीक्षान्गं वास्तुयागपुरःसरम् | कृतेन येन विधिवद्दीक्षायाः फलमाप्नुयात् || ११ || (वास्त्वङ्गाधिष्ठितत्रिपञ्चाशद्देवताकवलिनिर्णयः) राक्षसं वास्तुनामानं हत्वाधिष्ठाय तत्तनुम् | स्थिताः सुरास्त्रिपञ्चाशत्तेभ्यः पूर्वं बलिं हरेत् || १२ || --------------------------------------------------------------------- लक्षणाचार्यैस्तु शारदायां द्वितीयपटले मुखं तत्तस्य जानीयाद्धस्तावुभवतः स्थितौ | कोष्ठे कुक्षी उभे पादौ द्वे शिष्टं पुच्छमीरितम् || इत्यनेन क्षेत्रनामाद्यक्षरानुसारेण मुखादिनिर्णयमुपदिश्य क्रमेणानेन विभजेन्मध्यस्थमपि भागतः | इत्यनेन मध्येष्वष्टसु कोष्ठेषु स्थितानां स्वरवर्णानामपि प्रागुक्तरीत्या मुखादिकल्पनमभिहितमिति प्रतीयते | अत्र साधक-क्षेत्रनामाद्यक्षरयोर्वैरमित्रत्वभावनादि विस्तरतोऽभिहितं राघवभट्टेन | प्रकृतेऽनभिधानात्तन्न प्रदर्श्यते | ११ | एवं दीपस्थानं निरूप्य वास्तुयागं निरूपयितुमुपक्रमते अथेति | दीक्षाङ्गमिति | वास्तुयागस्य दीक्षाङ्गत्वमाह राघवभट्टधृतमयमते शुभकर्मणि दीक्षायां मण्डपकरणे गृहादिविधिषु तथा | विहितो वास्तुवलिः स्याद् रक्षोविघ्नोपशान्तिसम्पद्भ्यः || इति | वास्तुयागपुरःसरम् इत्यस्य वास्तुयागः पुरःसरो यस्य दीक्षाङ्गस्य दीक्षाङ्गसमुदायस्येत्यर्थः | ततश्च दीक्षाङ्गपदेन मण्डपाधिवासनकुण्डमण्डलादीनां परिग्रहः | १२ | राक्षसमिति | वास्तुदेवतोत्पत्तिमाह राघवभट्टः कश्यपस्य गृहिणी तु सिंहिका राहुवास्तुतनयावजीजनत् | पूर्वजो हरिनिकृत्तकन्धरो दैवतैरवरजो निपातितः || तन्त्रराजे त्रिंशपटले चतुरस्राकृतिः कश्चिदसुरः सर्वनाशकृत् | पुआ (?) तरस्य वधायैव सर्वे देवाः समुद्यमम् || कृत्वा निहन्तुमुद्युक्तास्तैरवध्योऽभवद् वरात् | आवयोस्तन्निरासाय मामेत्याकथयत्तदा || कथयास्माकमधुना तद्वास्तुपुरुषस्य तु | दर्पशान्तिं न एत्तेन विश्वमासीदुपद्रुतम् || इत्युक्ते तैर्मया प्रोक्तं निधनं तस्य दुःशकम् | खात्वा तमवनौ तस्य शरीरे स्थापयेत्तथा || नित्यशश्च त्रिपञ्चाशन्निस्पन्दाक्रमणाय वै | नियोज्य तेषां ये पूजाविमुखास्तैः कृतानि तु || सुकृतानि समादद्युर्दुष्कृतानि च कुर्वते | तस्मात्तेषामर्चनन्तु प्रत्यहं कुर्वतां सदा || शुभान्येवाशु जायन्ते नैवाशुभकथापि च | इति | राघवभट्टधृतमहाकपिलपञ्चरात्रे च पूर्वमासीन्महानुग्रः सर्वभूतभयङ्करः | स देवैर्निहतो भूमौ स वास्तुपुरुषः स्मृतः || यावद् भूमिः स्थिरा लोके तावद् वास्त्वसुरः स्थितः | संहारे तु लयं याति देवैः सर्वग्रहादिभिः || विस्तारोऽप्यासमन्ताच्च शतकोटिस्तु यो जनः | संस्थितोऽसौ धरां व्याप्य प्रोत्तानः कृष्णवर्णकः || जानू कूर्परकौ वास्तोर्वह्निवायुप्रकोष्ःअगौ | पितृपादपुटश्चायमीशमूर्द्धा हृदञ्जलिः | ऊर्द्ध्वकेशः सुपीनश्च वर्तुलाक्षोऽसुराकृतिः || इति | अत्र वास्तोरूर्द्द्वमुखतोक्ता | अधोमुखतापि दृश्यते, तदाह राघवभट्टः वास्त्वीशनामा ह्यसुरोऽतिकायो देवैः पुरा दत्तवरोऽभिपूज्यः | शेते स भूम्यां प्रविसार्य पादौ हस्तौ तथाधोवदनः सदैव || इति | एवं स्थितेऽप्यूर्द्ध्वाधोवदनत्वरूपविरोधे तत्परीहार उपपादितो राघवभट्टधृतसोमशम्भुना आकुञ्चितकरं वास्तुमुत्तानमसुराकृतिम् | स्मरेत् पूजासु कुड्यादिनिविशे त्वधराननम् | (वलिकर्मणि वास्तुमण्डलम्) वलिमण्डलमेतेषां वक्ष्यामि विघ्ननाशनम् || १३ || (मण्डलस्यास्य चतुरस्रत्वं हस्तप्रमाणत्वञ्च) चतुरस्रां भुवं कुर्यान्मन्त्री हस्तप्रमाणतः | (हस्तप्रमाणम्) चतुर्विंशत्यङ्गुलाढ्यं हस्तं तन्त्रविदो विदुः || १४ || (मानाङ्गुलप्रमाणम्) कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः | मध्यस्य दैर्घ्यमानेन मानाङ्गुलमुदीरितम् || १५ || (तस्यैव क्रमान्तरम्) कर्मकर्तुर्निजाङ्गुष्ठतिर्यङ्मानेन मध्यमम् | प्रमाणाङ्गुलमेतत्तु सर्वकर्मणि चापरे || १६ || --------------------------------------------------------------------- इत्यनेन | एवञ्च गृहादिकरण एव वास्तोरधोमुखत्वं प्रकृते तु तस्योर्द्धमुखत्वमेव | स्थिता इति | त्रिपञ्चाशत् सुराः तत्तनुमधिष्ठाय स्थिताः | हत्वापि तत्तनुं परिहाय न गता इत्यर्थः | उपपादितमेतद्राघवभट्टधृतमहाकपिलपञ्चरात्रे सर्वान् देवांस्तु कार्येषु पूजयेद्वास्तुसंस्थितान् | तेनासौ वर्तते नो चेदुत्तिष्ठेन्माधवाज्ञया || इति | एवञ्च प्रागुक्तरीत्या वास्तुनामानं राक्षसं हत्वा तत्तनुम् अधिष्ठाय त्रिपञ्चाशत् सुरा वक्ष्यमाणलक्षणाः स्थितास्तेभ्यः पूर्वं दीक्षाया इति शेषः बलिं हरेद् वक्ष्यमाणक्रमेणेति शेषः | १३ | अथेदानीं वास्तुवलिमण्डलं वक्तुमुपक्रमते वलीत्यादिना | १४ | तदाह चतुरस्रामिति | हस्तप्रमाणतश्चतुरस्रां भुवं कुर्यादिर्यर्थः | किं हस्तप्रमाणमित्यत आह चतुर्विंशेति | १६ | हस्तपरिमाणज्ञानमङ्गुलपरिमाणज्ञानसापेक्षमित्यतोऽङ्गुलपरिमाणभेदानाह कर्मकर्तुरित्यादिना | (तस्यैव क्रमान्तरम्) जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः | प्रथमं तत् प्र्माणानां त्रसरेणुः प्रचक्ष्यते || १७ || त्रसरेणुस्तु विज्ञेयो ह्यष्टौ ते परमाणवः | त्रसरेणव एते स्युरष्टौ रेणुस्तु स स्मृतः || १८ || ते रेणवस्तथा ह्यष्टौ बालाग्रं तत् स्मृतं बुधैः | बालाग्रैरष्टभिर्लिख्या यूका लिख्याष्टकं स्मृतम् || १९ || --------------------------------------------------------------------- १७ | अथ किं स्वरूपं मानान्गुलस्य येन हस्तप्रमाणं निश्चीयेतेत्यत आह जालेत्यादि | तथाच-अष्टौ परमाणवस्त्रसरेणुरष्टौ त्रसरेणवो रेणुरष्टौ रेणवो बालाग्रमष्टौ बालाग्राणि लिख्याष्टौ लिख्या यूका अष्टौ यूका यवोऽष्टौ यवा अङ्गुलमित्यङ्गुलपरिमाणमित्यर्थः | अत्र परमाणेरेव प्रथमपरिमाणत्वस्य सर्ववादिसिद्धत्वेऽपि प्रथमं तत्परमाणानामित्यादिना त्रस्रेणोर्यत् प्रथमपरिमाणत्वाभिधानं तदिन्द्रियग्राह्यप्रथमपरिमाणपरमित्यवधेयम | हयशीर्षपञ्चरात्रे सप्तमपटले तु परमाण्वष्टकेनैव रथरेणुः प्रकीर्तितः | रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते || २ || तैरष्टभिस्तु बालाग्रं लिख्या तैरष्टभिः स्मृता | ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यकम् | यवाष्टकैरङ्गुलं स्याच्चतुर्विशाङ्गुलः करः || इत्यादि | (२-४) एतन्मते चतुःषष्ट्या परमाणुभिरेकस्त्रसरेणुर्भवति | एवमन्यत्रान्यथापि परिमाणनिरूपणप्रकारभेदा दृश्यन्ते | अष्टौ यूका यवं प्राहुरङ्गलन्तु यवाष्टकम् | मानाङ्गलप्रमाणन्तु प्रोक्तमित्यपरं बुधैः || २० || (अस्यैव प्रकारान्तरम्) तिर्यग्यवोदराण्यष्टावृज्वग्रा व्रीहयस्त्रयः | मानाङ्गुलप्रमाणन्तु केचिदिच्छन्ति तान्त्रिकाः || २१ || (प्रागुक्तहस्तमानस्य विषयः) स्रुक्स्रुवे मण्डले कुण्डे हस्तमानं समीरितम् || २२ || (वास्तुमण्डलपदविभागपरिपाटी) अथ तद् विभजेन्मन्त्री चतुःषष्टिपदं यथा || २३ || --------------------------------------------------------------------- २२ | स्र क्-स्रुव इत्यादि | हयशीर्षे सप्तमपटलेऽपि एवंक्रमेण हस्तपरिमाणं निरूप्य एतैर्हस्तैस्तु कुर्वीत प्रासादं यागमण्डपम् | प्रतिमां पिण्डिकां वाऽपि कुण्डं मण्डलमेव च || तोरणञ्च ध्वजञ्चैव गुणाढ्यं पात्रमेव च | मानहीनं न कर्तव्यं फलप्राप्त्यर्थिभिः सदा || इत्यभिहितम् | राघवभट्टधृतमहाकपिलपञ्चरात्रे तु गृहप्रासादकूपानां मण्डपस्य जलस्य च | वास्तुमण्डलकं कार्यमष्टहस्तन्तु नापरम् || इत्यनेन मण्डलस्याष्टहस्तपरिमाणत्वमाह | प्रकृते तु हस्तप्रमाणत इत्यभिधानाद्दीक्षान्गवास्तुयागे वास्तुमण्डलस्यैकहस्तप्रमाणत्वमिति स्थितम् | २३ | एवं हस्तपरिमाणं निरूप्य वास्तुमण्डलपदविभागपरिपातीं प्रदर्शयति अथेति | तन्मण्डलं चतुःषष्टिपदं यथा स्यात्तथा विभजेदिति सम्बन्धः | ननु हयशीर्षपञ्चरात्रस्यादिकाण्डेऽष्टमपटले चतुःषष्टिन्तु प्रासादे एकाशीतिं गृहे सदा | श्री-१३ वास्तुयागतत्वधृतदेवीपुराणे प्रासादे च चतुःष्ऽष्टिरेकाशीतिपदं गृहे | तथा राघवभट्टधृतसोमशम्भौ कुर्यात् कोष्ठचतुःषष्टि प्रासादे वास्तुमण्डलम् | गृहेऽपि वर्तयेद्वास्तुं किन्त्वेकाशीतिकोष्ठकैः || इत्यादिवचनैश्चतुःषष्टिपदवास्तुमण्डलस्य प्रासादमात्रपरत्वाभिधानदिहा दीक्षाङ्गमण्डपनिर्माणाङ्गभूतवास्तुमण्डलस्य चतुःषष्टिपदत्वं कथमुपपद्यते ? उच्यते राघवभट्ऽधृतमहाकपिलपञ्चरात्रे एकाशीतिपदं कृत्वा वास्तुञ्चैव गृहादिषु | चतुःषष्टिपदो वास्तु प्रासादे ब्रह्मणा स्मृतः || इत्याभिधाय, मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः | इत्युक्तम् | एवञ्च प्रासादे वास्तुमण्डलस्य चतुऽषष्टिपदतया तदानुरूप्येण मण्डपेऽपि मण्डलस्यास्य चतुःषष्टिपदत्वं युक्तमित्यतः सुष्ठूक्तं चतुःषष्टिपदं यथेति | अत्र चतुःषष्टिपदविभागस्य क्रमं स्फुटमाह हयशीर्षपञ्चरात्रे आदिकाण्डेऽष्टमपटले चतुरस्रीकृते क्षेत्रे ह्यष्टधोभयभाजिते | कोणरेखां ततो दत्त्वा सुरभागांस्तु कल्पयेत् || इति | एवञ्च भूमिं प्रथमं चतुरस्रां विधाय तामुभयतोऽष्टधा विभजेत् | तत्र च विभजने नव पूर्वायता नव चोत्तरायता रेखाः कर्तव्याः | एवं कृते चतुःषष्टिः पदानि सम्पद्यन्ते | मूले चतुःषष्टिपदं यथेत्यनेनायमेव पदविभागक्रमो दर्शितः | आसाञ्च पूर्वोत्तरायतानां रेखाणां संज्ञाः प्रदर्शिता विश्वकर्मणा | तत्र पूर्वायतानामुत्तरादिक्रमेण श्रिया यशोमती कान्ता सुप्रियाऽपि परा शिवा | सुशोभा सघना ज्ञेया तथेभा नवमी स्मृता || (विश्व० ५|२२|२३) इत्येताः संज्ञाः | उत्तरायतानां पश्चिमादिक्रमेण संज्ञास्तु- धन्या धरा विशाला च स्थिरा रूपा गदा निशा | विभवा प्रभवा चान्या सौम्यासौम्याश्रिताः शिराः || इत्येताः | (विश्व-५|२३|२४) तथाच वास्तुराक्षसस्य चतुरस्राकृतेरेताः पूर्वोत्तरायता रेखाः शिरास्ताश्च मण्डलस्वरूपवास्तुशरीरेऽवश्यमेव स्थापनीया इत्युक्तं भवति | ईशानाद्राक्षसं यावद् यावदग्नेः प्रभञ्जनम् | कर्णसूत्रद्वयं दद्यात्ततो ब्रह्माणमर्चयेत् || २४ || मध्यकोष्ठचतुष्के तु पूर्वादिदिक्चतुष्टये | चतुश्चतुःप्रकोष्ठेषु यजेदर्यमणन्तथा || २५ || विवस्वन्तं ततो मित्रं महीधरमतः परम् | कोणार्द्धद्वन्द्वकोष्ठेषु वह्न्यादिपदतः पुनः || २६ || उपर्यधःक्रमेणैव पूजयेन्मन्त्रवित्तमः | सावित्रं सवितारञ्च शक्रमिन्द्रजयं पुनः || २७ || रुद्रं रुद्रजयं विद्वानापञ्चाप्यापवत्सकम् | कर्णसूत्रादुभयतः कोष्ठद्वन्द्वेषु साधकः || २८ || शर्वं गुहन्त्वर्यमणं जम्भकं पिलिपिञ्जकम् | चरकीञ्च विदारीञ्च पूतनामर्चयेत्ततः || २९ || --------------------------------------------------------------------- २४-२९ | ईशानादिति | प्रागुक्तचतुःषष्टिपदमण्डले ईशानान्निरृत्यन्तमग्नेर्वायवन्तञ्च कर्णसूत्रद्वयं दद्यादेकैकश इति शेषः | कर्णशब्दः कोणवाचितया शिल्पशास्त्रे प्रसिद्धः | एवं कर्णसूत्रपातं निरूप्य मण्डलमध्यतः क्रमेण ब्रह्मादीनामर्चनमुपदिशति तत इति | मध्यकोष्ठचतुष्के ब्रह्माणमर्चयेत् | ततो दिग्देवस्थानमाह पूर्वादीति | तथाच मध्यस्थब्रह्मकोष्ठचतुष्कस्य पूर्वकोष्ठचतुष्के अर्यमणम्, दक्षिणकोष्ठचतुष्के विवस्वन्तम्, पश्चिमकोष्ठचतुष्के मित्रम्, उत्तरकोष्ठचतुष्के महीधरं पूजयेदित्यर्थः | कोणार्द्धेति | वह्न्यादिपदतः कोणार्द्धद्वन्द्वकोष्ठेषु उपर्यधःक्रमेणैव सावित्रादीन् पूजयेत् | एवञ्च ब्रह्मपदचतुष्काद्बहिः प्रथमकोणकोष्ठचतुष्केषु पूर्वकृतकोणरेखाविभाजितेषु उपर्यधःक्रमेण सावित्रादीनां पूजनमनेन विधीयते | तथाच अग्निकोणार्द्धद्वन्द्वस्य ऊद्ध्वार्द्धे सावित्रमधोऽर्द्धे सवितारम्, एवं नैर्- ऋतकोष्ठार्द्धयोरूर्द्धे पूर्वादिदिक्चतुष्केषु सार्द्धाद्यन्तपदेष्विमान् | अष्टावष्टौ विभागेन क्रमादीशावधिं सुधीः || ३० || यजेदीशानपर्जन्यौ जयन्तं शक्रभास्करौ | सत्यो वृषान्तरीक्षौ तत्तदग्निपूषणावथ || ३१ || वितथाश्रमसंज्ञश्च गृहरक्षकसंज्ञकः | गन्धर्वो भृङ्गराजश्च मृगश्च निर्-ऋतिस्तथा || ३२ || दौवारिकाख्यः सुग्रीवो वरुणः पुष्पदन्तकः | असुरः शोषरोगौ च वायुनागाख्यमुख्यकाः || ३३ || सोमभल्लाटकावर्गलाख्योदित्यदितीति च || ३४ || --------------------------------------------------------------------- इन्द्रम्, अध इन्द्रजयम्, वायव्यकोष्ठार्द्धयोरूर्द्ध्वे रुद्रम्, अधो रुद्रजयम्, एवमीशानकोष्ठार्द्धयोरूर्द्ध्वे आपम् अध आपवत्सं पूजयेदित्यर्थः | अथ तदूर्द्ध्वस्थकोणकोष्ठचतुष्कप्रक्रियामाह कर्णेति | एतदपि पूर्वोक्तरीत्या कोणरेखाविभाजितेष्वष्टसु कोष्ठेषु विधेयम् | एवञ्च आग्नेये-ऊर्द्ध्वे शर्वम्, तदधो गुह्यम् | नैर्-ऋते-ऊर्द्ध्वे अर्यमणमधो जम्भकम् | वायव्ये ऊर्द्धे पिलिपिञ्जमधश्चरकीम | ऐशाने- ऊर्द्ध्वे विदारीमधः पूतनामर्चयेदिति पर्यवस्यति | अत्र विशेषानभिधानेऽपि पूर्वं वह्न्यादिपदत इत्यभिधानात् शर्वादीनां पूजनमपि वह्न्यादिक्रमेणैव कर्तव्यम् | ३०-३४ | अथ पूर्वादिदिक्कोष्ठप्रक्रियामाह-पूर्वादीति | सार्द्धाद्यन्तपदेषु आदि च अन्तञ्च आद्यन्ते अर्द्धे च ते आद्यन्ते चेति अर्द्धाद्यन्ते ताभ्यां सह वर्तमानानि यानि पदानि तेषु इति समासः | एवञ्च प्रागुक्तकोणरेखाविभाजिताद्यन्तकोणार्धपदेषु पदान्तरेषु च पूर्वादिक्रमैणेशानपर्यन्तं प्रतिदिशमष्टाविति क्रमेण वक्ष्यमाणान् ईशानादिदेवानर्चयेदित्यर्थः | तथाच पूर्वस्यामीशानकोणार्द्धे ईशम्, ततः पर्जन्यम्, ततो जयन्तम्, ततः शक्रम्, ततो भास्करम्, ततः सत्यम्, ततोऽग्निकोणपूर्वार्द्धेऽन्तरीक्षम् इत्येतान्, पूजयेत् | तदुक्तं शारदायां तृतीयपटले- क्रमादीशानपर्जन्यजयन्ताः शक्रभास्करौ | सत्यो वृषान्तरीक्षौ च दिशि प्राच्यामवस्थिताः || इति | (रजोभिर्मण्डलपदानामापूरणं वलिदानोपक्रमश्च) उक्तानामपि देवानां पदान्यापूर्य पञ्चभिः | रजोभिस्तेष्वथो तेभ्यो दद्यादेभिर्वलीनथ || ३५ || --------------------------------------------------------------------- एवं दक्षिणस्याम् अग्निकोणार्द्धे अग्निं ततश्च क्रमेण पूषणं वितथम अश्रमं (यमं) गृहरक्षकं गन्धर्वं भृङ्गराजं मृगञ्च पूजयेत् | तदुक्तं तत्रैव अग्निः पूषा च वितथो यमश्च गृहरक्षकः | गन्धर्वो भृङ्गराजश्च मृगो दक्षिणदिगगताः || एवं प्रतीच्याम- नैर्-ऋतकोणार्धतो वायुकोणार्धं यावत् क्रमेण निर्-ऋतिः, दौवारिकः, सुग्रीवः, वरुणः, पुष्पदन्तः, असुरः, शोषः (शेषः), रोगः (रागः) इत्यते पूजनीयाः | तदुक्तं तत्रैव निर्-ऋतिर्दौवारिकश्च सुग्रीववरुणौ ततः | पुष्पदन्तासुरौ शेषरोगौ प्रत्यगदिशि स्थिताः || इति | एवमुत्तरस्याम् वायुकोणार्द्धत इशानकोणार्धं यावत् क्रमेण वायुः नागः, मुख्यः, सोमः, भल्लाटः, अर्गलः, दितिः, अदितिश्चेत्येते पूजनीयाः | तदुक्तं तत्रैव वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च | अर्गलाख्यो दित्यदिती कुबेरस्य दिशि स्थिताः || इति | अयं चतुःषष्टिमण्डलदेवतास्थापनक्रमो दर्शितः | हयशीर्षपञ्चरात्रे तु ब्रह्मस्थानादूर्द्ध्वकोणकोष्ठद्वये ईशानादिक्रमेणापापवत्सादीनां पूजनमभिधाय पूर्वादिक्रमेणैशानीं यावन्मण्डलाद् बहिः स्कन्दादीनां चरक्यन्तानां पूजनमभिहितम | अत्र विशेषानभिधानेऽपि पूर्वस्यां जयन्तसत्ययोर्दक्षिणस्यां वितथगन्धःर्वयोः प्रतीच्यां सुग्रीवासुरयोरुत्तरस्याञ्च मुख्यार्गलयोरुर्द्ध्वाधो द्विपदस्थत्वमवगन्तव्यम् | स्फुटमभिहितमेतद्धयशीर्षपञ्चरात्रेऽष्टमपटले द्विपदस्थो जयो ज्नेयः तथा द्विपदः सत्य उच्यते इत्यादिभिः | ३५ | उक्तानामिति | पञ्चमी रजोभिरित्यनेन पीतं हरिद्राचूर्णं स्यात् सितं तण्डलसम्भवम् | कुसुम्भवर्णमरुणं कृष्णं दग्धपुलाकजम् | विल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् || १२३-१२४ || इति शारदातिलकतृतीयपटलोक्तरूपैः पञ्चविधरजोभिः पदानामापूरणमुपदिष्टम् | तत्रापि मण्डलपदस्थदेवानां यो यद्वर्णस्तत्तद्देवताधिष्ठितानां तत्तत्पदानामापूरणमपि तेन तेनैव वर्णेन विधेयम् | मण्डलपदस्थानां देवानां वर्णानाह राघवभट्टधृततन्त्रान्तरे मरीचिः श्वेतवर्णः स्याद् विवस्वानुक्तवर्णकः | शातकुम्भसमो मित्रः कृष्णवर्णस्तु भूधरः | सविता नीलवर्णाभः सावित्रो धूमविग्रहः | इन्द्रश्चारुणवर्णाभः शुक्लश्चेन्द्रजयस्तथा | रुद्रः प्रवालसदृशः पीतो रुद्रजयस्तथा | आपो गोक्षीरधवल आपवत्सो जपाद्युतिः | ईशानः क्षीरधवलः पर्जन्योऽञ्जनसन्निभः | जयन्तोऽञ्जनसङ्काशो महेन्द्रश्चामलद्युतिः | आदित्यो रक्तवर्णः स्यात् सत्यकश्चित्रवर्णकः | वृषो बन्धूकपुष्पाभः कुन्दाभश्चान्तरीक्षकः || उद्यद्दिनकराभोऽग्निः पूषा रक्ताब्जसन्निभः | वितथश्चेन्द्रचापाभो विद्युद्वर्णो गृहक्षतः || यमश्चाञ्जनसङ्काशो गन्धर्वः पद्मरागवत् | भृङ्गराजस्तु भृङ्गाभो मृगो जीमुतसन्निभः || निर्-ऋतिः पावकाभश्च पीतो दौवारिकः स्मृतः | सुग्रीवो नीलकण्ठाभश्चन्द्राभः पुष्पदन्तकः || वरुणः स्फटिकाभाङ्गो भृङ्गाभश्चासुरो मतः | शेषश्चोत्पलसङ्काशः पापयक्ष्मेन्द्रनीलवत् || वायुः कृष्णाभवर्णः स्यान्नागः शङ्केन्दुसन्निभः | मुख्यो मौक्तिकसङ्काशो भल्लाटः श्वेतपद्मवत् || सोमः स्फटिकसन्काशोऽर्गलो रक्तोत्पलद्युतिः | दितिः कुन्देन्दुधवला कपिला चादितिः स्मृता || चरकी शङ्खसदृशी विदारी पावकद्युतिः | पूतना हिमसन्काशा मेघाभा पिलपिच्छिका | तथा- सितो रक्तश्च पीतश्च कृष्णः स्कन्दादिका ग्रहाः || इति | (तत्र ब्रह्मणो बलिमन्त्रः) पायसौदनलाजैश्च युक्तं धूपप्रसूनकैः | अक्षतं तिलसंयुक्तं माषभक्तादिमण्डितम् | गृहाणेमं वलिं ब्रह्म्न् वास्तुदोषं प्रणाशय (१) || ३६ || (अर्यम्णः) गन्धादिशर्करापूपं पायसोपरि संस्थितम् | अर्यमन् वै गृहाणेमं सर्वदोषं प्रणाशय (२) || ३७ || (विवस्वतः) चन्दनाद्यर्चितं नाथ कर्पूरागुरुमण्डितम् | विवस्वन् वै गृहाणेमं सर्वदोषं प्रणाशय (३) || ३८ || (मित्रस्य) सगुडं पायसं नाथ पुष्पादिसुसमन्वितम् | गृहाणेमं बलिं हृद्यं मित्र शान्तिं प्रयच्छ मे (४) || ३९ || --------------------------------------------------------------------- अत्र तन्त्रान्तरवचने व्युत्क्रमेण निर्देशेऽपि पददेवतानां वर्णभेदा एभ्यो ज्ञातव्याः | तन्त्रान्तरे ब्रह्मणो वर्णो न निरूपितः, स तु सर्वमध्ये यजेत् सम्यग् ब्रह्माणं कमलोद्भवम् | हेमाभञ्च चतुर्वक्त्रं वेदाध्ययनशीलिनम् || १५ || इति तन्त्रराजत्रिंशपटलवचनादवगन्तव्यः | हयशीर्षपञ्चरात्रादौ बहिरारभ्य क्रमेण ब्रह्मान्तानां देवानां पूजनमभिहितम् | अत्र तु प्रथममेव मध्यचतुष्कस्थस्य ब्रह्मणस्ततः क्रमेण तत्तद्बहिर्देवानां पूजनमुपदिष्टमिति विशेषः | तन्त्रराजशारदातिलकादावप्येवमेव | (महीधरस्य) माषौदनं समांशञ्च गन्धादिक्षीरसंयुतम् | गृहाणेमं महीभृत् त्वं सर्वदोषं प्रणाशय (५) || ४० || (बाह्यदेवतानां बलिः) एवमन्तर्वलीन् दत्त्वाचान्येषामीशतो हरेत् | दक्षावर्तक्रमेणैव वलिः सामान्यभाषितः || ४१ || सर्वेषां खलु वास्तूनां विशेषः पदनिर्णयः || ४२ || (तत्रापस्य) क्षीरखण्डसमायुक्तं पुष्पादिभिः सुशोभितम् | गृहाणेमं बलिं हृद्यमाप शान्तिं प्रयच्छ मे (६) || ४३ || (आपवत्सस्य) दधीदं गुडसंमिश्रं गन्धादिस्रक्सुमण्डितम् | गृहाणेमं बलिं वत्स विघ्नमत्र प्रणाशय (७) || ४४ || --------------------------------------------------------------------- ४२ | एवमन्तर्देवतापञ्चकानां पूजनक्रमेणैव वलिर्विधेयः | आपादीनां बहिर्देवानां प्रागुक्तरीत्या केषाञ्चिदग्न्यादिक्रमेण, केषाञ्चन वा ईशादीनाम ईशानादिक्रमेणैव पूजनं विहितम् | वलिस्तु सर्वेषामेव ईशानादिक्रमेण प्रादक्षिण्येन कर्तव्य इत्येवाह अन्येषामीशतो हरेदित्यादिना | राघवभट्टेनापि महीधरान्तानाम् ईशानादिक्रमेण पूजनं बलिञ्चाभिधाय, एवमन्तर्वलिं दत्त्वा अन्येषां सर्वेषां यद्यप्यर्चा आग्नेयादिक्रमेण तथापीशानादिक्रमेण वलिं दद्याद् वचनानुरोधात् | वचनं यथा ईशादिदक्षिणावर्तो वलिः सामान्यभाषितः | सर्वेषां खलु वास्तूनां विशेषः पदनिर्णयः || इति | अनेन बाह्यदेवतानामीशानादिक्रमेणैव वलिरभिहितः | (सावित्रस्य) पुष्पादिकुशपानीयं कर्पूरागुरुवासितम् | सावित्र वै गृहाणेमं शान्तिमत्र प्रयच्छ मे (८) || ४५ || (सवितुः) पिष्टकं सगुडं नाथ रक्तगन्धादिशोभितम् | गृहाणेमं बलिं सूर्य विघ्नमत्र प्रणाशय (९) || ४६ || (इन्द्रस्य) सितमन्नं तथा पुष्पं कुङ्कुमादिसमन्वितम् | गृहाणेमं वलिं हृद्यं शक्रदेव नमोऽस्तु ते (१०) || ४७ || (इन्द्रजयस्य) ओदनं घृतसंयुक्तं वस्त्रगन्धादिमण्डितम् | गृहाणेमं वलिं हृद्यमिन्द्रजय नमोऽस्तु ते (११) || ४८ || (रुद्रस्य) पक्वापक्वमिदं मांसं वस्त्रपुष्पादिसंयुतम् | गृहाणेमं बलिं हृद्यं रुद्रदेव नमोऽस्तु ते (१२) || ४९ || (रुद्रजयस्य) हृन्मांसं सघृतं पक्वं गन्धपुष्पादिवासितम् | गृहाणेमं वलिं रुद्रजय स्वस्ति नमोऽस्तु ते (१३) || ५० || (विदार्याः) रक्तपुष्पं समांसं वै रक्तवस्त्रादिसंयुतम् | विदारि वै गृहाणेमं रक्षोविघ्नं विनाशय (१४) || ५१ || (पूतनायाः) पित्तरक्तास्थिसंयुक्तं रक्तगन्धादिमण्डितम् | गृहाणेमं पूतने त्वं रक्षोविघ्नं विनाशय (१५) || ५२ || (शर्वस्य) सघृतं माषभक्तञ्च गन्धवस्त्राद्यलङ्कृतम् | वलिं गृहाण सर्वेमं रक्षोविघ्नं विनाशय (१६) || ५३ || (स्कन्दस्य) मांसपुष्पादिसंयुक्तं माषभक्तोपरि स्थितम् | गृहाणेमं वलिं स्कन्द रक्षोविघ्नं विनाशय (१७) || ५४ || (अर्यम्णः) समांसं पिष्टकैर्युक्तं पक्वमांसोदकान्वितम् | अर्यमन् वै गृहाणेमं रक्षोविघ्नं विनाशय (१८) || ५५ || (जम्भकस्य) रक्तमांसौदनं मत्स्य-गन्धधूपसमन्वितम् | जम्भक त्वं गृहाणेमं रक्षोविघ्नं विनाशय (१९) || ५९ || (पिलिपिञ्जस्य) छागकर्णान्वितं मांसं वस्तगन्धादिसंयुतम् | पिलिपिञ्ज गृहाणेमं रक्षोविघ्नं प्रणाशय (२०) || ५७ || (चरक्याः) घृतेन साधितं मांसं वस्त्रगन्धादिसंयुतम् | चरकि वै गृहाणेमं रक्षोविघ्नं प्रणाशय (२१) || ५८ || (ईशानस्य) सघृतञ्चाक्षतान्नञ्च रक्तवस्त्राद्यलङ्कृतम् | गृहाणेमं वलिं त्वीश वास्तुदोषापहारकम् (२२) || ५९ || (पर्जन्यस्य) उत्पलं पायसैर्युक्तं रक्तवस्त्रादिसंयुतम् | गृहाणेमं वलिं हृद्यं देवराज नमोऽस्तु ते (२३) || ६० || (जयन्तस्य) पञ्चहस्तं सुपीतञ्च ध्वजं भक्तादिमण्डितम् | गृहाणेमं वलिं हृद्यं विष्णुसुत नमोऽस्तु ते (२४) || ६१ || (इन्द्रस्य) ओदनं घृतसंयुक्तं पञ्चरत्नादिमण्डितम् | गृहाणेमं वलिं हृद्यं देवराज नमोऽस्तु ते (२५) || ६२ || (सूर्यस्य) रक्तपुष्पयुतं भक्तं रक्तगन्धादिभिर्युतम् | गृहाणेमं वलिं हृद्यं भास्कर त्वं नमोऽस्तु ते (२६) || ६३ || (सत्यस्य) वितानं धूम्रवर्णाभं गन्धादिकसुशोभितम् | रक्तयुक्तं गृहाणेमं वलिं सत्य नमोऽस्तु ते (२७) || ६४ || (वृषस्य) इदन्तु मांसभक्तं वै गन्धपुष्पादिपूजितम् | गृहाणेमं वृष वलिं वास्तुदोषं प्रणाशय (२८) || ६५ || (अन्तरीक्षस्य) इदन्तु शाकुलं मांसं नैवेद्यादिसुसंयुतम् | गृहाणेमं वलिं हृद्यं व्योम शान्तिं प्रयच्छ मे (२९) || ६६ || (हुताशनस्य) सुवर्णं पिष्टकञ्चाथ वस्त्रगन्धादिभिर्युतम् | घृतान्वितं गृहाणेमं सप्तजिह्व नमोऽस्तु ते (३०) || ६७ || (पूष्णः) क्षीरं लाजादिसंयुक्तं रक्तपुष्पादिमण्डितम् | गृहाणेमं वलिं हृद्यं पूषदेव नमोऽस्तु ते (३१) || ६८ || (वितथस्य) दधिगन्धादिभिर्युक्तं पीतपुष्पैः समन्वितम् | वलिं वितथ गृह्णेमं विघ्नमत्र प्रणाशय (३२) || ६९ || (यमराजस्य) आरक्तं मधुसंप्लुतं वस्त्रादिपरिमण्डितम् | गृहाणेमं वलिं हृद्यं यमराज नमोऽस्तु ते (३३) || ७० || (गृहरक्षस्य) पक्वमांसौदनं चर्व्यं पीतवस्तादिमण्डितम् | प्रीतिकरं गृहाणेमं गृहरक्ष नमोऽस्तु ते (३४) || ७१ || (गन्धर्वस्य) नानागन्धसमायुक्तं रक्तधूपादिभिर्युतम् | बलिं गृहाण गन्धर्व सर्वदोषं प्रणाशय (३५) || ७२ || (भृङ्गराजस्य) इमान्तु शाकुनीं जिह्वां माषभक्तोपरि स्थिताम् | गृहाणेमं वलिं भृङ्गराज शान्तिं प्रयच्छ मे (३६) || ७३ || (मृगस्य) यवं घृततिलोपेतं गन्धपुष्पादिभिर्युतम् | गृहाणेमं वलिं हृद्यं मृगदेव नमोऽस्तु ते (३७) || ७४ || (निर्-ऋतेः) शर्करासंयुतं खण्डं रक्तगन्धादिमण्डितम् | प्रीतो वलिं गृहाणेमं सर्वदोषं प्रणाशय (३८) || ७५ || (दौवारिकस्य) चन्दनागुरुकाष्ठञ्च गन्धपुष्पादिभिर्युतम् | गृहाणेमं वलिं हृद्यं दौवारिक नमोऽस्तु ते (३९) || ७६ || (सुग्रीवस्य) इदन्तु पायसं नाथ गन्धपुष्पादिमण्डितम् | सुग्रीव वै गृहाणेमं वलिं शान्तिं प्रयच्छ मे (४०) || ७७ || (वरुणस्य) यवाग्राणि च गोदुग्धं भक्तोपरि सुशोभितम् | गृहाणेमं वलिं हृद्यं जलराज नमोऽस्तु ते (४१) || ७८ || (पुष्पदन्तस्य) कुशान्तःस्थं माषभक्तं घृतगन्धादिसंयुतम् | पुष्पदन्त गृहाणेमं सर्वदोषं प्रणाशय (४२) || ७९ || (असुरस्य) मधुना सहितं पिष्टं गन्धाद्यैरुपशोभितम् | वलिं गृहाणासुरेन्द्र सर्वदोषं प्रणाशय (४३) || ८० || (शेषस्य) घृतमन्नसमायुक्तं कर्परादिसमन्वितम् | गृहाणेमं वलिं शेष सर्वशान्तिं प्रयच्छ मे (४४) || ८१ || (रोगस्य) यवजं तण्डुलं नाथ गन्धपुष्पादिशोभितम् | गृहाणेमं वलिं रोग सर्वदोषं प्रणाशय (४५) || ८२ || (वायोः) सघृतं मण्डकञ्चेदमन्नाद्यैरुपशोभितम् | गृहाणेमं वलिं हृद्यं मृगवाह नमोऽस्तु ते (४६) || ८३ || (नागराजस्य) इदन्तु कृशरञ्चान्नं गन्धपुष्पादिमण्डिताम् | नागराज गृहाणेमं विघ्नमत्र प्रणाशय (४७) || ८४ || (मुख्यस्य) नारिकेलोदकं भक्तं पीतवस्त्रादिसंयुतम् | गृहाणेमं वलिं मुख्य वास्तुदोषं प्रणाशय (४८) || ८५ || (सोमस्य) ओदनं मधुना मिश्रं नानापूजोपशोभितम् | गृहाणेमं वलिं सोम सर्वदोषं प्रणाशय (४९) || ८६ || (भल्लाटस्य) ओदनं घृतसंमिश्रं गन्धपुष्पसमन्वितम् | गृहाणेमं वलिं हृद्यं भल्लाट त्वं नमोऽस्तु ते (५०) || ८७ || ---------------------------------------------- ८३ | मृगवाहो वायुस्तस्य सम्बुद्धिः | (अर्गलस्य) माषान्नन्तु घृताभ्यक्तं गन्धपुष्पादिमण्डितम् | गृहाणेमं वलिं हृद्यमर्गलाख्य नमोऽस्तु ते (५१) || ८८ || (अदितेः) पूलिकां मधुसंमिश्रां वस्त्रगन्धादिसंयुताम् | गृहाणेमं वलिं हृद्यं देवमातर्नमोऽस्तु ते (५२) || ८९ || (दितेः) क्षीरखण्डसमायुक्तं नानापूजोपशोभितम् | दैत्यमातर्गृहाणेमं सर्वदोषं प्रणाशय (५३) || ९० || (वलिदाने साधारणं क्र्मान्तरम्) अथवा पायसान्नैस्तु सर्वेषां वलिमाहरेत् | नामादौ प्रणवं दत्त्वा नमोऽन्तेन च मन्त्रवित् || ९१ || (उपसंहारः) अयं वास्तुवलिः प्रोक्तः सर्वविघ्नविनाशकः || ९२ || ---------------------------------------------- ८९ | पूलिका पिष्टकविशेषः, पूली इति वङ्गेषु यस्याः प्रसिद्धिः | ९१ | अथवेति | एतत्तु कल्पान्तरम् | पूर्वं दद्यादेभिर्वलीनथेत्यनेन प्रागुक्तवलिमन्त्रैर्वलिमन्त्रोक्तैरुपचारैश्च वलिरुपदिष्टः | तदलाभे तु पायसान्नैर्वलिः कर्तव्य इति | तदुक्तं गौतमीयतन्त्रे पन्चमपटले पायसैर्मधुरैः सर्वान् संयजेन्मधुरान्वितान् | तत्तद्द्रव्यैर्वा मतिमान् पूजयेद्दोषशान्तये || इति | अत्र कल्पे वलिमन्त्रं निरूपयति नामादाविति | नाम्न आदौ प्रणवः अन्ते च नम इति | एवञ्च नमःशब्दयोगान्नाम्नश्चतुर्थ्यन्ततापि लभ्यते, तेन-एषः पायसवलिः ओं ब्रह्मणे नमः इति वलिक्रमः | (तत्र तत्र वलेरननुष्ठाने दोषश्रवणात्तस्य कर्तव्यता) गृहादिकरणे यैस्तु नार्चितं वास्तुदैवतम् | तत्र शून्यं भवेत् सर्वं रक्षोविघ्नादिभिर्युतम् | तस्माद् वास्त्वर्चनं कार्यं सर्वसम्पदभीप्सुभिः || ९३ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ तृतीयः प्रकाशः || ३ || ---------------------------------------------- ९३ | अत्रादिपदेन मण्डपादीनां परिग्रहः | चतुर्थः प्रकाशः (मण्डपनिर्माणम्, तोरणध्वजपताकादिनिरूपणम्, अङ्कुरार्पणमङ्कुरपरीक्षा च) (मण्डपयोग्यदिनस्थानादिनिरूपणम्) अथ लग्ने शुभे स्थाने तुषाङ्गारविवजिते | निःशर्करे शल्यहीने तृणादिरहिते समे || १ || ---------------------------------------------- १ | पूर्वप्रकाशे वास्तुवलिप्रक्रियान्तमभिधाय प्रकाशेऽस्मिन् मण्डपनिर्माणक्रमे वाच्ये तदनुगुणं लग्नादिकं स्थानादिकञ्च निरूपयति अथेति | अथ वास्तुदेवतावलिसमापनानन्तरम् | शुभे लग्न इति | अत्र लग्न इति वारादीनामुपलक्षणम् | तदुक्तं शारदायां तृतीयपटले नक्षत्रराशिवाराणामनुकूले शुभेऽहनि | ततो भूमितले शुद्धे तुषाङ्गारविवजिते | पुण्याहं वाचयित्वा तु म्ण्डपं रचयेच्छुभम् || इति | राघवभट्टेनापि तद्व्याख्यानवसरे ज्योतिःशास्त्रसमुक्तप्रकारेण नक्षत्रवारराशीनां मध्ये साध्यानुकूले नक्षत्रे साध्यानुकूलराशौ अनुकूलवारे शुभेऽहनि ज्योतिःशास्त्रसमुक्तशुभतिथौ ततो मण्डपं रचयेत् इत्यभिहितम् | तदुक्तं राजमार्तण्डे आदित्यद्वयरोहिणीमृगशिरो हस्तो धनिष्ठोत्तरा पूषा विष्णुमघानुराधपवनैः शुद्धैः सुतारान्वितैः | सौम्यानां दिवसेषु पापरहिते योगे विरिक्ते तिथौ विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादिकार्यं शुभम् || इति | सर्वमन्यज्ज्योतिःशास्त्रादवगन्तव्यम् | शुभे स्थान इति | अनेन दीक्षाङ्गमण्डपयोग्यभूमिपरीक्षायाः कर्तव्यतोपदिश्यते, परीक्षामन्तरेण भूमेः शुभत्वाशुभत्वनिर्णयासम्भवात् | तन्मण्डपनिर्माणोपयोगिस्थाननिरूपणाय किञ्चिदुच्यते हयशीर्षपञ्चरात्रे आदिकाण्डे पञ्चमपटले एवं ज्ञात्वा विशेषेण ततो भूमिं परीक्षयेत् | लक्षणैर्देशिकश्रेष्ठो यथा तदधुनोच्यते || सुरभीणां रतिर्यत्र पुरुषैः सह सत्तम | राज्ञां पूर्वं गृहं यस्यामग्नीनां यज्वनां तथा || काश्मीरचन्दनामोदा कर्पूरागुरुगन्धिनी | कमलोत्पलगन्धा च जातीचम्पकगन्धिनी || पाटलामल्लिकागन्धा नागकेशरगन्धिनी | दधिक्षीराज्यगन्धा च मदिरासवगन्धिनी || सुगन्धिर्व्रीहिगन्धा च शुभद्रव्यस्वना च या | सर्वेषां वर्णिनां भूमिः सर्वसाधारणा मता || (१९-२४) इति | एवं वर्णनिर्विशेषेण प्रशस्तां भूमिं निरूप्य वर्जनीयभूमिरपि तत्रैव निरूपिता | यथा दुर्गन्धा दुःस्वना या च नानावर्णा च दुःपुरा | वृत्तार्द्धचन्द्रसदृशा विस्ताराद् द्विगुणायता || विकर्णा कर्णहीना च वक्रा सूचीमुखी तथा | द्विकर्णा सूप्रसदृशी गोमुखी च त्रिकोणिका | षडस्रा शूलसदृशी दन्तिपृष्ठोपमा च या | सरीसृपसमा या च दिङ्मूढा शकटाकृतिः | एवं प्रकारा या भूमिर्वर्या यत्नेन देशिकैः || (२५-२८) इति | पूर्वं सुरमीणां रतिर्त्रेत्यादिवचनैर्या प्रशस्ता भूमिरभिहिता, तस्या एव सुपद्मा भद्रिका पूर्णा धूम्राऽवेगिन्यथापरा | इत्यनेन सुपद्मा, भद्रा, पूर्णा, धूम्रा चेति चातुर्विध्यमुद्दिश्य तासां लक्षणानि निरूपितानि तत्रैव षष्ठपटले तत्र सुपद्मामाह- चन्दनागुरुकर्पूरगन्धा शुभस्वनाज्जुनैः | तिलकैर्नारिकेलैश्च बर्हिःकाशैश्च शोभिता | पद्मेन्दीवरसंयुक्ता सा सुपद्मेति विश्रुता || नदीसमुद्रायतनतीर्थपर्यन्तशोभिता | पुष्पवृक्षसमाकीर्णा क्षीरिवृक्षोपशोभिता || वनोद्यानलतागुल्मफुल्लस्तम्बसमावृता | यज्ञीयवृक्षसुक्षेत्रयुक्ता भद्रेति कीर्तिता || पूर्णामाह् वकुलशोकबहुला तथा प्लाक्षाम्रलोहितैः | माधवीवेष्टिता या च मुद्गनिष्पावकोद्रवैः || शूकधान्यैश्च पुन्नागैर्रिपार्श्वगता च या | तोयञ्च स्वल्पकं यस्यां पूर्णा सा परिकीर्तिता || धूम्रामाह विल्वार्कस्नुहिपीलूनां वनैर्या परितो वृता | सशर्करा च कठिना युक्ता कण्टकिभिर्द्रुमैः || गृध्रगोमायुकाकानां श्येनानां याऽकुला कुलैः | धूम्रेति कीर्तिता सा तु तां यत्नात् परिवर्जयेत् (१-९) || इति | एवञ्च प्रागुक्तासु चतसृषु भूमिषु सुपद्मा-भद्रा-पूर्णाख्यानां तिसृणामुपादेयत्वम्, अन्त्यायास्तु धूम्राया वर्जनीयत्वमित्युक्तं भवति | एतदर्थमेव धूम्राया आवेगिनीति विशेषणम् | आवेगिनी शर्करा-कण्टक-गृध्रादिकृतसम्भ्रमेत्यर्थः | एवं भूमिं निरूप्य तस्याः परीक्षणमाह तत्रैव षष्ठपटले ततो भूमिं परीक्षेत पूर्वोदक्प्लवनां शुभाम् | असङ्कटां तथाच्छन्दामल्पतोयां परिप्लुताम् || संपूर्यमाणे खाते तु त्थाधिकमृदं शुभाम् || कुसुम्भसदृशं वर्णं यस्यां न ग्लानिमृच्छति | न निर्वाति तथा दीपं तोयं शीघ्रं न जीर्यति || अत्र संपूर्यमाण इत्यादिना प्रतिपादितः क्रमो विशदीकृतो विश्वकर्मप्रकाशे प्रथमाध्याये निखनेद्धस्तमात्रन्तु पुनस्तेनैव पूरयेत् | पांशुनाधिकमध्योना श्रेष्ठा मध्याधमा स्मृता || इति | मयमते चतुर्थाध्यायेऽपि पूरिते तन्मृदा खाते समता मध्यमा मता | उत्तमा भूर्मृदाधिक्या हीना हीनमृदा मही || इति | कुसुम्भसदृशमित्यादिपरीक्षायाः क्रमस्तु विशदीकृतो हयशीर्षे सौरकाण्डे श्वभ्रे वा वर्णसदृशान्, कुसुमान् सन्निवेशयेत् | प्रदोषे पूर्ववत् सूर उद्यमे तान् निरीक्षयेत् | अम्लानं यस्य वर्णस्य तस्यासौ शुभदा भवेत् || इति | तदिदमत्रावधेयम् = श्वेतारुणा पीतकृष्णा विप्रादीनां प्रशस्यते | इति हयशीर्षपञ्चरात्रीयषष्ठपटलद्वादशश्लोकेन श्वेता ब्राह्मणानाम्, रक्ता क्षत्रियाणाम्, पीता वैश्यानाम्, कृष्णा शूद्राणां प्रशस्ताभूमिरिति निरूपितम्, एवञ्च श्वेतरक्तपीतकृष्णकुसुमानि प्रदोषकाले श्वभ्रे सन्निवेश्य प्रातर्यद्वर्णकुसुमस्य म्लानिर्न दृश्यते, तद्वर्णस्य सा भूमिः प्रशस्तेति | न निर्वाति तथा दीपमिति सामान्यतो यः परीक्षाक्रम उक्तस्तत्र विशेषमाह हयशीर्षे सौरकाण्डे श्वभ्रान्तःकुम्भवक्त्रेषु आमपात्रं निवेशयेत् | गव्येन हविषाऽपूर्य पूर्ववद् वत्तिकल्पना || पूर्वादिक्रमयोगेण ज्वलनं वीक्षयेत्ततः | यद्देशे भिद्यते पात्रं या च वर्तिर्विनश्यति || तस्य सा शस्यते नैव शस्यते यस्य दीप्यते | सर्व ज्वलति वै यत्र सर्वकामप्रदा तु सा || इति | तथाच श्वभ्रमेकं विधाय तत्र चतुर्दिक्षु चतुरः कुम्भान् संस्थाप्य तन्मुखेष्वेकैकमामपात्रं निधाय तत् पात्रं घृतेनापूर्य तत्र प्रत्येकं वर्तिं प्रज्वाल्य ज्वलनं वीक्षेत | प्राच्यां दीपशिखाया उज्ज्वलत्वे तत्र मण्डपादिनिर्माणं ब्राह्मणस्य प्रशस्तम्, दक्षिणादिषु दिक्षु तथात्वे यथाक्रमं क्ष्त्रियादेः, सर्वासां शिखानां समत्वे सर्वेषाम् | अत्र सर्वकामप्रदेति सर्वेषां कामप्रदेत्यर्थः | यत्र तु पात्रभेदो दीपशिखाविनाशा वा जायते सा भूमिस्तद्वर्णस्य न प्रशस्तेति फलितम् | तोयं शीघ्रं न जीर्यतीत्यस्य परीक्षाक्रमं स्फुटमाह तत्रैव प्रदोषे वारिणा गर्तं पूर्य सूर्योदये गुरुः | वीक्षेद् यत्नेन मतिमानुत्तमाधममध्यमाम् || तोये तिष्ठति श्रेष्ठा स्यात् सषङ्का मध्यमा भवेत् | शुष्का विस्फुटिता हीना वर्ज्या यत्नेन वै मही || इति पुण्याहं वाचयित्वा तु मण्डपं रचयेत् सुधीः | (मण्डपरिमाणनिरूपणार्थं हस्तस्वरूपम्) पद्महस्तेन विधिवत् पूर्वोक्तेन करेण वा || २ || (तत्र पद्महस्तस्वरूपम्) मानहस्तो यदि भवेद् वेदाङ्गुलसमन्वितः | स एव पद्महस्तः स्यादिति तन्त्रविदो विदुः || ३ || (मण्डपस्य परिमाणभेदाः) हस्तषोडशको वाऽपि मण्डपोऽर्ककरोऽपि वा | (मण्डपस्वरूपम्, स्थम्भानां संख्यापरिमाणस्थानानि च) चतुरस्र-चतुर्द्वार-वेदिकादिसमन्वितः || ४ || ---------------------------------------------- २ | हस्तषोडशको वा.पीत्यादि-वक्ष्यमाणमण्डपपरिमाणनिरूपणाय हस्तपरिमाणमाह-पद्मेति | पद्महस्तेन पूर्वोक्तेन चतुर्विंशत्यङ्गुलाढ्यमित्यादिना तृतीयप्रकाशेऽभिहितेन वा करेण मण्डपं रचयेदिति सम्बन्धः | ३ | तत्र किं पद्महस्तस्वरूपमित्याह-मानेति | कर्तुर्दक्षिणहस्तस्येत्यादिमानाङ्गुलपरिमाण-परिमितचतुर्विंशत्यङ्गुलात्मको मानहस्तः, स यदि चतुरङ्गुलसमन्वितो भवेत् तदा स पद्महस्त इति तन्त्रविदो विदुः | एतेन तान्त्रिकोपासनाङ्गमण्डपादिनिर्माणमुक्तलक्षणहस्त-परिमाणानुसारेणैव कर्तव्यमिति सूच्यते | ४ | मण्डपस्वरूपमाह हस्तेति | मण्डपः षोडशहस्तो द्वादशहस्तो वा | एतेन मण्डपस्योत्तममधमञ्च परिमाणं प्रदर्शितम् | तत्र षोडशहस्तो मण्डप उत्तमपरिमाणः, द्वादशहस्तोऽधमपरिमाण इति | अत्रापिशब्देन चतुर्दशहस्तात्मको मध्यमपरिमाणोऽपि मण्डपः समुच्चीयते | अत एव राघवभट्टेन स्वल्पो द्वादशहस्तोऽयं द्विद्विवृद्ध्या ततः क्रमात् | इति प्रतिष्ठासारसंग्रहवचनमभिधाय, एतेन चतुर्दशहस्तस्य मध्यमतोक्ता षोडशहस्तस्योत्तमता च | इत्यनेन द्वादशचतुर्दशषोडशहस्तानां मण्डपानां प्रथमपरिमाणतो द्विद्विवृद्द्या क्रमेणाधममध्यमोत्तमपरिमाणत्वमुपपादितम् | तथा तेनैवान्यत्रापीत्यभिधाय षोडशस्तम्भसंयुक्तश्चत्वारस्तेषु मध्यगाः | अष्टहस्तसमुच्छ्राया वेदिकापरितः स्थिताः || ५ || पञ्चहस्तप्रमाणास्त ऋजवो द्वादशाभितः | (स्तम्भनिखननक्रमः) तत्पञ्चमांशं निखनेन्मेदिन्यां देशिकोत्तमः || ६ || ---------------------------------------------- गृहस्येशानकोणे तु मण्डपं कारयेद् बुधः | द्वादशैरष्टषढस्तैः षोडशैर्वा समन्ततः || इत्युक्तम् | अत्राष्टषढस्तैश्चतुर्दशहस्तैरित्यर्थः | एवञ्च प्रकृतेऽपि षोडशहस्त उत्तमपरिमाणः द्वादशहस्तोऽधमपरिमाणः | अपिशब्देन समुच्चीयमानश्चतुर्दशहस्तो मध्यमपरिमाण इति त्रिविधो मण्डपः श्रीमत्पूर्णानन्दपरमहंसानामप्यभिमत इत्यवधेयम् | यत्तु शारदायां तृतीयपटले पञ्चभिः सप्तभिर्हस्तैर्नवभिर्वा मितान्तरम् | षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः || इत्यादिमण्डपलक्षणमुक्तं तेनपि प्रागुक्तपरिमाणत्रयमेव सूचितमाचार्यैः | तथाहि तत्र पञ्चभिः सप्तभिरिति समुच्चयेन द्वादशसंख्या लभ्यते एवं पञ्चभिर्नवभिरित्येतयोः समुच्चयेन चतुर्दशसंख्या लभ्यते | तथा सप्तभिर्नवभिरित्येतयोः समुच्चयेन षोडशसंख्यावगम्यते | ततश्च पञ्चभिः सप्तभिर्नवभिर्वा मितमन्त्ररं यस्येत्यर्थे श्रीमल्लक्ष्मणाचार्यमतेऽपि मण्डपानां प्रागुक्तरीत्याधममध्यमोत्तमपरिमाणत्वमुक्तं भवति | एतदभिप्रायेणैव राहवभट्टेन पञ्चभिः सप्तभिरिति समुच्चितम् तथा पञ्चभिर्नवभिरित्यन्वेति तथा सप्तभिर्नवभिरित्यन्वेतीति चोक्तम् | वेदिकादीत्यादिपदेन ध्वजादीनां परिग्रहः | द्वारवेदिकादिलक्षणन्त्वग्रे वक्ष्यते | ५ | षोडशेति | स मण्डपः षोडशस्तम्भसंयुक्तो भवतीत्यर्थः | तेषां स्तम्भानां स्थानविभागमाह चत्वर इत्यादिना | तेषु षोडशस्तम्भेषु मध्ये चत्वारो मध्यगाः मण्डपमध्यप्रदेशगा वेदिकायाश्चतुष्कोणेषु स्थितास्ते चाष्टहस्तसमुच्छ्राया भवन्ति | अष्टहस्तमौन्नत्यं चतुर्णां वेदिकाकोणस्थस्तम्भानामित्यर्थः | ६ | पञ्चेति | बहिर्द्वादशस्तम्भास्तु पञ्चहस्तप्रमाणा भवन्ति | ऋजव इति | ते षोडशस्तम्भा एव ऋजवः अवक्रा ग्राह्या इत्यर्थः | शारदायां तृतीयपटलेऽपि (बहिर्द्वादशस्तम्भस्थानं द्वारपरिमाण~च) द्वारस्य पार्श्वयोर्द्वौ द्वौ कोणे चत्वार एव च | हस्तद्वयप्रमाणेन द्वारं कुर्याद् विचक्षणः || ७ || ---------------------------------------------- .....................................चत्वारस्तेषु मध्यगाः | अष्टहस्तसमुच्छ्रायाः संस्थाप्या द्वादशाभितः | पञ्चहस्तप्रमाणास्ते विच्छिद्रा ऋजवः शुभाः || इति | अत्र मूले स्तम्भनिर्माणे विहितो वृक्षादिर्नोपदिष्ट इत्यन्यतः प्रदर्श्यते | तथाच राघवभट्टधृतपञ्चरात्रे- सारदारुभवान् स्तम्भान् दृढान् कुर्यादृजून् समान् | इति | विशिष्याह राघवभट्टधृतक्रियासारे यज्ञीयवृक्षो वेणुर्वा क्रमुकः स्तम्भकर्मणि | अन्ये विशुद्धवृक्षा वा भवेयुर्नान्यभूरुहाः || इति | स्तम्भे निषिद्धोऽपि वृक्ष उपदिष्टस्तत्रैव यथा गृहशल्यः स्वयं शुष्कः कुटिलश्च पुरातनः | असौम्यभूमिजनितः सन्त्याज्यः स्तम्भकर्मणि || इति | तत्र स्तम्भानां बाह्याभ्यन्तरभेदेन यदष्टहस्तपञ्चहस्तपरिमाणत्वमुक्तं तदुत्तमपरिमाणमण्डपविषयं मध्यमाधमयोस्तु तदनुसारेण परिमाणं निर्णेयम् | एतदभिप्रायेणैव राघवभट्टेनापि मध्यमाधमयोर्द्धादशस्तम्भप्रामाणं त्रैराशिकेनानेयम् इत्युक्तम् | अत्र बहिरन्तश्च स्तम्भन्यास आग्नेयादिक्रमेणैव कर्तव्यः | तथाच राघवभट्टधृतं वचनम् वेदिकोणेषु विन्यस्येत् स्तम्भान् वेदस्वरूउपकान् | आग्नेयादिक्रमेणैव ...................................... इति || तेन वेदिबहिर्द्वादशसम्भस्थापनमपि आग्नेयादिक्रमेणैवेति बोध्यम् | तत्पञ्चमांशमिति | तत्पञ्चमांशं तेषां प्रागुक्ततत्तत्परिमाणपरिमितानां स्तम्भानां पञ्चमांशमित्यर्थः | तथाच स्तम्भोच्छ्रायं पञ्चधा विभज्य पञ्चमांशं मेदिन्यां निखनेदिति राघवभट्टः | ७ | द्वादशाभित इत्युक्तम्, तस्यैव क्रमं दर्शयति द्वारस्येति | प्रतिदिशं द्वौ द्वाविति (स्थलान्मण्डपभूमेरुच्छ्रायः) स्थलादर्काङ्गुलोच्छ्रायं मण्डपस्थलमीरितम् | (मण्डपवेष्टनम्) नारिकेलदलैर्वंशैर्वेष्टयेद् द्वारपार्श्वतः || ८ || (द्वारनिर्णयः) समसूत्रं चतुर्द्वारं चतुस्तोरणभूषितम् | (दिग्भेदेन तोरणभेदाः) न्यग्रोधतोरणं पूर्वे याम्ये चौदुम्बरं मतम् || ९ || पश्चिमेऽश्वत्थसंभूतमुत्तरे प्लक्षतोरणम् | (प्रागुक्तन्यग्रोधादीनामभावे कर्तव्यम्) पूर्वे वा प्लक्षसंभूतं न्यग्रोधश्चोत्तरे तथा || १० || (तोरणस्तम्भानामुच्छ्रायपरिणाहौ) एतेषामेव वृक्षाणामभावे तु शमीद्रुमः | जम्बूखदिरसाराश्च शाला वा तोरणे स्मृताः || ११ || ---------------------------------------------- चतुर्दिक्षु अष्टौ स्तम्भा आग्नेयादिचतुष्कोणेषु चत्वार इति मिलित्वा द्वादश स्तम्भा भवन्तीत्यर्थः | हस्तद्वयेति | अत्र कनीयसि स्याद् द्विकरं चतुरङ्गुलवृद्धितः | मध्यमोत्तमयोर्द्वारम् ................................. || इति राघवभट्टधृतपाञ्चरात्रप्रमाणानुसारेण द्वारस्य द्विहस्तत्वमधमपरिमाणमण्डपे, मध्यमोत्तमयोस्तु चतुश्चतुरङ्गुलवृद्ध्या परिमाणान्तरत्वमवगम्यते | तदत्र विशेषाभावेऽपि प्रागुक्तपाञ्चरात्रवचनैकवाक्यतया हस्तद्वयप्रमाणेनेत्यस्याधमपरिमाणमण्डपद्वार- परत्वं मध्यमोत्तमयोस्तु चतुश्चतुरङ्गुलवृद्ध्या द्वारपरिमाणनिर्णयः कर्तव्यः | इत्येव विचक्षणपदेन सूचितमिति प्रतिभाति | ८ | स्थलादिति | स्थलान्मण्डपस्थलस्यौन्नत्यं द्वादशाङ्गुलमित्यर्थः | ९-११ | समसूत्रमित्यादि मण्डपं कुर्यादिति सम्बन्धः | तत्र दिग्भेदेन तोरण- व्यवस्थामाह न्यग्रोधेत्यादि | न्यग्रोधो वटवृक्षः | प्लक्षः पर्कटीवृक्षः | स्पष्टमन्यत् | कल्पान्तरमाह-पूर्वे वेति | कल्पद्वयमेवैतत् प्रदर्शितं वैदिकसर्वस्वधृतसोमशम्भुना प्लक्षमौडुम्बराश्वत्थवटं वै तोरणं न्यसेत् | पूर्वादितो विधातव्यो यद्वाद्यन्तविपर्ययः || इति | अत्राद्यन्तविपर्यय इत्यनेन पूर्वे वटतोरणमुत्तरे प्लक्षतोरणमिति श्रीतत्त्वचिन्तामण्युक्तः प्रथमः कल्पो दर्शितः | अन्यच्च वैदिकसर्वस्वधृतं वचनम् न्यसेन्न्यग्रोधमैन्द्र्यान्तु याम्यामौडुम्बरं तथा | वारुण्यां पिप्पलञ्चैव कौवेर्यां प्लक्षकं न्यसेत् || इति | शारदायां तृतीयपटले द्वारे द्वारे तोरणाः स्युः क्रमात् क्षीरिमहीरुहाम् | इत्येक एव कल्पोऽभिहितः | तत्र क्षीरिमहीरुहामित्यस्य व्याख्याने राघवभट्टेन क्षीरिमहीरुहामिति वटोडुम्बराश्वत्थप्लक्षाणाम् न्यग्रोधोदुम्बराश्वत्थप्लक्षाः क्षीरिमहीरुहाः | इति परिभाषणादित्युक्तम् | एतेषामिति | एतेषां प्रागुक्तन्यग्रोधादीनामभावे शमीद्रुम एव सर्वत्र तोरणे विनियोज्य इत्यर्थः | अत्र सर्वेषामिति बहुवचननिर्देशेन प्रागुक्तानां चतुर्णामेवालाभे शमीद्रुमविनियोगव्यवस्था सूचिता | एकस्यापि लाभे तेनैव सर्वे तोरणाः कर्तव्या इति बोध्यम् | अत एव राघवभट्टधृतसोमशम्भुना- अलाभादेकमेवेषां सर्वाशासु निवेशयेत् | इत्युक्तम् | अत्र सोमशम्भुवचने एकमेवेति सावधारणनिर्देशेन द्वयोस्त्रयाणां वा लाभेऽपि तेषां विनियोगमकृत्वा एकतमेनैव सर्वे तोरणा निष्पादनीया इति सूचितम् | राघवभट्टधृतसिद्धान्तशेखरे एकमेषामलाभे स्यात्तदभावे शमीद्रुमः | जम्बूखदिरसाराश्च तालो वा तोरणे स्मृताः | इत्यनेन शमीद्रुमस्याप्यलाभे क्रमेण जम्बूखदिरादीनां तोरणे विनियोग उक्तः | तोरणलक्षणं विशिष्याह हयशीर्षपञ्चरात्रे आदिकाण्डे अश्वत्थोडुम्बरश्चैव न्यग्रोधः प्लक्ष एव च | तोरणार्थे च कथिताः पूर्वादिषु यथाक्रमम् || एकहस्तं न्यसेद् भूमौ चतुर्हस्तं तथोच्छ्रयेत् | तिर्यक्फलकमानं स्यात् स्तम्भनामर्द्धमानतः | श्री-१६ (तोरणस्तम्भानामुच्छ्रायपरिणाहौ) स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैः पृथक् पृथक् | दशाङ्गुलप्रमाणेन तत्परिणाह ईरितः || १२ || ---------------------------------------------- द्विहस्तान्तरमन्योऽन्यं तोरणं संप्रकल्पयेत् | शुक्लवस्त्रयुगाच्छन्नान् दर्भपिञ्जलसंयुतान् || पुष्पमालापरिक्षिप्तांस्तोरणान् परिकल्पयेत् | वृत्तं वा चतुरस्रं वा द्विषट्काष्टाङ्गुलन्तु वा || षट्-चतुर्द्व्यङ्गुलं कार्यं तोरणं निर्व्रणं समम् | तोरणस्तम्भमूलेषु कलसान् मङ्गलाङ्कुरान् || प्रदद्यादुपरिष्टात्तु दद्याच्चक्रं सुदर्शनम् | कलसं वर्द्धमानं वा वसुभागेन कल्पयेत् || स्योना पृथीति मन्त्रेण स्थाप्याः पूज्याश्च तोरणाः || इति | अत्र हयशीर्षवचने दद्याच्चक्रं सुदर्शनमिति वैष्णवमण्डपपरम् | तत एषां तोरणानां नामान्यपि निर्दिष्टानि सुशोभनं भवेत् पूर्वे सुभद्रं दक्षिणे तथा | सुकर्मा पश्चिमे भागे सुहोत्रन्तु तथोत्तरे || इति | अत्र सुशोभन-सुभद्र-सुकर्म-सुहोत्राख्या देवताः पूर्वादितोरणचतुष्करूपेण यज्ञविघ्ननिवारणार्थमवस्थिता इति तत्तद्देवताधिष्ठितत्त्वात् तोरणानामपि तत्तन्नाम्ना व्यपदेशः | तदुक्तं राघवभट्टधृतमहाकपिलपञ्चरात्रे देवास्तोरणरूपेण संस्थिता यज्ञमण्डपे | विघ्नविध्वंसनार्थाय रक्षार्थं त्वध्वरस्य च || इति | अत एव देवानाममीषां तोरणेषु पूजनमुपदिष्टं तत्रैव सुशोभनं तं पूर्वस्यामृग्वेदादिसुमन्त्रितम् | ईषे त्वेति च मन्त्रेण सुभद्राख्यन्तु दक्षिणे || सुकर्माख्यन्तु वारुण्यां सामवेदादिकेन तु | शन्नो देवीति मन्त्रेण सुहोत्रं तूत्तरे न्यसेत् || इति | १२ | तोरणस्तम्भानामुच्छ्रायं निर्दिशति स्तम्भेति | सप्तहस्तैरित्युत्तमपरिमाणमण्डपतोरणविषयम्, पृथक्पृथगित्यनेन मध्यमाधमपरिमाणमण्डपयोस्तोरणस्तम्भानां (तोरणस्तम्भशिरसि फलकन्यासस्तत्र शूलारोपणञ्च) तिर्यक्फलकमानं स्याद्दैर्घ्ये सार्द्धकरद्वयम् | शूलान्याकल्पयेन्मध्ये तोरणे हस्तमानतः || १३ || ---------------------------------------------- क्रमेण षट्-पञ्चहस्तरूपभिन्नपरिमाणता सूचिता | स्फुटमाह वास्तुशास्त्रे पञ्चहस्तप्रमाणास्ते विस्तारेण द्विहस्तकाः | षड्ढस्ता मध्यमाः प्रोक्ताः सप्तहस्तास्तथोत्तमाः || इति | अत्र विस्तारेण द्विहस्तका इति तिर्यक्फलकमानमुक्तम् | एवञ्च षोडशहस्तात्मकोत्तमपरिमाणमण्डपे सप्तहस्तप्रमाणाः, चतुर्दशहस्तात्मकमध्यमपरिमाणमण्डपे षड्ढस्तप्रमाणाः, द्वादशहस्तात्मकाधमपरिमाणमण्डपे तु तोरणस्तम्भाः पञ्चहस्तप्रमाणा भवन्तीति बोध्यम् | स्तम्भानां व्यासमाह दशेति | परीणाहो विस्तारः | वृत्तं वा चतुरस्रं वा द्विषट्काष्टान्गुलन्तु वा | इत्यादिप्रागुल्लिखितहयशीर्षवचनेन स्तम्भानां वृत्तत्वं चरतुस्रत्वं वेति कल्पद्वयं द्वादशाङ्गुलादिविस्तारपरिमाणभेदाश्च दृश्यन्ते | १३ | तिर्यगिति | तोरणस्तम्भयोरुपरि देहलीरूपं यत् तिर्यक्फलकं तस्य परिमाणं दैर्घ्ये दीर्घतायां सार्द्धकरद्वयं स्यादित्यर्थः | एतच्च परिमाणं स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैरित्युक्तोत्तमपरिमाणतोरणफलकविषयम् | मध्यमाधमपरिमाणतोरणफलकपरिमाणन्तु क्रमेण षट्षडङ्गुलन्यूनतया कल्पनीयम् | एतदर्थप्रतिपादनायैव तिर्यक्फलकमानं स्यात् स्तम्भानामर्द्धमानतः | इति शारदातिलकतृतीयपटलवचनव्याख्याने राघवभट्टेन इदं तिर्यक्फलकमानमुत्तमस्यैव | अन्ययोः षट्षडङ्गुलन्यूनता ज्ञेया | इत्युक्तम् | एवञ्च उत्तमपरिमाणतोरणे सार्द्धकरद्वयम्, मध्यमपरिमाणे ततः षड्ङ्गुलन्यूनम्, अधमपरिमाणेऽङ्गुले ततोऽपि चतुरङ्गुलन्यूनतया करद्वयमात्रं फलकं कल्पनीयमिति पर्यवस्यति | यत्तु हयशीर्षपञ्चरात्रे आदिकाण्डे चतुर्विंशपटले पञ्चहस्तपरिमाणतोरणस्तम्भं प्रकृत्य सरलं मध्यशृङ्गं स्यात् किञ्चिद्वक्रञ्च पक्षयोः | उभयं तत्समाख्यातं द्व्यङ्गुलं रोपयेत्तदा || १४ || ---------------------------------------------- एकहस्तं न्यसेद् भूमौ चतुर्हस्तं तथोच्छ्रयेत् | तिर्यक्फलकमानं स्यात् स्तम्भानामर्द्धमानतः | इति स्तम्भार्द्धपरिमाणत्वं फलकस्याभिहितं तन्निखननावशिष्टचतुर्हस्तार्द्धमानपरमित्यवधेयम् | ततश्च तत्रापि पञ्चहस्तस्तम्भकल्पे फलकस्य द्विहस्तत्वमेव पर्यवस्यतीति सर्वं निर्विवादम् | शूलानीति | मध्ये निरुक्तफलकमध्यप्रदेशे शूलानि आकल्पयेन्निवेशयेदित्यर्थः | अयं शूलरोपः प्रतितोरणमेकैकशः कर्तव्यः | तदुक्तं राघवभट्टेन शारदातिलकटीकायाम् शूलानीति बहुवचनं चतुःसंख्यापरम्, तोरण इत्येकवचनं जातौ, तेन प्रतितोरणमेकमेकं शूलं कार्यम् इति | अत्र तोरणं घटयित्वैव मूर्द्ध्नि शूलत्रयं न्यसेत् || अग्रयोर्मध्यभागे च पट्टिकायां त्रिशूलकान् || इति राघवभट्टधृत-क्रियासार-मन्त्रमुक्तावलीवचनैकदेशाभ्यां प्रतितोरणफलकं शूलत्रयनिवेशनमित्यपि कल्पान्तरमस्ति | अत्र परिणाहः षड्भागः एतच्च मण्डपत्रये समानमिति राघवभट्टाः | १४ | शूलस्वरूपमाह सरलमिति | शूलास्त्रिशृङ्गा भवन्ति, तत्र मध्यशृङ्गं सरलमवक्रं पक्षयोः मध्यशृङ्गपार्वयोः उभयं तच्छृङ्गं किञ्चिद् वक्रं स्यात् | तेषाञ्च शूलानां द्व्यङ्गुलं रोपयेत् तोरणफलक इति शेषः | तदुक्तं राघवभट्टेन मध्यकीलस्तीक्ष्नाग्र ऋजुस्तमभितो द्वौ तीक्ष्नाग्रौ वक्रौ मध्यकीलदेशगतवक्रभागाविति | राघवभट्टधृतपिङ्गलामतेऽपि शूलेन चिह्निताः कार्या द्वारदेशाः स्वमस्तके | ऋजु वै मध्यशृङ्गं स्यात् किञ्चिद्वक्रन्तु पक्षयोः | उभयं तत् समाख्यातं द्व्यङ्गुलं रोपयेत्तदा || इति | अत्र यस्यां दिशि यद् यत्तोरणकाष्ठं विहितं शूलान्यपि तत्र तत्र तेन तेनैव कर्तव्यानीत्यवधेयम्, एवमेव राघवभट्टाः | (अत्र वैष्णवानां विशेषः) वैष्णवेषु च तन्त्रेषु विशेषोऽत्र निगद्यते || १५ || मस्तके द्वादशांशेन शङ्ख-चक्र-गदाम्बुजम् | प्रागादिक्रमयोगेण न्यसेत्तेषां स्वदारुजम् || १६ || गन्धपुष्पाम्बरोपेतान् कुम्भांस्तेषु विनिक्षिपेत् | ध्रुवं धरां वाक्पतिञ्च विघ्नेशं तत्र पूजयेत् | मण्डपस्य च कोणस्थ-कलसेषु क्रमादमी || १७ || गलितोदकसंपूर्णा वाम्रपत्रोपशोभितौ | स्वर्णादिकलसौ द्वौ द्वौ द्वारे द्वारे निवेशयेत् || १८ || अमृतो दुर्जयश्चैव सिद्धार्थो मङ्गलस्तथा | गन्धपुष्पादिभिर्मन्त्रैः क्रमादेतान् प्रपूजयेत् || १९ || पूज्या द्वारस्थकुम्भेषु शक्राद्यास्तन्मनूतमैः | दिक्षु ध्वजान् निबध्नीयाल्लोकपालसमप्रभान् || २० || ---------------------------------------------- १५-१९ | एवं शूलन्यासे शैवागमप्रक्रियामभिधाय वैष्णवागमप्रक्रियामाह वैष्णवेष्विति | अत्र प्रागुक्तशूलस्थाने पूर्वादिक्रमेण फलकानां मस्तके स्वदारुजं तोरणदारुमयं शङ्ख-चक्र-गदाम्बुजं न्यसेदित्यर्थः | तथाच पूर्वतोरणे शङ्खम्, दक्षिणतोरणे चक्रम्, पश्चिमतोरणे गदाम्, उत्तरतोरणे च पद्मं न्यसेदिति | द्वादशांशेनेति तोरणस्तम्भद्वादशांशेनेत्यर्थः | अत्र वैष्णवानामयं विशेषः शारदायां नोक्तः | राघवभट्टेन तु वैष्णवे द्वादशांशेन शङ्खचक्रगदाम्बुजम् | प्रागादिक्रमयोगेण न्यसेत्तेषां स्वदारुजम् || इति वास्तुशास्त्रीयवचनमुल्लिख्य एषां स्वदारुजत्वोक्तेः शैवे एतत्स्थानीयानां शूलानां न्यासादेव स्वदारुजत्वं प्राप्तमित्यभिहितम् | तच्छैवे वैष्णवे च तोरणे दारुमयाण्येव शूलशङ्खादीनि कर्तव्यानीति निष्कर्षः | २०-२२ | ध्वजारोपणमाह दिक्ष्वित्यादिना सुलक्षणानित्यन्तेन | पूर्वादिदिक्षु पञ्चहस्ता ध्वजाः कार्या व्यायामेन द्विहस्तकाः | सप्तहस्ता ध्वजा वा स्युर्विस्ताराद्द्वादशाङ्गुलाः || २१ || दण्डश्च वंशजस्तेषां दशहस्तप्रमाणतः | दिग्गजान् विलिखेन्मन्त्री ध्वजमध्ये सुलक्षणान् || २२ || ---------------------------------------------- मण्डपतोरणयोर्मध्यभागे क्रमेण लोकपालसमप्रभान् अष्टौ ध्वजान् निबध्नीयादित्यर्थः | तदुक्तं वैदिकसर्वस्वधृतहयशीर्षे बाह्यदेशे तोरणस्य मण्डपाभ्यन्तरे तथा | अष्टौ ध्वजाः स्थापनीयाः पूर्वादिक्रमयोगतः || इति | लोकपालसमप्रभनिति लोकपालानां वर्णानाह शारदायां चतुर्थपटले पीतो रक्तोऽसितो धूम्रः शुक्लो धूम्रः सितावुभौ | गौरोऽरुणः क्रमादेते वर्णतः परिकीर्तिताः || इति | एते लोकपाला इत्यर्थः | अत्र वचने गौरोऽरुण इत्येताभ्यामनन्तस्य ब्रह्मणश्च वर्णो निरूपितः, सोऽत्राप्राकरणिकः | अत्र तु इन्द्रादीनामीशानान्तानां वर्णाः सितावुभावित्यन्तेन निरूपणीयाः | तथा च पूर्वस्यां ध्वजः पीतः, आग्नेययां रक्तः, याम्यां कृष्णः, नैर्-ऋत्यां धूम्रः, वारुण्यां शुक्लः, वायव्यां धूम्रः, कौवेर्यामैशान्याञ्च श्वेत इति फलितम् | हयशीर्षपञ्चरात्रे तु अरुणोऽग्निनिभश्चैव कृष्णः शुक्लोऽथ पीतकः | रक्तवर्णस्तथा श्वेतः सर्ववर्णस्तथैव च || इति वचनेन दिक्पालेषु केषाञ्चित् पूर्वतोऽन्यादृशा वर्णा निरूपिताः | तदेवं स्थिते मतभेदे सत्सम्प्रदायानुसारेणैकतरः पक्ष आश्रयणीय इति हृदयम् | २१-२२ | ध्वजानां परिमाणमाह पञ्चेति | व्यायामेन विस्तारेण | परिमाणान्तरमाह सप्तेति | ध्वजदण्डपरिमाणमाह दण्डश्चेति | दशहस्तपरिमितो वंशजो ध्वजदण्डः कर्तव्यः इत्यर्थः | राघवभट्टेनापि द्विपञ्चहस्तैर्दण्डैस्ते वंशजैः संयुता मताः | इति वचनमेतदनुकूलमाहृतम् | तत्र द्विपञ्चहस्तैरिति दशहस्तैरित्यर्थः | पूजाहोमादिकं सर्वंयागाद्यं यत् कृतं बुधैः || २३ || रक्षणेन विना यद्वत् क्षेत्रं नश्यति क्षेत्रिणाम् | ध्वजं विना देवगृहं तथा नश्यति सर्वदा || २४ || ततः कार्याः पताका हि ध्वजेनैव समन्विताः | सप्तहस्ताः पताकाः स्युः सप्तमांशेन विस्तृताः || २५ || ---------------------------------------------- दिग्गजानिति | दिग्गजानाहामरसिंहः ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः | पुष्पदन्तः सार्वभौमः सुप्रतीकाश्च दिग्गजाः || इति | तथाच पूर्वाद्यष्टध्वजेषु क्रमेणैरावतादीनष्टौ सुलक्षणान् दिग्गजान् लिखेदित्यर्थः | राघवभट्टेन तु मातङ्गवस्तहरिणसिंहमत्स्यैनवाजिनः | वृषभञ्च यथान्यायं ध्वजमध्ये क्रमाल्लिखेत् | अथवा दिग्गजानष्टावैरावतपुरःसरान् || इति क्रियासारवचनेन मातङ्गादीन् दिग्गजान् वा ध्वजमध्ये लिखेदिति कल्पद्वयमुपदर्शितम् | २३ | पूजेति | अत्र पूजाहोमादिकं यत् कृतं तत्रैव पूजादिस्थले दिक्षु ध्वजान् निबध्नीयादिति पूर्वेण सम्भन्धः | २४ | ध्वजारोपणस्याकरणे यो दोषस्तत्र दृष्टान्तमाह-रक्षणेति | २५ | पताकारोपणमाह तत इति | ततो ध्वजारोपणानन्तरम् | ध्वजेनैव समन्विताः समनुगताः पताकाः कार्याः | एतेन ध्वजे यादृशो दण्डादीनां वर्णानाञ्च विधिः प्रदर्शितः पताकारोपणेऽपि स एव विधिरादरणीय इति सूचितम् | अत एव (मण्डपशोभासम्पादनक्रमः) चूतपल्लवमालाढ्यं वितानैरुपशोभितम् | विचित्रवस्त्रसंयुक्तं चित्रकुम्भसमन्वितम् || २६ || कलसैर्घटिकाभिश्च दर्पणैश्चामरैस्तथा | फलैर्नानाविधैर्भोज्यैरङ्कूरैर्धूपदीपकैः | भूषितं मण्डपं कुर्याद्रत्नपुष्पसमुज्ज्वलम् || २७ || ---------------------------------------------- सप्तहस्ताः पताकाः स्युरित्यादिना पताकावस्त्रपरिमाणमात्रमभिहितम् | अत्र परिमाणेऽपि विशेषमाह हयशीर्षे आदिकाण्डे सप्तहस्तास्ततो दीर्घा विस्ताराद्द्वादशाङ्गुलाः | द्विपञ्चहस्तदण्डेषु पताकास्तु निवेशयेत् || इति | पताकानां वर्णभेदान् विशिष्याह वैदिकसर्वस्वधृतकापिले अथातो लक्षणं वक्ष्ये पताकानां यथाविधि | पताकां पीतवर्णाभामैन्द्र्यां दिशि विनिक्षिपेत् || आग्न्येययां रक्तवर्णाभां कृष्णाभां याम्यगोचरे | नैर्-ऋत्यां नीलवर्णाभां वारुण्यां वै सितान्तथा || वायव्यां धूम्रवर्णाभां कौवेर्यां पीतवर्णिकाम् | पताकां सर्ववर्णाभामैशान्यां दिशि विनसेत् | आनन्त्यां श्वेतवर्णाभां ब्राह्म्यां रक्तञ्च विन्यसेत् || इति | अत्र कपिलवचने दशानामेव वर्णनिर्णयाद्दशलोकपालदेवताका दश पताकाः स्थापनीया इति स्फुटं प्रतीयते | वैदिकसर्वस्वधृतभविष्यपुराणे तु तोरणफलकचतुष्टये एकहस्तद्विहस्तान्यतरपरिमाणपताकाचतुष्टयस्थापनमप्याह | यथा एकहस्तप्रमाणास्तास्तोरणार्था द्विहस्तिकाः | नानावर्णविचित्रास्ता न्यसेद् वै प्रतितोरणे || इति | अत्र तोरणपदेन तोरणैकदेशतिर्यक्काष्ठमुच्यत इति वैदिकसर्वस्वम् | (वेदीलक्षणम्) तत्त्रिभागमिते क्षेते मध्यभागे तु वेदिकाम् | हस्तमात्रं तदुत्सेधं चतुरस्रं समं तथा || २८ || इष्टकाभिर्मृदा वापि वेदी दर्पणसन्निभा || २९ || ---------------------------------------------- २८ | राघवभट्टधृतक्रियासारे वक्रपार्श्वक्लिन्नमध्या परुषा दृगशोभना | मानहीनाधिका या सा कर्तुः कर्मविनाशिनी | इत्यनेन वक्रपार्श्वत्वादिदोषदुष्टवेदिकाया अनिष्टफलकत्वश्रवणादिष्टफलसाधनानुकूलवेदिकानिर्माणमाह-तदिति | तस्य मण्डपस्य त्रिभागस्तृतीयो भागस्तन्मिते क्षेते मध्यभागे वेदिकां कुर्यादित्यर्थः | तृतीयो भागो दिक्संस्थोऽपि भवितुमर्हति तन्निरासायाह मध्यभाग इति | एवञ्च मण्डपसूत्रं त्रिगुणीकृत्य पूर्वतः पश्चिमतो दक्षिणत उत्तरतश्चैकमेकमंशं परित्यज्य अवशिष्टे मध्यभागे वेदिका-निर्माणमनेनोपदिश्यते | तदुत्सेधं तस्या वेदिकाया उच्छ्रायं हस्तमात्रं चतुरस्रं चतुष्कोणं समञ्च कुर्यात्, न तु उत्सेधस्य तारतम्यं कर्तव्यमित्यर्थः | २९ | इष्टकाभिरिति प्रथमः कल्पस्तदभावे मृदा वा दर्पणसन्निभा दन्तुरत्वादिदोषहीना वेदी कर्तव्येत्यर्थः | तदुक्तं राघवभट्टधृतक्रियासारे त्रिभागं मण्डपं कृत्वा मध्यभागस्तु वेदिका | हस्तमानं तदुत्सेधं चतुरस्रं समं यथा || पक्वाभिर्वाऽप्यपक्वाभिरिष्टकाभिर्दृढं यथा | कर्तव्या वेदिका श्रेष्ठा तदभावे मृदाऽपि वा | अवक्रपार्श्वा सुस्निग्धा दर्पणोदरसन्निभा || इति | तन्त्रराजे एकोनत्रिंशपटलेऽपि मण्डपलक्षणानन्तरं ... ... ... तत्त्रैभागप्रमाणतः | विदध्यान्मध्यतो वेदीं करमात्रसमुन्नताम् | दर्पणादरसङ्काशमध्याम् ............................... | इति वेदिलक्षणमुक्तम् | (अङ्कुरार्पणम्) प्रतिष्ठायाञ्च दीक्षायां स्थापने चोत्सवे तथा | संप्रोक्षणे च शान्त्यर्थं विवाहे मौञ्जिबन्धने || ३० || नववेश्मप्रवेशे च तथाभिषेककर्मणि | सर्वलक्षणकार्येषु विदध्यादङ्कुरार्पणम् || ३१ || (अङ्कुरार्पणकालः) प्रतिष्ठादिदिनात् पूर्वं नवमे सप्तमे दिने | पञ्चमे वा तृतीये वा सद्यो वा चाङ्कुरार्पणम् || ३२ || ---------------------------------------------- ३०-३१ | अथ कर्मणः शुभाशुभपरीक्षार्थमङ्कुरार्पणे वक्तव्ये प्रथमं तस्य विषयानाह-प्रतिष्ठायामित्यादिना | प्रतिष्ठायां तडागादीनाम्, स्थापने देवादीनाम्, उत्सवे दैवतयात्रोत्सवे, संप्रोक्षणे अभिषेकादौ, शान्त्यर्थं शान्तिकयागादिषु, मौञजवघने उपनयने, अभिषेकर्मणि राज्ञामभिषेके, सर्वलक्षणकार्येषु सर्वेषु शुभकर्मसु च अङ्कुरार्पणं विदध्याद् वक्ष्यमाणक्रमेणेति शेषः | शारदायां तृतीयपटलेऽपि दीक्षायामभिषेकेषु नववेश्मप्रवेशने | उत्सवेषु च सम्पत्तौ विदध्यादङ्कुरार्पणम् || इति | ३२ | प्रतिष्ठादित्यादिपदेन प्रागुक्तानां दीक्षास्थापनोत्सवादीनां परिग्रहः | प्रकृते तु दीक्षाया एवाभिधास्यमानत्वात् निरुक्तदीक्षादिनतः पूर्वं नवमे सप्तमे पञ्चमे तृतीये वा दिवसे सद्यो वा अङ्कुरार्पणं कर्तव्यमित्यर्थः | एषु च कल्पपञ्चकेषु पूर्वपूर्वासम्भवे परः परः कल्पो ग्राह्यः | तत्र प्रथमकल्पे दीक्षादिनं दशमं यथा भवति तथाऽङ्कुरार्पणं कर्तव्यमित्येवाह पूर्वमित्यनेन | शारदायां तृतीयपटलेऽपि - प्रागेव दीक्षादिवसात् सप्तभिर्विधिवद्दिनैः | इत्यत्र दीक्षादिवसात् प्रागित्यनेन दीक्षादिवसस्याष्टमत्वमभिहितम् | तद्व्याख्यानेऽपि राघवभट्टेन एतेन दीक्षादिनमष्टमं यथा भवति तथा कर्तव्यमित्युक्तम् | ततश्च दीक्षादिनपूर्वदिनतो नवमे वा सप्तमे वेत्येवंक्रमेणाङ्कुरार्पणदिवसा निरूपणीयाः | इत्युक्तम् | (अङ्कुरार्पणे शालानिर्माणम्) मण्डपस्योत्तरे भागे शालां पूर्वापरायताम् | दशहस्तसुविस्तारां पञ्चहस्तसुविस्तृताम् | गूढां कुर्यात्ततस्तस्यां मण्डलं रचयेत् सुधीः || ३३ || (मण्डलनिर्माणक्रमः) पञ्चहस्तप्रमाणानि पञ्च सूत्राणि पातयेत् | पूर्वापरायतान्येषामन्तरं द्वादशाङ्गुलम् || ३४ || दक्षिणोत्तरसूत्राणि तद्वदेकादशाऽर्पयेत् | पदानि तत्र जायन्ते चत्वारिंशत् प्रमार्जयेत् || ३५ || ---------------------------------------------- ३३ | अङ्कुरार्पणकर्माङ्गभूतशालानिर्माणमाह-मण्डपस्येति | मण्डपस्य पूर्वममिहितस्य उत्तरे भागे पूर्वापरायतां दागहस्तसुविस्तारां दैर्घ्येण दशहस्ताम्, पञ्चहस्तसुविस्तृताम् आयामेन पञ्चहसपरिमिताम्, मूढां कटादिभिरावृतां वातप्रवेशायोग्यामित्यथः, शालां कुर्यात् | राघवभट्टेन शारदातिलकतृतीयपटलटीकायाम् मण्डपस्योत्तरे भागे शालां पूर्वापरायताम् | गूढां कुर्यात्ततस्तस्यां मण्डपं रचयेत् सुधीः || इति वचनमुल्लिख्य तद्व्याख्यानावसरे दीर्घचतुरस्ररूपां गूढां परितः कटादिपरिवृतां दक्षिणैकद्वारवतीं निवाताञ्च कुर्यादित्युक्तम् | तत्र मण्डलनिर्माणमाह तत इति | ३४-३५ | अङ्कुरमण्डलनिर्माणपरिपाटीमाह पञ्चहस्तेत्यादिना सम्प्रदायविधानत इत्यन्तेन | पूर्वापरायतानि पञ्चहस्तप्रमाणानि द्वादशाङ्गुलान्तरितानि पञ्च सूत्राणि पातयेत् | एवं पूर्वापरायतसूत्रपातनान्तरं दक्षिणोत्तरायतान्येकादश सूत्राणि पातयेत् | तद्वदिति द्वादशाङ्गुलान्तरितानीत्यर्थः | एवं द्वादशाङ्गुलान्तरितैकादशसूत्रपातेन पूर्वापरायताः पञ्च हस्ताः संगृहीताः स्युः | पदानीति | एवं पूर्वापरायतदक्षिणोत्तरायतसूत्रपातेन तत्र मण्डले चत्वारिंशत् पदानि भवन्ति | प्रमार्जयेदित्युत्तरत्राभिसम्भध्यते | एवञ्चायं क्रमः पर्यवस्यति प्रागुक्तशालाइस्तारमध्यभागे पञ्चहस्तप्रमाणं पूर्वपश्चिमायतमेकं (?) सूत्रं दत्त्वा तद्दक्षिणोत्तरभागयोर्द्वादशाङ्गुलान्तरिते (तत्र पदविभागः) पङ्क्त्या वीथीश्चतस्रोन्तश्चतुष्कोभयपार्श्वयोः | वीथ्यौ द्वे च चतुःकोष्ठत्रयमेवावशिष्यते || ३६ || (रजसां न्यासः) पदानि रञ्जयेत् तानि श्वेतपीतारुणासितैः || ३७ || ईशानादिक्रमेणैव रजोभिः श्यामलेन च | वीथीरापूरयेन्मन्त्री सम्प्रदायविधानतः || ३८ || ---------------------------------------------- द्वे द्वे सूत्रे पातयेत् ततस्तत्सूत्रव्यतिभेदीनि दक्षिणोत्तरायतान्येकादश सूत्राणि पातयेदिति | राघवभट्टधृतप्रयोगसारे तु प्रसार्यास्फोटयेत् सूत्रं यथा याम्योत्तरायतम् | पञ्चहस्तप्रमाणेन द्वे द्वे पार्श्वे च पातयेत् || तद्वत् पूर्वोक्तमानेन द्वादशद्वादशाङ्गुले | प्राक् प्रयक् च समं पश्चात् सूत्राण्येकादश क्र्मात् | पातयेत्तासु रेखासु पूर्वसूत्रान्तरान्तरम् || इति | अत्र याम्योत्तरायताः पञ्च रेखाः पूर्वपश्चिमायताश्चैकादशेति मूलोक्तक्रमाद्रेखापाते विशेषो दृश्यते | तदेवमत्र रेखापाते विशेषदर्शनात् स्वस्वसम्प्रदायानुसारेणैकतरं मतमाश्रयणीयमिति सिद्धन्तः | अत एव सम्प्रदायविधानत इति वक्ष्यति | ३६ | तेषु पदेषु वीथ्यादिनिर्माणमाह पङ्क्त्येति | पङ्क्त्या चतस्रो वीथीः प्रमार्जयेत् इति पूर्वेणान्वयः | अन्तरिति वक्ष्यमाणत्वादेता वहिर्वीथ्य इत्यवधेयम् | तथाच पूर्वे चतुःकोष्ठामेकां वीथीम्, दक्षिणेऽष्टकोष्ठामपराम्, पश्चिमे चतुःकोष्ठामन्याम्, उत्तरे चाष्टकोष्थामितरां कूर्वीतेत्युक्तं भवति | अथान्तर्वीथिद्वयमाह अन्तरिति | अन्तश्चतुष्काणां चतुष्कत्रयस्येत्यर्थः, उभयपार्श्वयोर्द्वे वीथ्यौ द्विद्विकोष्ठरूपे मार्जयेदित्यर्थः | एवं क्र्ते फलितमाह चतुःकोष्ठत्रयमेवावशिष्यत इति | ३७-३८ | अथान्तश्चतुष्कत्रयस्य रजसाऽपूरणमाह-पदानीति | ईशानादिक्रमेणैव तानि पदानि अन्तःप्रतिचतुष्कस्थचतुश्चतुःपदानि क्रमेण श्वेतपीतारुणासितै रजोभिः आपूरयेदित्यर्थः | एवञ्च प्रतिचतुष्कम् ईशानकोष्ठं श्वेतम्, आग्नेयं पीतम्, नैर्-ऋतं रक्तम्, वायव्यञ्च कृष्णम् इत्युक्तं भवति | शारदायां तृतीयपटले पदानि रञ्जयेत्तानि श्वेतपीतारुणासितैः | रजोभिः श्यामलेनाथ वीथीरापूरयेत्ततः || इति वचनेन पदानां रजोभिः पूरणमात्रमभिहितम् न तु रजोन्यासस्य क्रमोऽभिहित इति | एतद्व्याख्याने राघवभट्टेन पीतारक्तसितासितं प्रतिपदं वह्न्यादिशर्वान्तकम् | इति प्रपञ्चसारवचनैकदेशमुलिख्य वह्न्यादिक्रमेण पीतादिरजसां न्यासः प्रमाणीकृतः | एतन्मते आग्नेयपदं पीतम्, नै-ऋतपदं रक्तम्, वायव्यपदं श्वेतम्, ऐशानपदञ्च कृष्णमित्यवगम्यते | न च, प्रसार्यास्फालयेत् सूत्रमित्यादिप्रागुक्तप्रयोगसारवचनप्राप्त- याभ्योत्तरायतपञ्चरेखापातकल्पे वह्न्यादिक्रमेण पीतादिवर्णानां न्यासः कल्प्यतां, श्रीतत्त्वचिन्तामणौ पूर्वापरायतपञ्चरेखापातकल्पे ईशानादिक्रमेण पीतादिरजसां न्यासस्य विशिष्याभिधानासत्रैव ईशानादिक्रमोऽस्त्विति वाच्यम्, पीतारक्तसितासितमित्यादिप्रागुक्तप्रपञ्चसारवचनैकदेशस्य याम्योदीच्यसमायतं प्रणिगदन्त्यन्येऽपि तन्मन्त्रिणः | इति परपादपर्यालोचनया रेखापतस्य द्विविधेऽपि कल्पे श्रीमदाचार्यपादैर्वह्न्यादिक्रमेणैव रजोन्यासभिधानात् | तस्मात् प्रागुक्तश्रीतत्त्वच्न्तामणि- प्रपन्चसारवचनपर्यालोचनया सम्प्रदायानुसारेणीभयविधेऽपि मण्डले ईशानादिक्रमता वा वह्न्यादिक्रमतो वा पीतादिरजसां न्यासः कर्तव्य इत्युभयसम्प्रदायज्ञापनार्थमेव मूले सम्प्रदायविधानत इत्युक्तमिति सर्वमवदातम् | श्यामलेन चेति | श्यामलवर्णेन वीथीः बहिश्चतुर्दिक्संस्था अन्तश्च पूर्वापरसंस्था द्विद्विपदा अप्पुरयेदित्यर्थः | हयशीर्षपञ्चरात्रे तु- पञ्चहस्तप्रमाणानि दश सूत्राणि पातयेत् | नवधा भेदिते क्षेत्र एकाशीतिपदं भवेत् || वीथ्यौ मध्ये द्वे च षट्कं मार्जयेत् कोणपार्श्वयोः | शोभार्थं रचयेन्मध्ये पद्मं नवभिरेव च || (तत्राङ्करार्पणपात्राणि) पात्राणि त्रिविधान्याहुरङ्कुरार्पणकर्मणि | पालिकाः पञ्चमुख्यश्च शरावाश्च चतुःक्रमात् | प्रोक्ताः स्युः सर्वतन्त्रज्ञैर्हरिब्रह्मशिवात्मकाः || ३९ || (तत्र पालिका) पालिकावक्त्रविस्तारः षोडशाङ्गुल उच्यते | भवेत् कण्ठविलञ्चास्यास्तदष्टाङ्गुलविस्तृतम् || ४० || ---------------------------------------------- पदानि रञ्जयेत् पश्चाच् श्वेतपीतारुणासितैः | रजोभिः श्यामलेनाथ वीथीरापूरयेत्ततः || इत्यनेनैकाशीतिपदात्मकमण्डलमभिहितम् | एवञ्चायमप्यपरः सम्प्रदाय इत्यवधेयम् | ३९ | अथाङ्कुरपात्राण्युपदिशति पात्राणीति | पालिकाः पञ्चमुख्यः शरावाश्चेति त्रिविधानि पात्राणि अङ्कुरार्पणकर्मणि विहितान्याहुरिति सम्बन्धः | तत्र पालिकादीनामर्थाः प्रदर्शिता राघवभट्टेन स्थूलान्युच्चानि शरावाण्येन पालिकाशब्देनोच्यन्ते | पालिका एव किञ्चिन्निचाः पञ्चमुखयुक्ताः पञ्चमुख्य उच्यन्ते | शरावाः प्रसिद्धः इति | एतत्समानानुपूर्वीकशारदातिलकवचनव्याख्याने सर्वतन्त्रज्ञैरित्यनेन पञ्चदेवतादीक्षादिकर्मसु पात्रभेदो नास्तीति राघवभट्टाः | चतुःक्रमादित्यनेन मधचतुष्कत्रये प्रतिचतुष्कं चत्वारि चत्वारि पालिकादीनि स्थापनीयानित्युक्तम् | स्थापनञ्चेदं पश्चिमादिक्रमेणेति स्वयमेव वक्ष्यति | हरिब्रह्मशिवात्मका इति पालिका हरिरूपाः, पञ्चमुख्यो ब्रह्मरूपाः, शरावाश्च शिवरूपा इत्यर्थः, एतेनैतेषु पात्रेषु क्रमेण हरिब्रह्मशिवाः पूजनीया इत्युक्तम् | तदुक्तं वैदिकसर्वस्वधृतकापिले वैष्णवी पालिका ज्ञेया ब्राह्मी तु घटिकोच्यते | शाङ्करन्तु शरावं स्यात् त्रयमेतत् त्रिदैवतम् || इति ४०-४१ | इदानीं क्रमप्राप्तं पालिकालक्षणमाह-पालिकेति | पालिका शराव- पादपीठस्य विस्तारः षडङ्गुल उदीरितः | चतुरङ्गुल उत्सेधस्तत्सन्धिश्चाङ्गुलं भवेत् | तत्सन्धिश्च भवेद् द्वौ वा पादपीठार्द्धमेव च || ४१ || (पञ्चमुखी) भवेत् पञ्चमुखी चैव घटिका सर्वकामदा | चतुरङ्गुलविस्ताराण्याहुर्वक्त्राणि पञ्च वै || ४२ || चत्वारि च चतुर्दिक्षु ऊर्द्ध्वमेकं यथाविधि | घटिकाऽयामविस्तारो द्वादशाङ्गुल उच्यते || ४३ || आचार्याः कथयन्त्येके षोडशाङ्गुलमेव वा || ४४ || ---------------------------------------------- विशेषः, तस्य मुखस्य विस्तारण् षोडशाङ्गुलः | कण्ठस्थविलस्य विस्तारोऽष्टाङ्गुलः | पादपीठस्य अधःप्रदेशस्य विस्तारः षडङ्गुल इति | उत्सेधश्चतुरङ्गुलः | तत्सन्धिरिति | तस्य पादपीठस्य सन्धिः शरावपादपीठयोः संयोगस्थलमित्यर्त्थः | इदं सन्धिपरिमाणं द्व्यङ्गुलं वा त्र्यङ्गुअं वापि भवितुमर्हति इत्येवाह तत्सन्धिश्चेत्यादिना | अत्र पादपीठस्यात्सेधार्द्धेन द्व्यङ्गुलम्, विस्तारार्द्धेन त्र्यङ्गुलं वेत्यवधेयम् | ४२-४४ | पञ्चमुखीलक्षणमाह भवेदिति | अस्याः पञ्चमुख्याः पञ्च मुखानि तानि च सर्वाण्येव चतुश्चतुरङ्गुलविस्ताराणि + तेषाञ्च मुखानां स्थानमाह चत्वारीति | चतुर्दिक्षु चत्वारि मध्ये चैकमिति पञ्च | अस्या घटिकेति नामान्तरम् | घटिकैव पञ्चमुखयुक्ता पञ्चमुखीत्यर्थः | अत एव घटिकायामविस्तार इत्यादिना पञ्चमुख्या एवायामविस्तारौ प्रतिपादितौ | घटिकाया आयामो दैर्घ्यम् औन्नत्यमित्यर्थः, विस्तारो व्यासश्च द्वादशाङ्गुलपरिमाणः | न च विस्तार इत्येकवचनाद् आयामस्य विस्तार इति षष्ठीसमास इति वाच्यं वचनान्तरेणौन्नत्यस्याप्रतिपादनात्, आयामविस्तराभ्यान्तु घटिका द्वादशाङ्गुला | इति हयशीर्षपञ्चरात्रीयसङ्कर्षकाण्डवचनसंवादाच्च आयामविस्तारयोरुभयोरेव द्वादशाङ्गुलपरिमाणत्वप्रतिपादनात् | तस्मादायामेन सहितो विस्तार इत्येवार्थः (शरावः) द्वादशाङ्गुलविस्तारं शरावस्य मुखं स्मृतम् | चतुरङ्गुलविस्तारमधस्ता * न्मूलमुच्यते || ४५ || (पालिकादीनां परिमाणे विशेषः) यथासम्भवमानं वा केनापीत्यभिधीयते || ४६ || ---------------------------------------------- सम्यक् | आचार्या इति केचिदाचार्या घटिकाया विस्ताराऽयामौ षोडशाङ्गुलाविति वदन्तीत्यर्थः | ४५ | क्रमप्राप्तं शरावस्वरूपमाह द्वादशेति | शरावस्य मुखं द्वादशाङ्गुलपरिमाणं मूलं चतुरङ्गुलमिति | एषामुच्छ्राय उपदिष्ठः शारदायां तृतीयपटले पात्राणि त्रिविधान्याहुरङ्कुरार्पणकर्मणि | पालिकाः पञ्चमुख्यश्च शरावाश्च चतुःक्रमात् || प्रोक्ताः स्युः सर्वतन्त्रैशर्हरि-ब्रह्म-शिवात्मकाः | एषामुच्छ्राय उन्नेयः षोडश-द्वादशाष्टभिः || इति | एवञ्च पालिकाया उच्छ्रायः षोडशाङ्गुलः, पञ्चमुख्या द्वादशाङ्गुलः शरावस्याष्टाङ्गुल इति | ४६ | यथासम्भवमिति | प्रागुक्तानां पालिकादीनां प्रागुक्ततत्तत्परिमाणसम्पादनासम्भवे यथासम्भवं पप्रिमाणं कर्तव्यमित्यर्थः | तदुक्तं राघवभट्टधृतसिद्धान्तशेखरे यथासम्भवमानं वा पालिकादि समाचरेत् || इति | हयशीर्षपञ्चरात्रे सङ्कर्षकाण्डेऽङ्कुरपात्राण्येवमभिहितानि | यथा पात्रं त्रिविधमुद्दिष्टं मङ्गलाङ्कुरकर्मणि | शरावो घटिका पाली तेषां लक्षणमुच्यते || द्वादशाङ्गुलविस्तारं शरावस्य मुखं भवेत् | षोडशाङ्गुलकस्यापि मूलं स्याच्चतुरङ्गुलम् || पञ्चवक्त्रा घटी ज्ञेया सर्वकामफलप्रदा | ऊर्द्ध्वमेकं भवेद्वक्त्रं शेषान् दिक्षु प्रकल्पयेत् || (पालिकादीनामुपादानानि) सुवर्णरूप्यताम्रैर्वा मृदा वा रचयेत् सुधीः | (पात्रन्यासक्रमः) त्रिगुणीकृतसूत्रेण शुभान्यावेष्टयेत् त्रिधा || ४७ || प्रक्षाल्य देशिकस्तेषु पदेष्वाहितशालिषु | सगन्धदर्भकूर्चेषु पश्चिमादि निवेशयेत् || ४८ || ---------------------------------------------- चतुरङ्गुलमात्राणि मुखानि परिकल्पयेत् | आयामविस्तराभ्यान्तु घटिका द्वादशाङ्गुला || षोडशाङ्गुलमात्रा वा घटिकाऽयामविस्तरा | पालिकाविस्तराः प्रोक्ताः षोडशाङ्गुलसम्मिताः || स्मृतं वक्त्रं तथा चास्या अर्द्धमात्रं सुसंवृतम् | षडङ्गुलमधोभागे तावदेव तु विस्तृतम् || तन्मानं पादपीठन्तु चतुरङ्गुलमुच्छ्रितम् | तत्सन्धिश्चाङ्गुली ज्ञेय उन्नाहस्त्र्यङ्गुली भवेत् || अत्र चतुरङ्गुलमुच्छ्रितं तत्सन्धिश्चाङ्गुलो ज्ञेयः इत्युक्त्या चतुरङ्गुलोच्छ्रितस्य पादपीठस्यैकाङ्गुलसन्धौ कृते पादपीठस्योच्छ्रायस्त्र्यङ्गुल इति हृदयम् | सुवर्णेति | सुवर्णेनेति प्रथमः कल्पः, तदसम्भवे रौप्येण वा ताम्रेण वा मृत्तिकया वा पात्राणि रचयेद् इति क्रमेणोत्तरोत्तरोपादानानामपक्र्ष इति प्रतिपादितम् | सुधीरित्यनेन च पूर्वपूर्वसम्भवे क्वचिदप्युत्तरोत्तरोपादानानामादानं न कर्तव्यमिति सूचितम् | तथाच राघवभट्टधृतवचनम् सम्भवे कनकरूप्यताम्रता मार्तिकान्यभिनवान्यथवा स्युः | इति | ४७-४८ | त्रिगुणीकृतेति | तानि च शुभानि कृष्णवर्ण-व्रणादिरहितानीत्यर्थः | पात्राणि प्रक्षाल्य त्रिगुणीकृतसूत्रेण त्रिधा वेष्टयेत् | न चादौ वेष्टनं पश्चात् प्रक्षालनमिति वाच्यम्, राघवभट्टेन पूर्वं प्रक्षालनं पश्चात्तन्तुवेष्टनमित्यनेन तन्तुवेष्टनात् पूर्वमेव प्रक्षालनाभिधानात् | ततश्च आहितशालिषु धान्ययुक्तेषु पदेषु प्रागुक्ताङ्कुरमण्डलान्तर्वर्तिद्वादशपदेषु गन्ध-दर्भकूर्चयुक्तेषु पश्चिमादिक्रमेण पात्राणि निवेशयेदित्यर्थः, दर्भकूर्चलक्षणन्तु-सप्तविंशतिदर्भाणां वेण्या ग्रन्थिविभूषितमित्यादिना स्वयमेव पञ्चमप्रकाशे वक्ष्यते | करीषवालुकामृद्भिस्तानि पात्राणि पूरयेत् | प्रोक्तेषु तेषु पात्रेषु हरिब्रह्मशिवान् यजेत् || ४९ || ---------------------------------------------- एतदुक्तं भवति प्रागुक्तद्वादशपदेषु प्रथमं धान्यानि गन्धदर्भकूर्चानि च निधाय पश्चिमचतुष्के एकैकशः पालिकाचतुष्कम्, मध्यमकोष्ठचतुष्के पञ्चमुखीचतुष्कम्, पूर्वकोष्ठचतुष्के शरावचतुष्कं निवेशयेदिति | अत्र प्रतिचतुष्कं पालिकादीनां न्यास आग्नेयादिक्रमेण | तदुक्तं प्राणतोषणीधृतप्रयोगसारे एवं कृत्वा साधकस्तु तत्र पात्राणि विन्यसेत् | वह्न्यादीशानपर्यन्तं चतुष्केषु पृथक् पृथक् || इति | ४९ | तेषां पात्राणामापूरणमाह-करीषेति | करीषं शुष्कगोमयं, वालुकामृदः प्रसिद्धः | अनेन प्रतिपात्रं प्रथमं करीषं तदुपरि वालुका, तदुपरि च मृद इत्यनया रीत्या पूरणमुपदिश्यते | तदुक्तं हयशीर्षपञ्चरात्रे आदिकाण्डे करीषबालुकामृद्भिः पूरयेदुत्तरोत्तरम् | इति | राघवभट्टधृतप्रयोगसारेऽपि मृद्बालुकाकरीषैश्चोर्द्ध्वतः पात्राणि पूरयेत् | इति | राघवभट्टेनापि एतरुत्तरोत्तरं सर्वाण्यपि पात्राण् पूरयेदित्युक्तम् | एतदपि पात्रस्थापनवदाग्नेयादिक्रमेणैव कर्तव्यम् | प्रोक्तेष्विति पश्चिमपात्रचतुष्के हरिम्, मध्यमचतुष्के ब्रह्माणम्, पूर्वचतुष्के च शिवं यजेदित्यर्थः | अत्र मृत्तिकाहरणे विशेषमाह राघवभट्टधृतसिद्धन्तशेखरे गन्धादिभिश्च कुद्दालं पूजयित्वा दिनान्तरे | गीतनृत्यसमायुक्तं गजवाजिसमन्वितम् || गुर्वादयो रथारूढा गजारूढास्तथाऽपरे | गत्वा तीरं तडागस्य नद्याः पुष्पवनस्य वा || तत्र शुद्धं भुवो भागं दर्भैः संमृज्य चास्त्रतः | अभ्युक्ष्य चार्घ्यातोयेन तत्तन्मन्त्रमनुस्मरन् || हृदा भूमिं समावाह्य गन्धपुष्पैः समर्चयेत् | कुद्दालीमस्त्रमन्त्रेण खात्वा भूमिमथो मृदम् || प्. १३९) (प्रागुक्तकर्मणां दिवैव कर्तव्यत्वम्) एतत् कर्म दिवाकाले कुर्याद्रात्रौ न बुद्धिमान् || ५० || (बीजारोपणस्य रात्रिकर्तव्यत्वम्) बीजारोपणकार्यन्तु निशायां तन्त्रवित्तमैः | बीजानामधिपो यस्मान्नित्यं कुमुदबान्धवः || ५१ || (बीजनिर्वपणम्) जलबीजेन बीजानि दुग्धैः प्रक्षाल्य मन्त्रवित् | मूलमन्त्राभिजप्तानि पञ्चघोषपुरःसरम् || ५२ || आशीर्वाग्भिद्विजातीनां मङ्गलाचारपूर्वकम् | निर्वपेत्तेषु पात्रेषु पाङ्मुखो वाप्युदङ्मुखः || ५३ || ---------------------------------------------- गृहीत्वा वामदेवेन पूरयेत् कांस्यपात्रके | हृदा मृदञ्च संमृज्य वस्त्रेणाच्छाद्य धारयेत् || पुरं वा नगरं वापि सर्वमङ्ग्लनिस्वनैः | गुरुं प्रदक्षिणं कृत्वा मण्डपं त्वानयेत्ततः || इति | ५० | एतदिति | एतदङ्कुरार्पणाङ्गमण्डलादि-हरिहरशिवपूजान्तं कर्म दिवैव कुर्यान्न रात्रावित्यर्थः | ५१ | बीजारोपणकर्मणो निशायां कर्तव्यत्वमाह बीजेति | अत्र कारणमाह बीजानामिति | एवञ्च चन्द्रस्यैव निशाया अधीश्वरत्वेन तदधिपतिकानां बीजानां तत्रैव वपनं शुभाय कल्पत इत्याशयः | ५२-५३ | बीजवपनमाह-जलेति | जलबीजेन वमिति वरुणबीजेन | प्रक्षल्येति वक्ष्यमाणानि बीजानीति शेषः | मूलमन्त्रैः देयतत्तद्देवता-तत्तन्मन्त्रैरभिजप्तानि | जपश्चाष्टोत्तरशतमष्टोत्तरसहस्रं वा | संख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु | इति राघवभट्टधृतमहाकपिलपञ्चरात्रवचनात् | पञ्चघोषपुरःसरमिति | पञ्चघोषास्तु (वपनीयानि बीजानि) शालीश्यामाढकीमुद्गनिष्पावतिलसर्षपाः | कुलत्थ-कङ्गु-माषाश्च बीजान्यङ्कुरकर्मणि || ५४ || (तेषु स्कन्दादिदशदेवतापूजा) स्कन्दं कङ्गौ च निष्पावे वायुमग्निं कुलत्थके | आढक्यां निरृतिं सोमं मुद्गे वैवस्वतं तिले || ५५ || प्रजापतिं शालिबीजे चानन्तं सर्षपेऽर्चयेत् | श्यामायामच्चयेदिन्द्रं माषे तु वरुणं यजेत् || ५६ || सोमं संपूजयेन्नित्यमधिवासदिनावधि || ५७ || ---------------------------------------------- पटह-कांस्य-मृदङ्ग-मुखवाद्य-शङ्खा इति राघवभट्टः | मङ्गलेति, मङ्गलाचारास्तु हुलहुलध्वनिप्रभृतयः | निर्वपेदिति | प्रान्मुख उदङ्मुखो वा तेषु पात्रेषु पालिकादिषु बीजानि निर्वपेदित्यर्थः | तदुक्तं राघवभट्टधृतसिद्धान्तशेखरे बीजमुख्येन मूलेन प्राङ्मुखो वाप्युदङ्मुखः | वापयेत् सर्वबीजानि पालिकादिष्वनुक्रमात् | बीजानामधिपः सोमस्तस्माद्रात्रौ तु निर्वपेत् || इति | ५४ | शालीति | शालयः हंमन्तिकधान्यानि, श्यामाकः शामा इति वङ्गेषु प्रसिद्धं धान्यम् | आढकी अडहर इति वङ्गेषु प्रसिद्धो द्विदलविशेषः | निष्पावा राजमाषाः | कङ्गुः का उनी, का अन् इति च यस्य वङ्गेषु प्रसिद्धिः | ५५-५६ | एतेषु दशसु बीजेषु स्कन्ददीनां वरुणान्तानां दशदेवतानां क्रमेण पूजनमुपदिशति स्कन्दमित्यादिना वरुणं यजेदित्यन्तेन | ५७ | सोममिति | नित्यमिति अङ्कुरार्पणादिवसात् प्रभृत्यधिवासदिनपर्यन्तं सोममर्चयेदित्यर्थः | तदुक्तं राघवभट्टधृतसिद्धन्तशेखरे सोमं संपूजयेन्नित्यमधिवासदिनावधि | अधिवासदिने प्राप्ते सोममुद्वासयेद् गुरुः || इति | (बलिविधानम्) हरिद्राद्भिः समभ्युक्ष्य वस्त्रैराछाद्य देशिकः | बलिं त्रिविधपात्राणां दिक्षु पूर्वादितः क्षिपेत् | प्रणवाद्यैर्नमोऽन्तैश्च रात्रौ रात्रीशनामभिः || ५८ || (सप्तानां रात्रीणामधिपतयः) भूतानि पितरो यक्षा नागा ब्रह्मा शिवो हरिः | सप्तानामपि रात्रीणां देवताः समुदाहृताः || ५९ || ---------------------------------------------- ५८ | हरिद्राद्भिरिति | हरिद्राद्भिः हरिद्राचूर्णमिश्रितजलैः समभ्युक्ष्य बीजानीति शेषः | तदुक्तं राघवभट्टधृतप्रयोगसारे त्रियम्बकाय शर्वाय शङ्कराय शिवाय च | सर्वलोकप्रधानाय शाश्वताय नमो नमः || विकीर्यानेन मन्त्रेण हरिद्राचूर्णमिश्रितम् | तोयं प्रवर्षयेत्तेषु सिञ्चेत्तावेर्दिनं प्रति || अत्र दिनं प्रतीति प्रतिदिनमित्यर्थः | वस्त्रेरिति | नूतनवस्त्रेराच्छाद्य | अत्र वस्त्रेरिति बहुवचनेन वस्त्राणां त्रिसंख्याकत्वं सूचितम् | तथा च प्रत्येकचतुष्टयमेकैकेनाच्छाद्य इत्यर्थः | एतदेव देशिक इत्यनेन सूचितम् | बलिमिति | त्रिविधपात्राणां प्रागुक्तपालिकापञ्चसुखीशरावाणाम्, बलिं वक्ष्यमाणभूतादीनामित्यर्थः | पूर्वादित इति पात्रन्यासम्य पश्चिमादित्वेऽपि बलिं पूर्वादिक्रमेणैव कुर्यादित्यर्थः | प्रण्वाद्येरिति | प्रणवाद्येर्नवाऽन्तेश्च (?) मन्त्रं रात्रीशानां भूतानि पितरावित्यादिवक्ष्यमाणलक्षणानां नामभिर्वलिं क्षिपेर्वृति (?) सम्बन्धः | ततश्च एष बलिः ओं भूतेभ्यो नमः इत्यादयो बलिक्रमः | ५९ | रात्रीशनामभिरित्युक्तम्, के ते रात्रीशा इत्याकाङ्क्ष्यामाह भूतानीति | एवञ्च भूतानि प्रथमाया रात्रर्देवताः, पितरो द्वितीयाया रात्रेरित्येवंक्रमेण सप्त देवताः सप्तरात्रेश्वरा इति | तासां वलिरपि प्रथमाया रात्रेः सप्तमीं रात्रिं यावत् क्रमेण विधेय इत्यर्थः | (बलिद्रव्यभेदाः) भूतेभ्यः स्युर्लाजतिलहरिद्रादधिशक्तवः | सानाः पितृभ्यः सतिलास्तण्डुलाः परिकीर्तिताः || ६० || करम्भलाजा यक्षेभ्यो नारिकेलोदकान्विताः | शक्तुः पिष्टञ्च नागेभ्यो ब्रह्मणे पङ्कजाक्षतम् || ६१ || सापूपमन्नं शर्वाय विष्णवे स्याद् गुडौदनम् || ६२ || (तत्र विशेषः) नवरात्रविधौ मन्त्री दुग्धान्नं कृशरं पुनः || ६३ || प्रदद्याद् विष्णवे चैवं सर्वेभ्यः पायसैश्च वा | (दिक्पालबलिः) ततश्च लोकपालेभ्यः पायसान्नैर्बलिं हरेत् || ६४ || ---------------------------------------------- ६०-६१ | अथ देवताभेदेन बलिद्रव्यभेदानाह भूतेभ्य इत्यादिना | करम्भेति करम्भो दधिशक्तवं इत्यमरः | तेन मिश्रिता लाजाः | सापूपमिति पिष्टकसहितम्, पूपोऽपूपः पिष्टकः स्यादित्यमरः | ६३-६४ | पूर्वं नवमे सप्तमेऽपि वा (४|३२) इत्यनेन नवरात्र्यात्मको यः कल्प उक्तस्तत्र वलेर्विशेषमाह-नवरात्रविधाविति | तत्र सप्तमीं रात्रिं यावत् प्रागुक्तक्रमेण बलिं विधाय अष्टम्यां रात्रौ विष्णवे दुग्धान्नम्, नवम्यां रात्रौ च विष्णव एव कृशरं प्रदद्यादिति | तदुक्तं राघवभट्टेन यदा नवरात्रेषु बलिदानं तदा रात्रिद्वये बलिद्रव्यं देवता चोक्ताचार्यै :- वैष्णवञ्च दौग्धान्नं कृशरञ्च वैष्णवेयं यदि नवरात्रक्रमेन वलिरुक्त इति | सर्वेभ्य इति | प्रागुक्तवलिद्रव्याणामलाभे भूतादिभ्यः सर्वेभ्य एव पायसैः एवं पूर्वोक्तक्रमेण बलिं प्रदद्यादित्यर्थः | ततश्चेति | ततो भूतादिवलिदानानन्तरं पायसान्नैर्लोकपालेभ्यो बलिं हरेत् इति | अयं बलिः पूर्वादिक्रमेणैव | तत्रानन्तस्य वलिर्नि-ऋतिवरुणयोर्मध्ये, ब्रह्मणस्त्विशानन्द्रेयोर्मध्ये इति विशेषः | (अङ्कुरपरीक्षा) अथाङ्कुरं परीक्षेत यजमानः शुभाशुभम् || ६५ || (तत्र शुभान्यङ्कुराणि) सम्यगूर्द्ध्वप्ररूढानि कोमलानि सितानि च | अङ्कुराणि शुभान्याहुरिति मन्त्रविदो जनाः || ६६ || (अशुभान्यङ्कुराणि) धूम्रवर्णान्यपूर्णानि तथा तिर्यग्गतानि च | श्यामलानि च कुब्जानि वर्जयेदशुभानि च || ६७ || ---------------------------------------------- ६६ | अथाङ्कुरपरीक्षायां शुभान्यङ्कुराण्याह सम्यगिति | सितानि शुभ्राणि | मितानीति पाठे मितानि समपरिमाणाग्राणीत्यर्थः | ६७ | अशुभान्यङ्कुराण्याह धूम्रेत्यादिना | अपूर्णानि विरलसन्निवेशानि | तिर्यग्गतानि वक्राणि | कुब्जानि मध्यतो भङ्गुराणि | अत्र शुभाशुभाङ्कुरपरीक्षामाह राघवभट्टधृतसिद्धन्तशेखरे यजमानाभिवृद्ध्यर्थमङ्कुराणि परीक्षयेत् | सम्यगूर्द्ध्व प्ररूढानि कोमलानि सितानि च || धूम्रवर्णान्यपूर्णानि तथा तिर्यग्गतानि च | श्यामलानि च कुब्जानि वर्जयेदशुभानि तु || अवृष्टिं कुरुते कृष्णं धूम्राभं कलहं तथा | अपूर्णं जननाशञ्च दुर्भिक्षं श्यामलाङ्कुरम् | तिर्यग गते भवेद् व्याधिः कुब्जे शत्रुभयं तथा || इति | (अशुभाङ्कुरोद्गमे शान्तिः) तद्दोषशमनार्थञ्च शान्तिहोमं समाचरेत् | गुरुर्मूलेन जुहुयाच्छतं वापि सहस्रकम् || ६८ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ चतुर्थः प्रकाशः | ---------------------------------------------- ६८ | अशुभाङ्कुरोद्गमे प्रतीकारमाह-तद्दोषेति | मूलेनेति देयमन्त्रेणेत्यर्थः | शतं वापीति | दोषस्याल्पत्वे शतं प्राचुर्ये सहस्रमित्यर्थः | सिद्धन्तशेखरेऽपि अशुभे चाङ्कुरे जाते शान्तिहोमं समाचरेत् | मूलमन्त्रेण जुहुयाद् गुरुर्मूर्तिधरैः सह | अघोरास्त्रेण चास्त्रेण शतं वाथ सहस्रकम् || इति | पञ्चमः प्रकाशः (दीक्षाङ्गाधिवासनविधिर्दीक्षाविधिश्च) (अधिवासस्य दीक्षापूर्वदिनकर्तव्यत्वम्) अथ दीक्षादिनात् पूर्वमधिवासं चरेद् गुरुः | (गणेशादिपञ्चदेवतापूजनम्) गणेशं सवितारञ्च शङ्करं शङ्करप्रियाम् || १ || पूजयेत् कमलानाथं षोडशैरुपचारकैः | (तत्र पञ्चायतनदीक्षायां शिवस्य पूजाक्रमः) यदा तु शङ्करं मध्य ऐशान्यां श्रीपतिं यजेत् || २ || आग्नेययां च तथा हंसं नैरृत्यां पार्वतीसुतम् | वायव्याञ्च समापूज्या भवानी भक्तवत्सला || ३ || ---------------------------------------------- १ | एवं चतुर्थेऽङ्कुरार्पणान्तं कर्माभिधाय पञ्चमे दीक्षाक्रमं विवक्षः प्रथमं तदङ्गमधिवासमाह अथेति | तत्र च गणेशादिदेवतापञ्चकमादौ पूजयेत् | २-३ | पञ्चायतनदीक्षायां प्रागुक्तानां पूजने विशेषमाह यदा त्विति | अत्र उपास्यत्वेन मुख्यं देवं मध्ये यजेदितरांस्तु चतुरः कोणचतुष्टये | एवञ्च शङ्करोपासकः मुख्यतया यदा शङ्करं मध्ये यजेत्तदा ऐशान्यां श्रीपतिम्, आग्नेययां सूर्यम्, नैर्-ऋत्यां गणेशम्, वायव्याञ्च अम्बिकां यजेदिति | एवं वक्ष्यमाणविष्णुसूर्याम्बिकाहेरम्बपूजनेऽपि ईशानादिक्रमेण पूजनं परं परं वक्ष्यते | अत्र चतुर्दिक्षु कलसचतुर्ष्टयं मध्ये च कलसमेकं संस्थाप्य तेषु पूजनमनुष्ठेयम् | एकदेवताकदीक्षास्थले तु एकमेव कलसमारोप्य तत्र देवतां पूजयेत् | अत एव प्रपञ्चसारे (विष्णोः) यदा तु मध्ये गोविन्दमैशान्यां शङ्करं यजेत् | आग्नेययां गणनाथञ्च नैर्.-ऋत्यां तपनं तथा | वायव्यामम्बिकाञ्चैव यजेन्मन्त्री समाहितः || ४ || (सूर्यस्य) सहस्रांशुं यदा मध्य ऐशान्यां पार्वतीप्रियम् | आग्नेययामेकदन्तञ्च नैर्-ऋत्यामच्युतं यजेत् | वायव्यां पूजयेद्देवीं भोगमोक्षैकभूमिकाम् || ५ || ---------------------------------------------- प्रोक्तेनैवं कलसविधिनैकेन वाऽनेककुम्भैः | इत्यनेनाचार्यैरेकानेककुम्भस्थापनं व्यवस्थापितम् || तन्त्रसारधृतगणेशविमर्षिणीवचने एकत्रैव सर्वेषां संग्रहो दृश्यते | यथा शम्भौ मध्यग्ते हरीन-हरभू-देव्यो हरौ शङ्करे भास्येनागसुता रवौ हरगणेशाऽजाऽम्बिकाः स्थापिताः | देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरे- नार्याः शङ्करभागतोऽतिसुखदा व्यस्तास्तु ते हानिदाः || इति | अत्र ऐशान्यां श्रीपतिं यजेदित्यादिना ईशानादिक्रमेणैव सर्वासामङ्गदेवतानां पूजनमभिहितम् | तन्त्रसारधृतरामार्चनचन्द्रिका-गौतमीययोस्तु यदा तु मध्ये गोविन्दमाग्नेययां गणनायकम् | नैर्-ऋत्यां हंसमभ्यर्च्य वायव्यामर्चयेच्छिवाम् | ऐशान्यां शन्करञ्चैव भोगमोक्षफलाप्तये || इत्यादिना आग्नेयादिक्रमेणाङ्गदेवतानां पूजनमुक्तम्, एवं स्थिते प्रस्थानद्वये स्वस्वसम्प्रदायानुगत्यैकतरदाश्रयणीयम् | अत एव वस्तुतो वैकल्पिकमिति साम्प्रदायिका इतितन्त्रसारकृतः | (भवान्याः) भवानीन्तु यदा मध्य ऐशान्यां माधवं यजेत् | आग्नेययां पार्वतीनाथं नैर्-ऋत्यं गणानायकम् | प्रद्योतनन्तु वाव्यव्यामाचार्यस्तत्र पूजयेत् || ६ || (गणेशस्य) हेरम्बन्तु यदा मध्य ऐशान्यामच्युतं यजेत् | आग्नेययां पञ्चवक्त्रञ्च नैर्-ऋत्यां जगदम्बिकाम् | वायव्यां द्युमणिञ्चैव यजेन्मन्त्री समाहितः || ७ || (एषां निरुक्तस्थानादन्यत्र पूजने दोषः) स्वस्थानवर्जिता देवाः शोकमोहभयप्रदाः | मन्त्ररत्नावलेश्चैतत् प्रसङ्गान्मतमीरितम् || ८ || ---------------------------------------------- ८ | मन्त्रेति | प्रसङ्गादिति | प्रागुक्तपूजनक्रमः पञ्चायतनदीक्षायामेव विहितः, परन्तु श्यामायां भैरवीताराच्छिन्नमस्तासु भैरवि | मञ्जुघोषे तथा रौद्रे पञ्चाङ्गं नेष्यते बुधैः || इति तन्त्रसारधृतरुद्रजामलवचनेनात्र पञ्चायतनदीक्षाया अनुपयोगात् प्रसङ्गादित्युक्तम् | एवञ्चात्रानुपयोगित्वेऽपि अन्यत्रान्यत्रोपयोगित्वाद् दीक्षास्वरूपनिरूपणे पञ्चायतनदीक्षायां यो विशेषस्तस्याप्यभिधानमुचितमेवेति ग्रन्थकृतामाशयः | समाहितेन मनसा ध्यायन्मन्त्रस्य देवताम् | प्राणप्रतिष्ठां कुर्वीत तन्त्रमन्त्रविचक्षणः || इति शारदातिलकचतुर्थपटलवचनव्याख्याने राघवभट्टेन मन्त्रस्य देवतामित्येकमन्त्रदीक्षायाम्, पञ्चायतनदीक्षापक्षे पञ्च कलसान् संस्थाप्य तत्तत्कलसे तत्तद्देवतामावाहयेद् इत्युक्तम् | एवञ्चैकदेवतादीक्षाविषये पञ्चाङ्गप्रक्रियाया उपयोगो नास्तीति राघवभट्टमतेनापि प्रसङ्गादिति साधु संगच्छते | (एषु गौणमुख्यभेदेनार्चनक्रमभेदः) मुख्ये पुष्पाञ्जलिं दत्त्वा गणेशाद्यर्चनं चरेत् | गणेश एव मुख्यश्चेत्तत्र सूर्य क्रमाद् भवेत् || ९ || (एतेषामपूजने दोषः) अनभ्यर्च्य नरो याति नरकं नात्र संशयः || १० || (दिक्पालवलिः) अथ दिक्पालदेवेभ्यो वलिं दद्याद् गुरूत्तमः || ११ || ---------------------------------------------- ९ | मुख्य इति | मुख्ये उपास्यतया प्रधाने पुष्पाञ्जलिं दत्त्वा तत्तत्कल्पविहितं गणेशादीनामर्चनं कुर्यादित्यर्थः | अत्र मुख्यदेवतायै प्रथमं पुष्पाञ्जलिं दत्त्वा गणेशादीनां पूजनं निर्वर्त्त्य मुख्यदेवतापूजनं कुर्यादिति केचित् | अपरे तु अत्र पुष्पाञ्जलिशब्देन पूजासमाप्तौ देयं पुष्पाञ्जलिमाचक्षते | तथाच प्रधानदेवतायाः पूजनं समाप्य तस्यै पुष्पाञ्जलिं दत्त्वा गणेशादीनामर्चनं चरेदिति वदन्ति | तदेवं स्थिते वचनस्योभयथा व्याख्याने स्वस्वसम्प्रदायानुसारेणैकतरः पक्षः समाश्रयणीय इति बोध्यम् | अत एव राघवभट्टेन एतच्च स्वस्वगुरुसम्प्रदायानुसारेण ज्ञेयम् इत्युक्तम् | तन्त्रसारकृता तु अङ्गदेवतापूजाकास्तु पीठदेवतापूजानन्तरम्, तथाच सन्त्कुमारतन्त्रे पीठस्यार्चनमङ्गदेअयजनं प्राणप्रतिष्ठा तत आह्वानं निजमुद्रिकाविरचनं ध्यानं प्रभोः पूजनम् | इत्यनेन प्रधानदेवतापीठपूजानन्तरं गणेशादीनामर्चनमभिहितम् | मुख्ये पुष्पाञ्जलिं दत्त्वा इत्यादिवचनानान्तु स्थापितप्रतिमायन्त्रादिपरत्वमुपपादितम् यत्तूक्तम् मुख्ये पुष्पाञ्जलिं दत्त्वा अङ्गदेवान् समर्चयेत् | तत्तु स्थापितप्रतिमायन्त्रादिपरमित्यन्तेन ग्रन्थेन | ११ | अथेति | पूउजादिकं समाप्य | दिक्पालवलिक्रमस्तु नवमपटले वक्ष्यते | (अथ शिष्ये गुरोः कृत्यम्) अथ शिष्यं समानीय सुस्नातं समलङ्कृतम् | तद्गात्रे मातृकान्यासं तथा ऋष्यादिकं न्यसेत् || १२ || देयमन्त्रं तस्य मूर्ध्नि जपेदष्टोत्तरं शतम् | शङ्खतोयेन तन्मन्त्रैस्ततः संप्रोक्षयेच्छिशुम् || १३ || (शिष्यकृत्यम्) ततः पुष्पादिकं दत्त्वा बालकः प्रणमेद् गुरुम् || १४ || (ततः शिष्यं प्रति गुरोः कृत्यम्) आशीर्वादं गुरुर्दत्त्वा ब्राह्मणैः सह साधकैः | दर्भशययां परिष्क्ट्य शिष्यं तत्र निवेशयेत् | स्वापमन्त्रेण मन्त्रज्ञः शिशोः शिखां प्रबन्धयेत् || १५ || (शिष्यस्य शयनकाले श्रीगुरुदत्तस्वप्नमानवमन्त्रपाठः) तन्मन्त्रं स्वापसमये पठेद् वारत्रयं शिशुः | श्रीगुरोः पादुकां ध्यात्वा उपवासी जितेन्द्रियः || १६ || ---------------------------------------------- १२ | अनन्तरकरणीयमाह-अथ शिष्यमिति | एतच्च सर्वमात्मसमर्पणान्तं कर्म समाप्य कर्तव्यमित्यवधेयम् | ऋष्यादिकमिति | एतत्कल्पोक्त ऋष्यादिन्यासस्तु पूजाक्रमे वक्ष्यते | १५ | स्वापमन्त्रेणेति वक्ष्यमाणस्वप्नमानवमन्त्रेण | अत्र शिखाबन्धनं स्वप्नमानवमन्त्रेणाभिहितम् | गन्धर्वतन्त्रे षड्विंशपटले तु मूलेनैव शिखां बद्ध्वा ततः शययागतं शिशुम् | स्वप्नमानवमाश्रित्य स्वापयेत् पूर्वमस्तकम् || इत्यनेन मूलमन्त्रेण शिखाबन्धनम्, स्वप्नमानवमन्त्रेण स्वापनमुपदिश्यते | एवं स्थिते क्रमभेदे स्वस्वगुरुसम्प्रदायानुसारेणैकतरः क्रमः समाश्रयणीय इत्यवधेयम् | (स्वप्नमानवमन्त्रः) तारो हिलिद्वयं शूलपाणये द्विठ ईरितः | स्वप्नमानवमन्त्रोऽयं शम्भुना परिकीर्तितः || १७ || (प्रार्थनामन्त्रः) नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने | वामाय विश्वरूपाय स्वप्नाधिपतये नमः || १८ || स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः | क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर || १९ || (शिष्यस्य प्रार्थनापूर्वकं शयनम्) इति मन्त्रेण सच्छिष्यो देवं प्रार्थ्य स्वपेच्च वा | (प्रतः शिष्यं प्रति स्वप्नदर्शनप्रश्नः) स्वप्ने शुभाशुभं दृष्टं पृच्छेत् प्रातः शिशुं गुरुः || २० || (स्वप्ने वक्ष्यमाणानां दर्शनं सिद्धिकरम्) कन्यां छत्रं रथं दीपं प्रासादं काननं नदीम् | कुञ्जरं वृषभं माल्यं समुद्रं फणिनं द्रुमम् || २१ || पर्वतं तुरगं मेध्यमाममांसं सुरालयम् | एवमादीनि सर्वाणि दृष्ट्वा सिद्धिमवाप्नुयात् || २२ || ---------------------------------------------- १७ | स्वप्नमानवमन्त्रमाह तार इत्यादि | तारः प्रणवः द्विठ स्वाहा | एवञ्च ओं हिलि हिलि शूलपाणये स्वाहा इति स्वप्नमानवमन्त्रः | इमं मन्त्रं स्वापकाले वारत्रयं पठेत् इत्याह पूर्ववचने वारत्रयमित्यनेन | १८-२० | एतन्मन्त्रपाठानन्तरप्रार्थनामन्त्रमाह नम इति | गन्धर्वतन्त्रे षड्विंशपटलेऽपि इतः प्रभृति सिद्धिमवाप्नुयादित्यन्तानि वचनानि तुल्यान्येव दृश्यन्ते | २२ | अत्र कन्यां छत्रं रथमित्यादिना सिद्धिमाप्नुयादित्यन्तेन स्वप्ने शुभसूच- (अशुभस्वप्नदर्शने तच्छान्त्यर्थं होमः) शुभाशुभं गुरुर्ज्ञात्वा जुहुयादशुभे शतम् | अस्त्रेणेति क्रमात् प्रोक्तो विधिः शिष्याधिवासने || २३ || ---------------------------------------------- कानामेव निर्देशः कृतः | शुभाशुभं गुरुर्ज्ञात्वेति वक्ष्यमाणग्रन्थेनाशुभानामप्यपेक्षितत्वात् तानि प्रदर्श्यन्ते यथाह गन्धर्वतन्त्रे षड्विंशपटले चाण्डालं गर्दभं काकं रुजाऽशून्यममङ्गलम् | तैलाभ्यक्तं नरं नग्नं शुष्कवृक्षं सकण्टकम् | प्रासादमतलं दृष्ट्वा नरो रोगमवाप्नुयात् || इति | राघवभट्टधृतमहाकपिलपञ्चरात्रेऽपि कन्यां छत्रं रथमित्यादिमूलसंवादिशुभशकुनान्यभिधाय चाण्डालं करभं कारुं गर्तं शून्यममङ्गलम् | तैलाभ्यक्तं नरं नग्नं शुष्कवृक्षं सकण्टकम् | प्रासादमतलं दृष्ट्वा नरो रोगमवाप्नुयात् || इत्यनेनाशुभान्यपि प्रदर्शितानि | २३ | अस्त्रेणेति | फट् स्वाहेति मन्त्रेण शतं जुहुयादित्यर्थः | एतदधिवासनं मन्त्रग्रहणपूर्वरात्रौ कर्तव्यम् | राघवभट्टधृतपिङ्गलामते तु सद्योऽधिवासनमप्यभिहितम् | यथा- सद्योऽधिवासमथवा प्रकुर्वीत यथाविधि | राघवभट्टधृतमन्त्रतन्त्रप्रकाशेऽपि दिनद्वयेनैव कुर्याद्दीक्षाकर्म विचक्षणः | सद्योऽधिवासनं वा स्यादेकस्मिन् दिवसे यदि || इति | अधिवासशब्दार्थमाह राघवभट्टधृतमहाकपिलपञ्चरात्रे वसतेरधिपूर्वस्य भावे घञ्प्रत्यये कृते | अधिवास इति ह्येष प्रयोगः सिद्धिमेति च || गुर्वादिसहितो वासो रात्रौ नियमपूर्वकः | सोऽस्यार्थो हि निपातानामनेकार्थतया मतः || इति | (दीक्षादिनकृत्यम्) अथ दीक्षादिने मन्त्री स्नात्वा तन्त्रानुसारतः | जलशङ्खकरो मन्त्री यागस्थानं समाश्रयेत् || २४ || क्षालयेद्धस्तपादौ च आचामेद् विधिपूर्वकम् | (सामान्यार्घ्यस्थापनम्) पूर्वद्वारे तोरणस्य समीपेऽर्घ्यं प्रकल्पयेत् || २५ || ---------------------------------------------- २४ | अथेति अधिवासानन्तरम् | स्नात्वा तन्त्रानुसारत इति | तान्त्रिकस्नानन्तु ग्रन्थकारः स्वयमेव पञ्चदशप्रकाशे वक्ष्यति | जलशङ्खकर इति अर्घ्यस्थापनार्थम् | २५ | क्षालयेदिति | एतदाचमनाङ्गहस्तपादप्रक्षालनम् | तदुक्तम् प्रक्षाल्य पाणी पादौच गोकर्णाकृतिहस्ततः | माषमज्जनमात्रन्तु त्रिः पिबेदम्बु वीक्षितम् || इत्यादि | आचामेद् विधिपूर्वकमिति | अत्र विधिपूर्वकमित्यनेन श्रीविद्योक्तविधिनाचमनमुपदिश्यते | तदुक्तं हरतत्त्वदीधितिधृतभैरवतन्त्रे- बालाबीजैस्त्रिभिः पीत्वा द्वाभ्यामोष्ठौ प्रमार्जयेत् | दुर्गाद्वाभ्यां द्विरुन्मृज्य मायया क्षालयेत् करम् || श्रीमायावाकपरा-काम-त्रिपुटायोनिवर्तुलैः | कामकलाङ्कुशाभ्याञ्च मुखनासाक्षिकर्णकान् || नाभ्युरस्कं भुजौ स्पृष्ट्वाप्यधिकारी जपादिषु || इति | अत्र बालाबीजैरिति ऐ/ क्लीं सौ/ः | दुर्गाद्वाभ्यामिति दू/ दू/ | माययेति ह्री/ | श्रीबीजं श्री/ | वाग्बीजं ऐ/ | पराबीजं ह्री/ | कामबीजं क्लिं | त्रिपुटेति श्री/ ह्र्/ क्लि/ | योनिः ऐ/ | वर्तुलं बिन्दुः | वर्तुलैरित्यनेन पूर्वोक्तानि बीजानि विशेषितानि | कामकला ई/ | अङ्कुशः क्रो/ इति | तथाचायं प्रयोगः ऐ/ ह्री/ सौ/ः इति बीजत्रयेण त्रिर्जलं पीत्वा दू/ दू/ इत्योष्ठौ प्रमार्ज्य ह्री/ इति करु प्रक्षालयेत् | श्री/ इति मुखे, ह्री/ इति दक्षिणनसि, ऐ/ इति वामनसि, ह्री/ इति दक्षिणचक्षुषि, क्ली/ इति वामचक्षुषि, श्री/ इति दक्षकर्णे, ह्री/ इति वामकर्णे, क्ली/ इति नाभौ, ए/ इति वक्षसि, ई/ इति दक्षिणभुजे, क्रो/ इति वामभुजे इति हरतत्त्वदीधितिः | (सामान्यार्घ्यक्रमः) अस्त्रेण पात्रं प्रक्षाल्य हृन्मन्त्रेण प्रपूरयेत् | निक्षिपेत्तीर्थमावाह्य गन्धादीन् प्रणवेन तु || २६ || दर्शयेद्धेनुमुद्रां वै सामान्यार्घ्यमिदं स्मृतम् | (द्वारपूजायाः कर्तव्यता) स्वकल्पोक्तविधानेन द्वारपूजां समाचरेत् || २७ || (गोरोर्यागमण्डपप्रवेशः) किञ्चित् स्पृशन् वामशाखां देहलीं लङ्घयेद् गुरुः | अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा || २८ || (पूजा) नैर्-ऋत्यां दिशि वास्त्वीशान् ब्रह्माणञ्च प्रपूजयेत् | (मण्डपप्रोक्षणम्) पञ्चगव्यार्घ्यतोयाभ्यां प्रोक्षयेद् यागमण्डपम् || २९ || (पञ्चगव्यपरिमाणम्) मूत्रं प्रस्थं गोमयं स्यात् क्षीरतोऽप्यर्द्धमेव वा | ---------------------------------------------- २६ | अस्त्रेण फट् इत्यनेन | हृन्मन्त्रेण नमः इत्यनेन | २७-२८ | द्वारपूजा मूलदेवतपूजाक्रमे वक्ष्यते | किञ्चिदिति | मण्डपद्वारस्य वामशाखां किञ्चित् स्पृशन् | ततो दक्षिणशाखायां विघ्नं क्षेत्रेशमन्ततः | इति शारदातिलकपञ्चमपटलवचनेन दक्षिणशाखायां सामान्यतो विघ्नेशक्षेत्र- आज्यं दध्नोऽप्यर्द्धमानं प्रमाणं तत् प्रकीर्तितम् | स्वैः स्वैर्मन्त्रैश्च मन्त्रज्ञो योजयेत् पञ्चगव्यकम् || ३० || ---------------------------------------------- पालपूजनाभिधानात् तत्स्पर्शपरिहाराय वामशाखास्पर्शपूर्वकगमनमुपदिश्यते | देहलीलङ्घनमपि तथैव देहल्यामर्चयेदस्त्रं प्रतिद्वारमितिक्रमात् | इति शारदावचनात् | अत एव राघवभट्टेनापि किञ्चित् स्पृशन्नित्यादिशारदावचनव्याख्याने अतः स्पृशन्नित्यादित्रयं दृष्टार्थं देहल्यामपि देवस्य पूजितत्वादित्युक्तम् | अङ्गमिति | वामाङ्गसङ्कोचयन्नित्यर्थः | अङ्गसङ्कोचनन्तु निःसरतां विघ्नानामवकाशदानार्थम् | उत्सार्तितानां विघानां ददद् वर्त्म तु वामतः | तथा- निर्गच्छतां विघ्नकृतामथैषां वामाङ्गसङ्कोचनचेष्टितेन | प्रदाय मार्गम् ... ... ... ... ... || इत्यादिराघवभट्टधृतवचनेन तथाभिधानात् | दक्षिणाङ्घ्रिणेति | दक्षिणपादं पुरस्कृत्य यागमण्डपं प्रविशेदित्यर्थः | तन्त्रसारादावप्येवमेव | यत्तु हरतत्त्वदीधितिकृता किञ्चित् स्पृशन् वामशाखां वामपादपुरःसरम् | स्मरन् देव्याः पदाम्भोजं मण्डपं प्रविशेत् सुधीः || इति तन्त्रान्तरवचनम्, वामपादं पुरस्कृत्य प्रविशेद् यागमण्डपम् | इति शिवार्चनचन्द्रिकाधृतत्रिपुरार्णववचनम्, दक्षपादं पुरस्कृत्य प्रविशेद्देवमन्दिरम् | शाक्तस्तु वामपादम् ... ... ... ... || इति मेरुतन्त्रपञ्चमप्रकाशवचनञ्च स्वमतसमर्थनानुकूलमुल्लिख्य पुंदेवतामन्दिरप्रवेशे दक्षपादपुरःसरत्वं शक्तिमन्दिरप्रवेशे वामपादपुरःसरत्वञ्चोपपाद्य, यत्तु तन्त्रसारकारेण दक्षपादपुरःसरं वामशाखां स्पृशन् दक्षिणान्गं सङ्कोचयन् मण्डपान्तः (प्रस्थस्वरूपम्) चतुःपलः स्यात् कुडवस्तच्चतुःप्रस्थ उच्यते | (मण्डपशोधनम्) चतुःपथान्तां तच्छुद्धिं विदध्याद्वीक्षणादिभिः || ३१ || वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् | तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं मतम् || ३२ || ---------------------------------------------- प्रविश्येति सामान्येनिक्तं तदेतद्वचनमनालोच्यैवेत्यादिना तन्त्रसारकारशिरसि दण्डं पातयितुमुद्युक्तम्, तदपि गन्धर्वतन्त्रवचनमनालोच्यैवेति प्रतिमः | अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङघ्रिणा | यागमन्दिरगांस्तत्र विघ्नानुत्सारयेत्ततः || इति गन्धर्वतन्त्रसप्तमपटलवचनेन शक्तिविषये दक्षिणपादपुरःसरमण्डपान्तः प्रवेशस्याप्यभिधानात् | न च तर्हि प्रागुक्ततन्त्रान्तरादिवचनानां विरोध इति वाच्यम्, गन्धर्वतन्त्रस्य श्रीविद्यामात्रप्रतिपादकतया श्रीविद्येतरशक्तिविषये तन्त्रान्तरादिवचनानां चरितार्थत्वात् | एवञ्च श्रीविद्येतरशक्तिमण्डपप्रवेशो वामपादपुरःसरः, श्रीविद्यायान्तु दक्षपादपुरःसर एव मण्डपप्रवेशो विहित इति स्थितम् | अत एव तत्रभवता पूर्णानन्देन प्रविशेद्दक्षिणाङ्घ्रिणेत्युक्तम् | यत्तु तन्त्रसारकारेण दक्षपादपुरःसरमित्युक्तं तत् प्रागुक्तगन्धर्वतन्त्रवचनस्याविशेषेण शक्तिमात्रपरत्वमभिप्रेत्य स्त्रीपुरुषदेवतासाधारण्येन | न तु तेन स्त्रीदेवतामण्डपे वामपादपुरःसरः प्रवेशः क्वापि प्रतिषिद्धः | शक्तिमण्डपप्रवेशे क्वचिद् वामपादपुरःसरत्वस्य क्वचन वा दक्षपादपुरःसरत्वस्य दर्शनाद् दक्षपादस्य स्त्रीपुरुषदेवतासाधारण्यात् तन्त्रसारस्य च स्त्रीपुरुषसाधारणदेवताप्रतिपादकत्वात् तत्र दक्षपादपुरःसरत्वं सामान्येनाभिहितमिति संक्षेपः | ३१ | मण्डपशोधनमाह चतुःपथान्तामिति | अत्र चतुःपथशब्देन चतुर्दिक्षु मण्डपाद् बहिस्तोरणस्तम्भपर्यन्तो हस्तमात्रपरिमितः प्रदेश उच्यते | तथाच वीक्षणादिभिर्वक्ष्यमाणैश्चतुःपथान्तां तच्छुद्धिं मण्डपशुद्धिं कुर्यादित्यर्थः | ३२ | वीक्षणमिति | मूलमन्त्रेण देयमन्त्रेण | शरेण अस्त्रमन्त्रेण फट् इत्यनेनेत्यर्थः | वर्मणा कवचेन हु/ इत्यनेन | चन्दनागुरुकर्पूरैर्धैपदन्तरं सुधीः | विकिरान् विकिरेत्तत्र सप्तजप्ताञ्छराणुना || ३३ || (विकिरलक्षणम्) लाज-चन्दन-सिद्धर्थभस्मदूर्वाक्षतः कुशाः | विकिरा इति निर्दिष्टाः सर्वविघ्नौघनाशनाः || ३४ || (मार्जनम्) अस्त्रजप्तेन दर्भाणां मुष्टिना मार्जयेच्च तान् | (गुरुपूजादि) गुरुपूजादिकं कार्यं सम्प्रदायविधानतः || ३५ || (पुण्याहवाचनादि) पुण्याहं वाचयित्वा तु ब्राह्मणान् परितोष्य च | (चक्रराजनिर्माणम्) सिन्दूररजसा वापि कुङ्कमेनाथवा ततः || ३६ || वेदिकायां लिखेन्मन्त्री चक्रराजं मनोहरम् || ३७ || षट्कोणं विलिखेदादौ त्रिकोणं मध्यदेशतः | वृत्तं वसुदलञ्चैव द्वादशारं वसुद्वयम् || ३८ || ---------------------------------------------- ३३ | शराणुना फट् इत्यस्त्रमन्त्रेण सतधा जप्तानित्यर्थः | ३६ | दीक्षायां पूजार्थं चक्रे व्याख्येये प्रथमं चक्रनिर्माणोपकरणद्रव्यमाह सिन्दूरेति | वेदिकायामिति मण्डपान्तर्वेदिकोपरि | ३८ | चक्रराजनिर्माणमाह - षडिति प्रथमं षट्कोणं तदन्तस्त्रिकोणम्, षट्कोणात् बहिर्वृत्तम् ततोऽष्टदलपद्मम्, ततो वृत्तं द्वादशदलपद्मञ्च, ततो वृत्तं षोडशदल- द्विर्दशारं समालिख्य ततोऽष्तदलमालिखेत् | चतुरस्रं लिखेद्बाह्ये चतुर्द्वारसमन्वितम् || ३९ || (तत्र प्रकारान्तरम्) अथवा नवकोणन्तु चतुरस्रयुतं लिखेत् || ४० || (पूजाद्रव्यस्थापनम्) बद्धपद्मासनो मन्त्री देवतापूजने रतः | स्थापयेद्दक्षिणे भागे पूजाद्रव्यं मनोहरम् || ४१ || सुवासिताम्बुसंपूर्णं सव्ये कुम्भं सुशोभनम् | प्रक्षालनाय करयोः पात्रं पश्चान्निवेशयेत् || ४२ || घृतप्रज्वालितान् दीपान् स्थापयेत् परितः शुभान् | दर्पणं चामरं छत्रं तालवृन्तं मनोहरम् | मङ्गलाङ्कुरपात्राणि स्थापयेद्दिक्षु देशिकः || ४३ || ---------------------------------------------- पद्मञ्च, तद्बहिर्वृत्तं विंशतिदलपद्मञ्च, तद्बहिर्वृत्तमष्टदलपद्मञ्च, तदहिश्चतुर्द्वारसमन्वितं चतुरस्रमिति | अत्र वृत्तत् परं दलनिर्माणनियमनात् प्रतिदलमूले सीमासम्पादनार्थमेकैकं वृत्तं कर्तव्यमित्यवधेयम् | ४० | प्रागुक्तचर्ककरणाशक्तु क्रमान्तरमाह अथवेति | कल्पेऽस्मिन् प्रथमं नवकोणं ततश्चतुरस्रं तदपि द्वारसहितमेव कार्यं चतुरस्रस्य भूगृहरूपतया तस्य सद्वारकत्वौचित्यात् प्रागुक्तचक्रराजे तथा दर्शनाच्च | ४१-४३ | बद्धपद्मासन इति | पद्मासनमाह राघवभट्टधृततन्त्रान्तरे सव्यं पादमुपादाय दक्षिणोपरि विन्यसेत् | तथैव दक्षिणं सव्यस्योपरिष्टान्निधापयेत् || विष्टभ्य कट्योः पार्ष्णी तु नासाग्रन्यस्तलोचनः | पद्मासनं भवेदेतत् सर्वेषामपि पूजितम् || (शिष्यस्यानयनमुपवेशनञ्च) ततः शिष्यं समानीय दक्षिणे सन्निवेशयेत् | नानालङ्कारसंश्लिष्टं धौतवस्त्रयुगान्वितम् || ४४ || (तिल-काञ्चनोत्सर्गः) तत आचमनं कृत्वा शिष्योऽपि विजितेन्द्रियः | आजन्मकृतपापार्थमुत्सृजेत्तिलकाञ्चनम् || ४५ || (स्वस्तिवाचनादिपूर्वकगुरुवरणम्) उपविश्यगुरोर्वामे सङ्कल्प्यस्वस्तिपूर्वकम् | गुरुञ्च वरयेद् विद्वान् विधिवद् भक्तिसंयुतः || ४६ || (गुरोरर्चनम्) गोभूहिरण्यवस्त्राद्यैः कुण्डलादिभिरुज्ज्वलैः | अन्यैराभरणैश्चैव तथा वित्तमवञ्चयन् || ४७ || गुरुं संपूजयेद् भक्त्या कृताञ्जलिपुरःसरम् | गुरुं प्रदक्षिणीकृत्य स्वात्मानञ्च समर्पयेत् || ४८ || (गुरोः पुरतः प्रार्थनम्) अथातो भगवन् परमात्मस्वरूप परमकारुणिक गुरो सकलपुरुषार्थसाधनविद्यादीक्षाभिषेकपूर्वकं मां प्रसाधय | ---------------------------------------------- इति | पूजाद्रव्यं पुष्पादिकम् | अर्घ्यपात्राचमनीयादिकन्तु वामत एव स्थापनीयम् | दीपदर्पणचामरादिकन्तु यथेच्छं दिक्षु स्थापयेदित्यर्थः | मङ्गलाङ्कुरपात्राणि प्रागङ्कुरार्पणे विनियुक्तानि | ४६ | उपविश्येति | प्रथमं गुरोर्दक्षिणे उपविश्य तिलकाञ्चनमुत्सृज्य तत उत्थाय वामे समुपविश्य स्वस्तिवाचनादिकं कुर्यादित्यर्थः | इत्युक्त्वा सुचिरं तिष्ठेद् विनयी दक्षिणे गुरोः | (गायत्रीजपस्तत्संख्या च) सहस्रं प्रजपेच्छिष्यो गायत्रीं देवनाम वा || ४९ || (भूतशुद्ध्याद्यनुष्ठानम्) भूतशुद्ध्यादिकं कृत्वा कल्पोक्तन्यासमाचरेत् | (मन्त्रसंस्कारः) अथवा पूर्वमार्गेण संस्कुर्यान्मन्त्रमुत्तमम् || ५० || (पीठन्यासः) पीठन्यासं ततः कुर्यात् स्वदेहे साधकोत्तमः || ५१ || धर्मं ज्ञानञ्च वैराग्यमैश्वर्यञ्च क्रमेण तु | प्रादक्षिण्येन चांसोरुयुगयोरथ विन्यसेत् || ५२ || ---------------------------------------------- ४९ | गायत्रीं देवनाम वेत्यधिकारिभेदेन | द्विजो गायत्रीं जपेत् स्त्रीशूद्रादयस्तु तत्रानधिकारादुपास्यदेवनाम जेपेयुरित्यर्थः | अथवा देवनाम वेत्यनेन द्विजो गायत्रीं जपेत् तत्रासामर्थ्ये स्वोपास्यदेवनाम जपेदित्युक्तम् | ५० | कल्पेति | अत्र भूतशुद्धि-त्रिपुराकल्पोक्तन्यासादिकन्तु पूजाक्रमे वक्ष्यते | अथवेति | अथ पूर्वमार्गेण द्वितीयप्रकाशोक्तक्रमेण मन्त्रं संस्कुर्यात् देयमन्त्रस्य जननजीवनादिरूपसंस्कारं विदधीतेत्यर्थः | यत्र दीक्षापूर्वदिने मन्त्रसंस्कारो न विहितस्तत्रैवायं मन्त्रसंस्कारविधिः | न तु पूर्वं कृतेऽपि मन्त्रसंस्कारे पुनर्मन्त्रसंस्कारापेक्षा | अत एव B-पुस्तकपादटिपन्यां यदि दीक्षादिनात् प्राङ्मन्त्रसंस्कारो न कृतस्तदास्मिन् समये कुर्यादिति वाशब्द इत्युक्तम् | ५१-५२ | पीठन्यासमिति | अनेन स्वकल्पोक्तपीठन्यासं विधाय वक्ष्यमाणान् धर्मादीन् न्यसेत् इत्यवधेयम् | स्फुटमुक्तं राघवभट्टेन मुखपार्श्वनाभिपार्श्वेष्वधर्मादीन् क्रमेण तु | धर्मादयः स्मृताः पादाः पीठगात्राणि चापरे || ५३ || अनन्तं हृदयाम्भोजे पद्मं सूर्येन्दुपावकान् | एषां स्वस्वकला न्यस्य स्वमन्त्राक्षरपूर्विकाः || ५४ || सत्त्वादींस्त्रिगुणान् न्यस्य तथैवात्र गुरूत्तमः | आत्मान्तरात्म-परमज्ञानात्मनः प्रविन्यसेत् || ५५ || (देहमयपीठे इष्टदेवताचिन्तनम्) पीठमन्त्रं प्रविन्यस्य चिन्तयेदिष्टदेवताम् | (मुद्राप्रदर्शनमर्घ्यादिस्थापनञ्च) मुद्रां प्रदर्श्य विधिवदर्घ्यस्थापनमारभेत् || ५६ || ---------------------------------------------- कल्पयेदात्मनो देहे पीठं धर्मादिभिः क्रमात् | इति शारदातिलकचतुर्थपटलवचनव्याख्याने मण्डूकाय नमः इत्याधारे, कालाग्निरुद्राय नमः इति स्वाधिष्थाने, कूर्माय नमः इति नाभौ, ततो हृदि आधारशक्त्यादिन्यासं कृत्वा पश्चाद्धर्मादिन्यास इत्यनेन ग्रन्थेन | प्रादक्षिण्येनेति | तथाच दक्षस्कन्धे धर्मम्, वामस्कन्धे ज्ञानम्, वामोरौ वैराग्यम्, दक्षीरौ अवैराग्यं न्यसेदित्यर्थः | मुखेति | तथाच मुखे अधर्मम्, वामपार्श्वे अज्ञानम्, नाभौ अवैराग्यम्, दक्षपार्श्वे अनैश्वर्यं न्यसेत् | धर्मादय इति | धर्मादयश्चत्वारः पीठस्य पादाः अपरेऽधर्मादयश्चत्वारः पीठगात्राणि इति सम्बन्धः | ५६ | पीठमन्त्रमिति | पीठमन्त्रं प्रविन्यस्य स्वदेह इति शेषः | देहे पीठकल्पनमेतन्मानसयागार्थम् | एतदभिप्रायेणैव शारदायां चतुर्थपटले पीठन्यासनिरूपणानन्तरम् एवं देहमये पीठे चिन्तयेदिष्टदेवताम् | इत्युक्तम् | सामान्यार्घ्यं स्ववामे तु विशेषार्घ्यं स्वसंमुखे | अर्घ्यस्योत्तरतः कार्यं पाद्यमाचमनं मधु || ५७ || (देव्या अष्टाङ्गार्घ्यम्) कुशाग्राण्यक्षतञ्चैव यवव्रीहितिलानपि | आज्यसिद्धार्थपुष्पैश्च देव्यर्घ्यमपरं तथा || ५८ || (सर्वदेवसाधारणमष्टाङ्गार्घ्यम्) पुष्पगन्धाक्षतयवकुशाग्रतिलसर्षपैः | सदूर्वैः सर्वदेवानामेतदर्घ्यमुदीरितम् || ५९ || (पाद्यम्) उशीरं चन्दनञ्चैव पयः पाद्ये परं तथा | पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम् || ६० || (आचमनीयम्) जातीकरुपूरकक्कोलमन्दुमूलतमालकान् | चूर्णयित्वा क्षिपेदाचमनीये त्वपरं यथा || ६१ || जातीलवङ्गकक्कोलजलैराचमनीयकम् || ६२ || (मधुपर्कः) माक्षिकं शर्करासर्पिर्दधिक्षीराक्षतं तथा | अथवा माक्षिकं सर्पिर्जलं दधियुतं मधु | मधुपर्कं कल्पयित्वा प्रदद्याद् विधिपूर्वकम् || ६३ || ---------------------------------------------- ५७ | सामान्यार्घ्यमिति | एतद्द्वारपूजायामुक्तमेव | ५८ | कुशाग्राणीति | अर्घ्यस्थापने विशेषस्त्वष्टादशपटले स्वयमेव वक्ष्यते | सर्वतः क्षद्रमधिकं मधु सर्पिः सिता समम् | जलन्तु सर्वतः स्वल्पं मधुपर्क उदाहृतः || ६४ || (पुनराचमनीयम्) पुनराचमनीयन्तु केवलेन जलेन च | (उपचारदाने पात्रनियमः) एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् || ६५ || (गन्धः) घृष्टो मलयजो गन्धः शवलश्च नमेरुणा | अगुरुप्रभृतिश्चापि तथा मृगमदेन तु || ६६ || ---------------------------------------------- ६५ | एकस्मिन्निति | अत्र पूर्वं पात्रभेदस्यानुक्तेरथवेति कल्पान्तरबोधकपदं कथमुपपन्नमिति चेदुच्यते, सम्मोहनतन्त्रे पञ्चमपटले अर्घ्यपाद्यप्रदानार्थं मधुपर्कार्थमप्यथ | तथैवाचमनार्थञ्च न्यस्येत् पात्रचतुष्टयम् || इत्यनेन प्रत्येकमेकैकपात्रविधानमुक्तं तदशक्तौ एकस्मिन्नेव पात्रे सर्वे उपचाराः कल्पनीयाः, तथाच राघवभट्टधृतवचनम् एकस्मिन्नथवा पात्रे पाद्यार्घ्यादीनि कल्पयेत् | इति | श्रीमत्पूर्णानन्देनापि प्रागुक्तसम्मोहनतन्त्रोक्तक्रमं मनसिकृत्य तमपेक्ष्यैव अथवेत्युक्तम् | एवञ्च शक्तौ विभिन्नान्युपचारपात्राणि कल्पनीयानि | अशक्तावेकस्मिन्नेव सर्वे उपचारा देयाः | यत्तु सम्भवे त्रीणि पात्राणि चान्यथा द्वे सकृच्चरेत् | पाद्यादिषु महेशानि नैकपात्रं कदाचन || इति श्यामार्चनचन्द्रिकाधृतस्वतन्त्रतन्त्रवचनेनैकपात्र-निषेधः ससजातीयपात्रपरः पाद्यपात्रमर्घ्यपातं तथाचमनपूर्वकम् | ताम्रं शङ्खं कांस्यपात्रं क्रमेण विनिवेदयेत् || इति महानीलतन्त्रदशमपटलवचनेन पाद्यादौ पात्रभेदाभ्युपगमात् | कुङ्कुमागुरुकस्तूरी-चन्द्रभागैः समाहृतः | त्रिपुराप्रीतिदो गन्धस्तथा न चान्यवस्तुना || ६७ || (स्वदेहे पीठपूजा) न्यासक्रमेण देहेषु धर्मादीन् पूजयेत्ततः | पुष्पादैः पीठमन्वन्तं तस्मिंश्च परदेवताम् || ६८ || (पञ्चपुष्पाञ्जलिदानम्) पञ्चकृत्वः पुनर्दद्यात् पुष्पाञ्जलिमनन्यधीः | उत्तमाङ्गहृदाधारपादसर्वाङ्गके क्रमात् || ६९ || (मण्डलपूजा मण्डले पीठपूजा च) पूर्वोक्तमण्डलं मन्त्री गन्धाद्यैः परिपूजयेत् || ७० || कूर्चमक्षतसंयुक्तं दर्भानास्तीर्य तत्र वै | पीठपूजां तत्र कुर्यात् स्वकल्पोक्तक्रमेण तु || ७१ || (कूर्चलक्सणम्) सप्तविंशतिदर्भाणां वेण्या ग्रन्थिविभूषितम् | वेष्टयेत् सर्वयज्ञेषु तत् कूर्चं परिकीर्तितम् || ७२ || (यन्त्रे देवतापूजाक्रमः तत्र मध्ये त्रिपुरार्चनम्) यन्त्रमध्ये यजेदादौ त्रिपुरां कुलभूषणाम् | (षट्कोणे पूजनस्य क्रमः) षट्कोणे च षडङ्गानि (तदन्तस्त्रिकोणे) त्रिकोणे पूजयेत्ततः || ७३ || ---------------------------------------------- ७३-७४ | अथेदानीं प्रागुक्तचक्रराजे देवतपूजामवतारयति यन्त्रेति | यन्त्र- रतिं सम्मुखकोणे च प्रीतिमुत्तरकोणके | मनोभवां दक्षकोणे (षट्कोणाद् बहिरष्टदले -) मातॄरष्टदले ततः || ७४ || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी चामुण्डा तदनन्तरम् | महालक्ष्मीः क्रमादेताः पूजयेत् साधकोत्तमः || ७५ || (तद्बहिर्द्वादशदले-) द्वादशारे तथा वामां ज्येष्ठां रौद्रीं तथैव च | अम्बिकेच्छे तथा ज्ञानां क्रियाञ्च कुब्जिकामथ || ७६ || विचित्राञ्च ततो मन्त्री विषघ्निकाञ्च भूचरीम् | आनन्दाञ्च क्रमेणैव (तद्बहिः षोडशदले-) कलापत्ने यजेदथ || ७७ || नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा | मदद्रावा द्राविणी च रुचिरा रागवत्यथ || ७८ || ---------------------------------------------- मध्य इति त्रिकोणमध्ये मूलदेवतां त्रिपुरामादौ पूजयेत् | ततस्त्रिपुरापूनानन्तरं षट्कोणे क्रमेण मूलदेवताषडङ्गानि पूजयेत् | ततः षट्कोणाभ्यन्तरीणत्रिकोणे क्रमेण रतिं प्रीतिं मनोभवाञ्च पूजयेत् | तत्र च त्रिकोणस्य सम्मुखकोणे रतिमुत्तरकोणे प्रीतिं दक्षकोणे च मनोभवामित्याह सम्मुखेत्यादिना | मातॄरिति | वृत्तोर्द्ध्वाष्टदले पूर्वादिक्रमेण वक्ष्यमाणा मातॄ पूजयेदित्यर्थः | ७५ | मातरष्टौ निर्दिशति ब्राह्मीत्यादिना | ७६-७९ | एवमष्टदलप्रक्रियामभिधाय द्वादशदले पूर्वादिक्रमेण पूज्या देवता निर्दिशति-द्वादशार इत्यादिना आनन्दाञ्च क्रमेणैवेत्यन्तेन | कामेश्वरी तथा कामदीपनी वामकेश्वरी | ललिता क्षोभणी क्षुद्रा स्वच्छन्दललिता क्रमा || ७९ || (तद्बहिर्विंशतिदले) ततो विंशतिपत्रेषु पूर्वादिक्रमतो यजेत् | मायावती महाक्षी च ततः सर्ववशङ्करी || ८० || झङ्कारा त्वीशभावा च कमला कमलेश्वरी | नीलग्रीवा विशालाक्षी भेरुण्डा डामरेश्वरी || ८१ || समया समयेशानी नित्यानन्दा महोदरी | सर्वसौभाग्यदाऽनन्दा चन्द्रिका चन्द्रशेखरा || ८२ || सर्वेश्वरी च संपूज्याः (तद्बहिरष्टदले-) पीठानि वसुपत्रके | (पीठाष्टकम्) कामरूपञ्च मलयं कोलगिरिं कुलान्तकम् || ८३ || चौहारञ्च ततो मन्त्री जालन्धरमतः परम् | उड्डीयानं देविकोट्टं पीठाष्टकमिदं स्मृतम् || ८४ || ---------------------------------------------- अथ षोडशारे नित्यादीनां षोडशानां पूजनमाह कलापत्रे इत्यादिना क्रमादित्यन्तेन | कलापत्रे षोडशपत्रेषु | ८०-८४ | अथ षोडशदलाद् वहिर्विंशतिदलेषु पूर्वादिक्रमेण मायावत्यादीनां विंशतिदेवतानां पूजनमुपदिशति-मायावतीत्यादिना सर्वेश्वरी च संपूज्या इत्यन्तेन | पीठानीति | विंशतिदलाद् बहिरष्टदले पूर्वादिक्रमेण कामरूपादिपीठाष्टकं पूजयेत् | पीठाष्टकं निरूपयति कामरूपञ्चेत्यादिना | (विंशतिदलाद् बहिर्भूगृहे-) भूगृहे त्रिपुरेशानीं पूजयेत् साधकोत्तमः || ८५ || (यन्त्रान्तरं तत्रार्चनव्यवस्था च) शेषमण्डलपक्षे तु षडङ्गमग्नितो यजेत् | रत्यादिकं त्रिकोणेषु मध्ये सर्वं प्रपूजयेत् | पीठाष्टकं भूमिगृहे त्रिपुरेशीञ्च मध्यमे || ८६ || (स्थापनीयकलसलक्षणम्) सौवर्णं राजतं ताम्रं मृत्तिकारचितञ्च यत् | कलसं क्षालयेन्मन्त्री शरमन्त्रपुरःसरम् | चन्दनागुरुकर्पूरधूपेन धूपितं शुभम् || ८७ || ---------------------------------------------- ८५ | अष्टदलाद् बहिर्भूगृहे त्रिपुरेश्वरीपूजनमाह भूगृह इति | ८६ | पूर्वं षट्कोणं विलिखेदादौ इत्यादिन यन्मण्डलमुक्तं तत्र पूजायाः क्रममभिधाय, अथवा नवकोणन्तु इत्युक्तनवकोणात्मकमण्डले पूजायाः क्रममुपदिशतिशेषेत्यादिना | अग्नितः अग्निकोणादारभ्य मूलदेवताषडङ्गानि यजेदित्यर्थः | तदाभ्यन्तरत्रिकोणे स्वसम्मुखदक्षोत्तरकोणेषु क्रमेण रत्यादिकं रतिं प्रीतिं मनोभवाञ्च पूजयेत् | मध्ये सर्वमिति ब्राह्म्याद्यष्टमातृतः सर्वेश्वर्यन्तं प्रागुक्तम् | भूमिगृह इति षट्कोणाद् बहिर्भूमिगृहे, पीठाष्टकं प्रागुक्तम् | मध्यम इति त्रिकोणमध्ये त्रिपुरेशीं यजेदित्यर्थः | ८७ | सौवर्णमिति | अत्र पूर्वपूर्वासम्भवे तदुत्तरोत्तरपरिग्रहः | शरमन्त्रपुरःसरं फट् इत्युच्चारणपूर्वकम् | अत्र शिवमन्त्रेति पाठः प्रामादिकः शारदायां चतुर्थपटले हेमादिरचितं कुम्भमस्त्राद्भिः क्षालितान्तरम् | इत्यनेनास्त्रमन्त्रेणैव क्षालनाभिधानात् | शुभं शोभनाकृतिम् | पञ्चदशाङ्गुलव्यास उत्सेधः षोडशाङ्गुलः | कलसानां प्रमाणन्तु मुखमष्टाङ्गुलं भवेत् || ८८ || (सूत्रवेष्टनम्) कन्याकर्तितसूत्रेण कलसं परिवेष्टयेत् | गुणत्रयात्मकेनैव वेष्टयेदभितः समम् || ८९ || वारत्रयं वेष्टयित्वा केनापीत्यभिधीयते || ९० || (कलसस्थापनम्) अर्चितं गन्धपुष्पादयिः कूर्चाक्षतसमन्वितम् | स्वर्णरत्नोदरं मध्ये स्थापयेत्तारमुच्चरन् || ९१ || साधारंकलसं मन्त्री पीठबुद्ध्या ततः परम् | ऐक्यं सम्भावयेन्मन्त्री पीठकलसयोरपि || ९२ || (नवरत्नप्रमाणम्) मुक्तावैदूर्यमाणिक्यगोमेदवज्रविद्रुमाः | पद्मरागं मरकतं नीलरत्नं नवेति च || ९३ || ---------------------------------------------- ८७-९० | कन्या अजातोपयमा बालिका | गुणत्रयात्मकेनेति त्रिगुणीकृत्यैकधा वेष्टनम् | वारत्रयमिति कल्पे एकेनैव गुणेन वारत्रयं वेष्टयित्वा त्रिगुणीकरणम् | ९१ | कूर्चाक्षतेति | कूर्चमिदं पारिभाषिकं प्रागुक्तम् | स्वर्णरत्नोदरं साधारकलसं पीठबुद्ध्या मध्ये प्रागुक्तयन्त्रमध्ये स्थापयेदिति सम्बन्धः | स्वर्णरत्नोदरमिति अत्र रत्नशब्देन नवरत्नान्युच्यन्ते, नवरत्नोदरं मन्त्री स्थापयेत्तरमुच्चरन् | इति शारदातिलकचतुर्थपटलसंवादात् | ९२ | कलसे देवीपीठत्वसम्भावनमन्तरेण तत्र देव्याः स्थितेरयोगादित्यर्थः | (कलसापूरणम्) क्षीरिवृक्षकषायेण पाशत्वग्भवेन च | विशेषैरुदकैर्वापि कर्पूरगन्धवासितैः || ९४ || पूरयेत् कलसं मन्त्री मातृकां प्रतिलोमतः | जपन्मूलमनुं तदवत् साधको देवताधिया || ९५ || (कलसे श्रीचक्रनिक्षेपः) श्रीमत्त्रिपुरसुन्दर्याश्चक्रं तत्र विनिक्षिपेत् || ९६ || (अत्र षोडशकामकलापूजा) श्रद्धा प्रीती रतिश्चैव भूतिः कान्तिर्मनोभवा | विमला मोदिनी घोरा मदनोत्पादिनी मदा || ९७ || ---------------------------------------------- ९४ | क्षीरिवृक्षकषायेणेति | अत्र अश्वत्थोडुम्बरप्लक्षवटत्वक्कषायेणेत्यर्थः | आयुर्वेदोक्तरीत्या चतुर्थांशावशेषः कषायो ग्राह्य इति राघवभट्टः | इह पलाशत्वग्भवेन चेति चकारात् क्षीरिद्रुमचतुष्टयपलाशत्वग्भवकषायैः समुदितैः पूरणमिति प्रतीयते | क्षीरद्रुमकषायेण पलाशत्वग्भवेन वा | इति शारदातिलकचतुर्थपटलवचने तु वाशब्देन क्षीरद्रुमकषायालाभे पालाशकषायेणापूरणमुपदिष्टम् | तन्त्रसारकृतापि क्षीरिद्रुमकषायेण पलाशत्वग्भवेन वा तीर्थोदकैर्वा गन्धपुष्पसुवासितजलैर्वेत्युक्तम्, एवञ्च प्रामाणिकशारदातिलकतन्त्रसारयोः कल्पान्तरबोधकवाशब्ददर्शनादत्र चकारो वार्थे इत्यवधेयम् | विशेषैरुदकैस्तीर्थोदकैः | तदुक्तं शारदायां चतुर्थपटले तीर्थोदकैर्वा कर्पूरगन्धपुष्पसुवासितैः || इति | मातृकां प्रतिलोमत इति, विलोममातृकां जपन् तद्वदिति मूलमन्त्रञ्च जपन् इत्यर्थः | ९६-९८ | श्रीमत्रिपुरसुन्दरीचक्रन्तु सप्तदशपटले वक्ष्यते | तत्र षोडशमदनकलापूजनमुपदिशति-श्रद्धेत्यादिना साधक इत्यन्तेन | षोडशस्वरसंयुक्ता एताः श्रद्धादयो मोहनी दीपनी चैव शोधनी चैव शाङ्करी | रञ्जनी चैव मदनकला एताः प्रपूजयेत् | षोडशस्वरसंयुक्ता गन्धपुष्पेण साधकः || ९८ || वह्निसूर्यविधूनान्तु तन्मन्त्रैः पूजयेत् कलाः | प्रणवस्य कलाः पञ्च पञ्चाशद्वर्णभेदतः || ९९ || कलात्मकं शङ्खतोयं कुम्भे किञ्चिद्विनिक्षिपेत् || १०० || (कलसे पल्लवादिनिवेशनप्रक्रिया) तथाऽम्रपनसाश्वत्थवटोदुम्बरपल्लवैः | किन्नाशपनसाश्वत्थचूतपल्लवकोमलैः | इन्द्रवल्लीसमाबद्धैः सुरद्रुमधिया गुरुः || १०१ || कुम्भवक्त्रं पिधायास्मिंश्चषकं सफलीकृतम् | संस्थापयेत् फलधिया विधिवत् कल्पशाखिनाम् || १०२ || ततः शुद्धदुकूलाभ्यां कलसं वेष्टयेत् सुध्हिः | दध्यक्षतं गन्धपुष्पं सिन्दूरं बाह्यतः क्षिपेत् || १०३ || (कोणकलसस्थापनम्) वेदिकायाश्चतुष्कोणे शालितण्डुलकोपरि | जलपल्लवसंयुक्तं चतुःकुम्भं विनिर्दिशेत् || १०४ || (द्वितीयमण्डलकल्पे कलसस्थापने विशेषः) शेषमण्डलपक्षे तु नवकुम्भं सुशोभनम् | स्वर्णरत्नादिसंयुक्तं नवयोनौ विनिक्षिपेत् || १०५ || ---------------------------------------------- मदनकलाः पूजयेदित्यर्थः | तथाच अं श्रद्धायै नमः | आं प्रीत्यै नमः | इं रत्यै नमः इति पूजाक्रमः पर्यवस्यति | १०१-१०२ | तथेति | अत्र पल्लवैः कोमलैरिति पृथङ्ग्निर्देशात् तथेत्यादिना किन्नाशेत्यादिना च कल्पद्वयमुक्तमित्यवधेयम् | इन्द्रबली इन्द्रवारुणीलताविशेषः | चषकं कलससजातीयं शरावादि | (मूलशक्तिपूजनम्) अथ कल्पोक्तमासाद्य पूजयेत् साधकोत्तमः | आवाह्यास्मिन् कल्पतरोच्छायायां परमेश्वरीम् || १०६ || षोडशाद्युपचारैश्च नानाद्रव्यैर्मनोहरैः | परिवारसमेताञ्च नैवेद्यादीन् पृथक् पृथक् || १०७ || (नवकुम्भस्थापनकल्पे विशेषः) नवकुम्भप्रकारे तु वशिन्याद्यष्टकं पुनः | पाद्यादिभिस्तु मन्त्रज्ञो वसुकुम्भे प्रपूजयेत् || १०८ || (होमः) ततः स्वदक्षिणे मन्त्री कुण्डं विरचयेत् सुधीः | हस्तमानं स्थण्डिलं वा रचयेद् विधिपूर्वकम् || १०९ || विधिवदग्निमारोप्य तत्र देवीं प्रपूजयेत् | तिलाज्यैर्जुहुयान्मन्त्री शतमष्टोत्तरं क्रमात् || ११० || (शिष्यानयनम्) ततो होमसमीपे तु शिष्यं समानयेद् बुधः || १११ || (शिष्यदेहे षडध्वचिन्तनम्) विलोक्य दिव्यदृष्ट्या तं षडध्वनोऽत्र चिन्तयेत् | पादान्धुनाभिहृद्भालमस्तकेषु क्रमात् सुधीः || ११२ || ---------------------------------------------- ११२ | अथाऽध्वशोधने निरूपणीये प्रथमं शिष्यदेहे षडध्वचिनतनमाह विलोक्य दिव्यदृष्ट्येति | दिव्यदृष्टिरनिमेषदृष्टिः | तदुक्तं विश्वसारे द्वितीयपटले अनिमेषचक्षुषा दृष्टिर्दिव्यदृष्टिः प्रकीर्तिता | इति | षडध्वानस्त्वग्रे वक्ष्यन्ते | अधवचिन्तनस्थानमाह पादेति | अन्धुः कूपः (षडध्वानः) कलाध्वा चैव तत्त्वाध्वा भुवनाध्वेति तत्त्रयम् | वर्णाध्वा च पदाध्वा च मन्त्राध्वेत्यपरं त्रयम् || ११३ || (तत्र कलाध्वा) निवृत्तिः सुप्रतिष्ठा स्याद् विद्या शान्तिरनन्तरम् | शान्त्यतीतेति विज्ञेया कलाध्वेति प्रचक्षते || ११४ || (तत्त्वाध्वा) निवृत्त्याद्याः कलाः पञ्च बिन्दुः कला च नादकः | शक्तिः सदाशिवश्चैव तत्त्वाध्वा प्रकृतेरयम् || ११५ || ---------------------------------------------- पायुरित्यर्थः | एवञ्च शिष्यस्य पादयोः कलाध्वानम्, पायौ तत्त्वाध्वानम्, नाभौ भुवनाध्वानम्, हृदि वर्णाध्वानम्, भाले पदाध्वानम्, मस्तके मन्त्राध्वानं चिन्तयेदित्यर्थः | ११३-११४ | अध्वषट्कमाह कलेति | अत्र षण्णामध्वनां त्रयं त्रयमित्येताभ्यां पृथक् त्रित्वेन विभजनात् कलातत्त्वभुवनरूपाः प्रथमास्त्रयोऽध्वानोऽर्थरूपाः, वर्णपदमन्त्ररूपास्त्रयोऽपरे शब्दरूपा इति सूचितम् | व्यक्तमाह राघवभट्टधृतवायवीयसंहितायाम् तेऽत्र शब्दास्त्रयो धातस्त्रस्त्वर्थाः समीरिताः | इति | एतदर्थप्रतिपादकं वचनान्तरमपि प्रदर्शितं राघवभट्टेन मन्त्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः | भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् || इति | अत्रेदं रहस्यम् सृष्टेरादौ परमशिवस्य बहु स्यां प्रजायेयेति इच्छायां समुत्पन्नायां तत इच्छाशक्तेर्ज्ञानाशक्तिस्ततश्च क्रियाशक्तिरुद्भवति | एतच्छक्तित्रयसंयोगेनार्थसृष्टिः शब्दसृष्टिश्च सम्पद्येते | अत्र मूले कलाध्वेत्यादित्रयेणार्थसृष्टिर्वर्णाध्वेत्यादित्रयेण च शब्दसृष्टिर्दर्शित | एवञ्च कलाध्वनस्तत्त्वाध्वा, तत्त्वाध्वनो भुवनाध्वा, भुवनाध्वनो वर्णाध्वा, वर्णाध्वनः पदाध्वा, पदाध्वनो मन्त्राध्वेति सृष्टिक्रमः | मन्त्राध्वनः पदाध्वा, पदाध्वनो वर्णाध्वा, वर्णाध्वनो भुवनाध्वा, भुवनाध्वनस्तत्त्वाध्वा, तत्त्वाध्वनः कलाध्वेति संहारक्रमः | तत्त्वानामेतेषां शोधनन्तु संहार क्रमेण परमशिवे विलयं कृत्वा पुनः सृष्टिक्रमेण जननम् | तदुक्तं शारदायां पञ्चमपटले आचार्यकुण्डे संशुद्धैस्तिलैराज्यपरिप्लुतैः | शोधयाम्यमुमध्वानं स्वाहेति पृथगध्वनः || ताराद्यमाहुतीरष्टौ क्रमात्तान् विलयं नयेत् | शिवे शिवान्तसंलीनाञ्जनयेत् सृष्टिमार्गतः || एवञ्चाध्वविशोधनशब्दस्य सृष्टिमार्गविशोधनमित्येवार्थः | षडध्वमयमिदं शरीरम्, अध्वनां शोधनमन्तरेण शरीरशुद्धेरसम्भवादशुद्धशरीरे च शिष्ये दत्तोऽपि मन्त्रो नोपकाराय कल्पत इति गुरुमन्त्रदानात् पूर्वमध्वशोधनं विदधीत | तत्र प्रथमं कलाद्व्हशोधनम्, कलाध्वानस्तु निवृत्त्याद्याः पञ्च | तासां शोधनमाह राघवभट्टःपादे कलाध्वानं स्मृत्वा पद्गुह्यहृद्वक्त्रशिरःसु स्वबीजादिकाः कला विन्यस्य पश्चात् कलाध्वविशोधनमिति | प्रकारन्तु शोधयाभ्यमुमध्वानमित्यादिना स्वयमेव वक्ष्यति | अथ तत्त्वाध्वशोधनम् | तत्त्वान्याह शारदायां पञ्चमपटले तत्त्वाध्वा बहुधा भिन्नः शिवाद्यागमभेदतः | षट्त्रिंशच्छिवतत्त्वानि द्वाविंशद् वैष्णवानि तु || चतुर्विंशतितत्वानि मैत्राणि प्रकृतेः पुनः | उक्तानि दश तत्वानि सप्त च त्रिपदात्मनः || इत्यनेन शैववैष्णवादिभेदेन तत्त्वानां बहवो भेदाः प्रदर्शिताः | तत्र शिवतत्त्वानि शुद्धत्वेन शुद्धाशुद्धत्वेनाशुद्धत्वेन च त्रिविधानि | तत्र शुद्धानि तत्वानि शैवान्युच्यन्ते शिवः शक्तिः सदाशिवः | ईश्वरो विद्यया सार्द्धं पञ्च शुद्धान्यमूनि हि || शुद्धाशुद्धनि यथा माया कालश्च नियतिः कलाविद्या पुनः स्मृताः | रागः पुरुष एतानि शुद्धाशुद्धानि सप्त च || अशुद्धानि तु प्रकृतिर्बुद्ध्यहङ्कारो मनो ज्ञानेन्द्रियाण्यथ | कर्मेन्द्रियाणि तन्मात्रा पञ्चभूतानि देशिकाः || एतान्याहुरशुद्धानि चतुर्विंशतिरागमे | शैवानामिति तत्त्वानां विभागोऽत्र प्रदर्शितः || इति | एवं वैष्णवादितत्त्वान्यपि ज्ञेयानि | (भुवनाध्वा) ईरितो भुवनाध्वेति भुवनानि चतुर्दश || ११६ || (वर्णाध्वा) अकारादिक्षकारान्ता वर्णाध्वा परिकीर्तितः | (पदाध्वा) विभक्त्यन्ता वर्णसङ्घाः पदाध्वेति प्रचक्षते || ११७ || (मन्त्राध्वा) मन्त्राध्वा मन्त्रराशिस्तु षडध्वानः प्रकीर्तिताः || ११८ || ---------------------------------------------- शैवामगेष्वपि त्रिपुरायास्तत्त्वे विशेषः निवृत्याद्याः कलाः पञ्च ततो बिन्दुः कला पुनः | नादः शक्तिः सदापूर्वशिवश्च प्रकृतिर्विदुः || आत्मविद्याशिवः पश्चाच्छिवो विद्या स्वयं पुनः | सर्वतत्त्वञ्च तत्वानि प्रोक्तानि त्रिपदात्मनः | तत्त्वाध्वा कथितो ह्येष तत्तदागमवेदिभिः || इति | मूले तु त्रिपुराया एव प्रकृतत्वात्त्रैपुराण्येव तत्त्वानि प्रदशितानि निवृत्त्याद्या इत्यादिना | तत्रापि सप्तैव नामतो निर्दिष्टानि शारदोक्तानामपरेषामपि तत्त्वानामत्र ग्रहणमुन्नेयम् | अत्रेदमवधेयम् प्रागुक्तेषु तत्वेषु च केचिज्जडाः स्वभावत एव मायिकत्वादशुद्धाः शिवशक्तिसदाशिवादीनान्तु स्वतो विशुद्धत्वेऽपि शरीरसम्पर्केण आणव-कार्मण- मायिकमलत्रयवत्त्वादशुद्धत्वम् | आणवादिमलत्रयस्वरूपमुक्तं राघवभट्टेन-आणवो नाम सदाद्शिवस्य स्वस्यानवमर्शः,कार्मो नाम पुण्यपापवानहमिति प्रतीतिः, मायीयो नामाहङ्कारादावात्मबुद्धिरिति | एवञ्चाशुद्धानां तत्त्वानां शोधनेन शरीरात्मादीनां शुद्धिः सम्पद्यत इति तदर्थमध्वशोधनमावश्यकमिति संक्षेपः | ११६-११८ | ईरित इति | चतुर्दशभुवनानि भुवनाध्वेत्यर्थः | राघवभट्टधृतवायवीयसंहितायाम् आधाराद्युन्मन्यन्तञ्च भुवनाध्वा प्रकीर्तितः | इत्यनेन भुवनाध्वनः स्थानं निरूपितम् | व्यक्तमाह निर्वाणतन्त्रे दशमपटले (अध्वशोधनक्रमः) अथ कूर्चेन शिष्यन्तु स्पृशन्नाज्यतिलैर्हुनेत् | शोधयाम्यमुमध्वानममुष्याष्टाहुतीर्गुरुः | स्वाहान्तं तारपूर्वन्तु क्रमेण पृथगध्वनः || ११९ || (शिष्यदेहे चैतन्ययुक्तिः) शिष्यं विलोक्य चैतन्यं तस्य देहे नियोजयेत् || १२० || (पूर्णाहुतिदानपूर्विका पञ्चोपचारपूज) ततः पूर्णाहुतिं दत्त्वा कुम्भे देवीं प्रपूजयेत् | पञ्चोपचारैः संपूज्य प्रदद्याच्छत्रचामरम् || १२१ || ---------------------------------------------- पातालसप्तकं तत्र तत्रैव सप्तस्वर्गकम् | एवं क्रमात् सर्वदेहे भुवनानि चतुर्दश || इति | अकारेति | अकारादिक्षकारान्ता मातृकावर्णा देहे तत्तत्स्थानस्थिता इत्यर्थः | विभक्त्यन्तेति | मन्त्रघटको वर्णसमूहो विभक्त्यन्त एव पदाध्वा | तदुक्तं राघवभट्टधृतवायवीयसंहितायाम् अनेकभेदसंभिन्नः पदाध्वा पदसंहतिः | महामन्त्रोपमन्त्राणां वर्ततेऽवयवात्मना | प्रधानावयवत्वेन सोऽद्व्हाऽयं पदवाचकः | इति | राघवभट्टस्तु वर्णसङ्घः सबिन्दुवर्णा इत्याह | मन्त्राध्वेति अ-क-च-ट-त-प-याः सप्त मन्त्रा ब्रह्मरन्ध्रे इति | ११९ | अथाऽध्वशोधनक्रमाह अथेति | कूर्चेन प्राक्परिभाषितेनेत्यर्थः | शोधयामीति | तथाच - ओं अमुष्य कलाध्वानं शोधयामि स्वाहेत्यष्टाहुतीर्जुहुयादित्यर्थः | विलयसृष्ट्यादिक्रमेण शोधनस्य क्रमस्तु आचार्यकुण्डे संशुद्धैरित्यादिना पूर्वमेव प्रदर्शितः | १२० | शिष्यमिति | व्यक्तमाह शारदायां पञ्चमपटले विलोकयन् दिव्यदृष्ट्या तं शिशुं देशिकोत्तमः | आत्मस्थितं तच्चैतन्यं पुनः शिष्ये नियोजयेत् || इति | (देव्यै कर्पूरादिदानम्) ततः कर्पूरताम्बूलं देव्यै तस्यै निवेदयेत् || १२२ || (जपः) अष्टोत्तरसहस्रन्तु जप्त्वा देव्यै समर्पयेत् || १२३ || (व्याहृतिभिर्देव्या होम आत्मसमर्पणादिकञ्च) देव्या व्याहृतिभिर्हुत्वा शेषमन्यत् समापयेत् || १२४ || नेत्रमन्त्रेण शिष्यस्य नेत्रं वस्त्रेण बन्धयेत् | (मन्त्रोपदेशाय शिष्यस्यानयनम्) करे गृहीत्वा तं शिष्यं पूजास्थाने समानयेत् || १२५ || (पुष्पाञ्जलिदापनम्) पुष्पाञ्जलिं तस्य करे दत्त्वा मूलं समुच्चरन् | कलसे क्षेपयेन्मन्त्री देवताप्रीतिहेतवे || १२६ || (पुष्पपातेन शुभाशुभनिरूपणमशुभे तत्प्रतिकारश्च) पश्चिमोत्तररुद्रेन्द्रे पुष्पपातः शुभो भवेत् | अस्त्रमन्त्रेण जुहुयादशुभेऽष्तशतं गुरुः || १२७ || ---------------------------------------------- १२३ | अष्टोत्तरेति | अयं जपः स्वशक्तिरक्षार्थं विहितः | तदुक्तं राघवभट्टेन अष्टोत्तरसहस्रं स्वशक्तिहानानवाप्तये जप्यात् | इति | राघवभट्टधृतमहाकपिलपञ्चरात्रेऽपि मन्त्रं दत्त्वा सहस्रं वै स्वसिद्ध्यै देशिको जपेत् | इति | १२५ | नेत्रमन्त्रेण वौषट् इत्यनेन | १२६ | पुष्पाञ्जलिमिति | दीक्षयिष्यमाणस्य शिष्यस्य तदानीं मन्त्राज्ञानान्मूलमन्त्रजपो गुरुणा कर्तव्यस्तदनुज्ञातेन शिष्येणामन्त्रकं पुष्पाञ्जलिर्देय इत्यर्थः | १२७ | पश्चिमेति | पश्चिमे उत्तरे ईशाने पूर्वे वा अञ्जलिपुष्पाणां पातः शुभकरः (नेत्रबन्धापनयनम्) नेत्रबन्धं परित्यज्य कुशासने विशेच्छुचिः | (पुष्पाञ्जलिदानानन्तरप्रक्रिया) पुष्पाञ्जलित्रयं दत्त्वा पुनः संपूजयेद् गुरुः || १२८ || यथाविधिविधानेन हृदि देवीं समानयेत् || १२९ || कुशान्तरे शम्भुदेशे गर्गरीं नालसंयुताम् | संस्थाप्य जलसंपूर्णां वस्त्रयुग्मेण वेष्टिताम् || १३० || तन्मध्ये निक्षिपेन्मन्त्री त्रिकटु त्रिफलां तथा | भस्मदूर्वामृत्तिकाश्व करुपूरोचनान्तथा || १३१ || चन्दनं कुङ्कमञ्चैव चक्रराजं तथैव च | अस्त्रमन्त्रेण संरक्ष्य धेनुयोन्यौ च दर्शयेत् || १३२ || (अस्त्रदेवतापूजादिप्रक्रिया) सिंहसंस्थां महारौद्रीं खड्गखेटकधारिणीम् | घोररूपां पश्चिमास्यां पूजयेदस्त्रदेवताम् || १३३ || तस्या उपरि मन्त्रज्ञो दशधा मूलमाजपेत् || १३४ || ---------------------------------------------- वायुनैर्-ऋतयाम्याग्निषु पुष्पपातस्त्वशुभकर इत्यर्थः | एवमशुभे पुष्पपातेऽष्टशतं जुहुयात् | अष्टशतम् अष्टाधिकं शतमित्यर्थः | व्यक्तमाह राघवभट्टधृतपिङ्गलामते पुष्पैरञ्जलिमापूर्य योगपीठे प्रदापयेत् | पश्चिमोत्तररुद्रेन्द्रे पुष्पपातः शुभोऽशुभे | अष्टोत्तरशतं शान्त्यै जुहुयादस्त्रमन्त्रतः || इति | १३० | कुशान्तर इति | शम्भुदेशे ईशानभागे | अथवा शङ्खपात्रन्तु जलेनापूर्य साधकः | वह्निसूर्यविधूनान्तु कलास्तत्र प्रपूजयेत् || १३५ || अथ मन्त्रं विनिक्षिप्य षडङ्गेनार्चयेत्ततः | अस्त्रमन्त्रेण संपूज्य मूलञ्च दशधा जपेत् || १३६ || (यन्त्रे शिष्यस्योपवेशनम्) ततः पद्मं लिखेद्वामे केशरेषु स्वराल्लि/खेत् | युग्मयुग्मक्रमेणैव, कादिवर्णाल्लि/खेत्ततः || १३७ || सप्तपत्रे चाष्टमे च लक्षवर्णं लिखेत् सुधीः | तन्मध्ये कर्णिकायान्तु शिष्यं संस्थापयेद् गुरुः || १३८ || (शिष्यशिरसि श्रीचक्रन्यासः) षडध्वरूपं श्रीचक्रं तस्य मूर्ध्नि विचिन्तयेत् || १३९ || (शिष्यस्नपनम्) शिष्यस्य मुखमावेष्ट्य वस्त्रेणोत्थाय गर्गरीम् | मूलं पठन् नालमुक्तजलैः स्नायाच्च बालकम् || १४० || (शिष्याभिषेकः) कुम्भमुद्धृत्य विधिवत्तन्मुखस्थान् सुरद्रुमान् | मातुर्वर्णं विलोमेन जपन्मूर्द्ध्नि शिशोस्तरेत् || १४१ || ---------------------------------------------- १३७-१३८ | ततः पद्ममिति | मातृकायन्त्रोक्तपद्मानुरूपमिदं पद्मम् | प्रथमं वृत्तरूपा कर्णिका, ततो वृत्तं तत्संसक्तान्यष्टौ दलानि | प्रथमवृत्ताद्दलमूलेषु केशराणि, केशर्रेषु युगशः षोडश स्वराः, पूर्वादितः प्रादक्षिण्येन पञ्चसु दलेषु पञ्च वर्गाः, षष्ठे यरलवाश्चत्वारो वर्णाः सप्तमे शषसहाः, अष्टमे ल-क्षवर्णद्वयम् | इति पद्मनिर्माणक्रमः | तत्पद्मकर्णिकायां शिष्यमुपवेशयेत् | १४० | गर्गरीं गृहीत्वेत्यर्थः | १४१ | मातुरिति | विलोमेन मातुर्वर्णं जपन्निति क्षकारादकारान्तं मातृकावर्णमुच्चरन्नित्यर्थः | ततस्तत्पल्लवेनैव घटस्थतार्थवारिणा | मूलमन्त्रेण मन्त्रज्ञस्त्रिवारं प्रोक्षयेच्छिशुम् || १४२ || एवमेवाभिषेकेण भवेच्च देशिकाग्रणीः | शुद्धेन वाससा गात्रं सम्मार्ज्यालङ्कृतो भवेत् || १४३ || (गुरोरनन्तरकरणीयम्) स्ववामभागे तं शिष्यं शुद्धासने निवेशयेत् | करे पुष्पफलं कृत्वा ब्रह्मरन्ध्रे फलं क्षिपेत् || १४४ || ततो ब्रह्म त्वमेवासि वाक्यमेवं वदेद् गुरुः | (षट्चक्रविज्ञानोपदेशः) पश्चात् षट्चक्रविज्ञानं शिष्याय प्रतिबोधयेत् || १४५ || (शिष्यदेहे ऋष्यादिन्यासः) ऋष्यादिमातृकान्यासं तस्य देहे न्यसेद् गुरुः | (तान्त्रिकाद्वैतोपदेशः) शिवोक्ताद्वैतकाण्डन्तु शिष्यस्थाने प्रकाशयेत् || १४६ || (कौलदीक्षायां विशेषः) यदि प्राणाधिकः शिष्यो भवेत् कौलक्रमे रतः | तत्तन्मन्त्रैस्तत्त्वशुद्धिं कारयित्वा विधानतः || १४७ || (मन्त्रोपदेशः) ततो बालामनुं दक्षे कर्णे वारत्रयं वदेत् | ---------------------------------------------- १४५ | पश्चादिति | षट्चक्रविज्ञानन्तु षष्ठे प्रकाशे स्वयमेव वक्ष्यति | (गण्डूषदानम्) गण्डूषतीर्थं शिष्यस्य हस्ते दद्याद् यथाविधि || १४८ || आवयोः सफलञ्चास्तु वदेदेवं गुरूत्तमः | विभावयंस्ततः सोऽहं गृह्णीयाच्छिष्यसत्तमः || १४९ || गण्डूषदाने शिष्यस्य विकल्पो यदि जायते | न सिद्धिस्तस्य कुत्रापि श्रीविद्या च पराङ्मुखी || १५० || (पुनर्मूलदेवतार्चा) ततो भूमौ लिखित्वा तु विद्यां पुष्पादिभिर्यजेत् || १५१ || (गुरोरनन्तरकरणीयम्) दक्षिणं चरणाम्भोजं शिष्यमूर्ध्नि निवेश्य च | शिष्याय दर्शयेद् विद्यां तज्जपेत् साधकोत्तमः || १५२ || यदि स्यान्महती प्रीतिः शिष्यस्य प्राणदस्य च | तदोच्चारणमात्रेण दक्षकर्णे जपेत् पराम् || श्रीविद्यां ब्रह्मरूपान्तु सुखमोक्षप्रदायिनीम् || १५३ || ऋषिच्छन्दोदेवतानां विभागञ्च प्रकाशयेत् | ततो मन्त्ररहस्यन्तु सच्छिष्याय प्रबोधयेत् || १५४ || ---------------------------------------------- १४८ | गण्डुषेति | दद्याद् विद्यां ततस्तस्मै विनीतायाम्बुपूर्वकम् | इति शारदातिलकपञ्चमपटलवचनव्याख्याने राघवभट्टेनाम्बुपूर्वकमिति ब्राह्मणविष्यमित्युक्तम् | एवञ्च गण्डूषतीर्थं जलमित्यर्थः | पूर्व कौलक्रमे रत इत्यभिधानात् कौलिकानां कारणगण्डूषदानमुक्तमिति प्रतिभाति | तच्च न दद्याद् ब्राह्मणो मद्यं महादेव्यै कदाचन इति वक्ष्यमाणत्वाद् ब्राह्मणेतरविषयम् | अत एव राघवभट्टेन अम्बुपूर्वकमिति ब्राह्मणविष्यमित्युक्तम् | १५४ | मन्त्ररहस्यं मन्त्रप्रकरणे वक्ष्यते | (गुरुनामकल्पनक्रमः) किमप्यङ्ग ततः शिष्यः स्पर्शयेच्छ्रीगुरोस्ततः | तदङ्गे मातृकावर्णं कल्पयित्वा गुरूत्तमः || १५५ || द्व्यक्षरं त्र्यक्षरं वापि चतुरक्षरमेव वा | आनन्दनाथशब्दानतं तस्य नाम प्रकल्पयेत् || १५६ || (गुरोः प्रदक्षिणादि) ततः प्रदक्षिणीकृत्य गुरुं वारत्रयं शिशुः | अष्टाङ्गनमनं कृत्वा स्वात्मानञ्च समर्पयेत् || १५७ || (दक्षिणादानम्) ततश्च दक्षिणां दद्यात् संपूज्य गुरुपादुकाम् | सर्वस्वं वा तदर्द्धं वा चतुर्थांशमथापि वा || १५८ || (गुरोरात्मविशोधनप्रकारः) ततः स्वात्मविशुद्ध्यर्थं लक्षमेकं जपेद् गुरुः | सहस्रं प्रजपेद् वापि देशिको विजितेन्द्रियः || १५९ || (दीक्षादिवसे गुरुशिष्ययोरुपवासनिषेधः) मन्त्रं दत्त्वा गुरुश्चैव उपवासं चरेद् यदि | मोहाद्वा कामतो वापि कृमिर्भवति नान्यथा || १६० || दीक्षां कृत्वा तु यो मन्त्री उपवासं चरेद् यदि | तस्य देवः सदा रुष्टः शापं दत्त्वा व्रजेत् पुरम् || १६१ || ---------------------------------------------- १५७ | अष्टाङ्गप्रणामक्रममाह बृहन्निलतन्त्रे द्वितीयपटले पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा | मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः || इति | (संक्षेपदीक्षा) अथ दीक्षां प्रवक्ष्यामि संक्षिप्तां सिद्धिदायिनीम् | यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः || १६२ || न तिथिर्न व्रतं होमो न स्नानं न जपक्रिया | दीक्षायाः कारणं किन्तु स्वेछाप्राप्ते तु सद्गुरोः || १६३ || तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव | विद्याबलं दैवबलं तदेव तदेव मासादिबलं यथार्थम् || १६४ || (ग्रहणादौ विशेषः) अथवा ग्रहणे तीर्थे सिद्धक्षेत्रे शिवालये | मन्त्रमात्रप्रकथनमुपदेशः स उच्यते || १६५ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ पञ्चमः प्रकाशः || ५ || ---------------------------------------------- १६३ | अत्र स्वेच्छाप्राप्तिस्तु सद्गुरोः इत्येवं पाठः समीचीन इति प्रतिभाति | स्वेच्छाप्राप्ते तु सद्गुरोः इति पाठे प्राप्ते इति भावक्तप्रत्ययेन सद्गुरोः स्वेच्छाप्राप्तौ दीक्षा प्रशस्तेति कथञ्चित् समाधेयम् | ########### END OF FILE #######